वैशम्पाय़न उवाच:
दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ |
१ क
वैशम्पाय़न उवाच:
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जय़ः ||
१ ख
वैशम्पाय़न उवाच:
उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा |
२ क
वैशम्पाय़न उवाच:
प्रय़ुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मय़ा ||
२ ख
वैशम्पाय़न उवाच:
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः |
३ क
वैशम्पाय़न उवाच:
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ||
३ ख
वैशम्पाय़न उवाच:
अत्र यद्धितमस्माकं लोकानां चैव सर्वथा |
४ क
वैशम्पाय़न उवाच:
भवन्तौ देवसङ्काशौ तथा संहर्तुमर्हतः ||
४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जय़ः |
५ क
वैशम्पाय़न उवाच:
संहारो दुष्करस्तस्य देवैरपि हि संय़ुगे ||
५ ख
वैशम्पाय़न उवाच:
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे |
६ क
वैशम्पाय़न उवाच:
न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ||
६ ख
वैशम्पाय़न उवाच:
व्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना |
७ क
वैशम्पाय़न उवाच:
न शक्यमावर्तय़ितुं व्रह्मचारिव्रतादृते ||
७ ख
वैशम्पाय़न उवाच:
अचीर्णव्रह्मचर्यो यः सृष्ट्वावर्तय़ते पुनः |
८ क
वैशम्पाय़न उवाच:
तदस्त्रं सानुवन्धस्य मूर्धानं तस्य कृन्तति ||
८ ख
वैशम्पाय़न उवाच:
व्रह्मचारी व्रती चापि दुरवापमवाप्य तत् |
९ क
वैशम्पाय़न उवाच:
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ||
९ ख
वैशम्पाय़न उवाच:
सत्यव्रतधरः शूरो व्रह्मचारी च पाण्डवः |
१० क
वैशम्पाय़न उवाच:
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ||
१० ख
वैशम्पाय़न उवाच:
द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ |
११ क
वैशम्पाय़न उवाच:
न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ||
११ ख
वैशम्पाय़न उवाच:
अशक्तः प्रतिसंहारे परमास्त्रस्य संय़ुगे |
१२ क
वैशम्पाय़न उवाच:
द्रौणिर्दीनमना राजन्द्वैपाय़नमभाषत ||
१२ ख
वैशम्पाय़न उवाच:
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना |
१३ क
वैशम्पाय़न उवाच:
मय़ैतदस्त्रमुत्सृष्टं भीमसेनभय़ान्मुने ||
१३ ख
वैशम्पाय़न उवाच:
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता |
१४ क
वैशम्पाय़न उवाच:
मिथ्याचारेण भगवन्भीमसेनेन संय़ुगे ||
१४ ख
वैशम्पाय़न उवाच:
अतः सृष्टमिदं व्रह्मन्मय़ास्त्रमकृतात्मना |
१५ क
वैशम्पाय़न उवाच:
तस्य भूय़ोऽद्य संहारं कर्तुं नाहमिहोत्सहे ||
१५ ख
वैशम्पाय़न उवाच:
विसृष्टं हि मय़ा दिव्यमेतदस्त्रं दुरासदम् |
१६ क
वैशम्पाय़न उवाच:
अपाण्डवाय़ेति मुने वह्नितेजोऽनुमन्त्र्य वै ||
१६ ख
वैशम्पाय़न उवाच:
तदिदं पाण्डवेय़ानामन्तकाय़ाभिसंहितम् |
१७ क
वैशम्पाय़न उवाच:
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशय़िष्यति ||
१७ ख
वैशम्पाय़न उवाच:
कृतं पापमिदं व्रह्मन्रोषाविष्टेन चेतसा |
१८ क
वैशम्पाय़न उवाच:
वधमाशास्य पार्थानां मय़ास्त्रं सृजता रणे ||
१८ ख
व्यास उवाच:
अस्त्रं व्रह्मशिरस्तात विद्वान्पार्थो धनञ्जय़ः |
१९ क
व्यास उवाच:
उत्सृष्टवान्न रोषेण न वधाय़ तवाहवे ||
१९ ख
व्यास उवाच:
अस्त्रमस्त्रेण तु रणे तव संशमय़िष्यता |
२० क
व्यास उवाच:
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ||
२० ख
व्यास उवाच:
व्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव |
२१ क
व्यास उवाच:
क्षत्रधर्मान्महावाहुर्नाकम्पत धनञ्जय़ः ||
२१ ख
व्यास उवाच:
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः |
२२ क
व्यास उवाच:
सभ्रातृवन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ||
२२ ख
व्यास उवाच:
अस्त्रं व्रह्मशिरो यत्र परमास्त्रेण वध्यते |
२३ क
व्यास उवाच:
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ||
२३ ख
व्यास उवाच:
एतदर्थं महावाहुः शक्तिमानपि पाण्डवः |
२४ क
व्यास उवाच:
न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षय़ा ||
२४ ख
व्यास उवाच:
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः |
२५ क
व्यास उवाच:
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ||
२५ ख
व्यास उवाच:
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामय़ाः |
२६ क
व्यास उवाच:
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ||
२६ ख
व्यास उवाच:
मणिं चैतं प्रय़च्छैभ्यो यस्ते शिरसि तिष्ठति |
२७ क
व्यास उवाच:
एतदादाय़ ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ||
२७ ख
द्रौणिरु उवाच:
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् |
२८ क
द्रौणिरु उवाच:
अवाप्तानीह तेभ्योऽय़ं मणिर्मम विशिष्यते ||
२८ ख
द्रौणिरु उवाच:
यमावध्य भय़ं नास्ति शस्त्रव्याधिक्षुधाश्रय़म् |
२९ क
द्रौणिरु उवाच:
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ||
२९ ख
द्रौणिरु उवाच:
न च रक्षोगणभय़ं न तस्करभय़ं तथा |
३० क
द्रौणिरु उवाच:
एवंवीर्यो मणिरय़ं न मे त्याज्यः कथञ्चन ||
३० ख
द्रौणिरु उवाच:
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् |
३१ क
द्रौणिरु उवाच:
अय़ं मणिरय़ं चाहमिषीका निपतिष्यति |
३१ ख
द्रौणिरु उवाच:
गर्भेषु पाण्डवेय़ानाममोघं चैतदुद्यतम् ||
३१ ग
व्यास उवाच:
एवं कुरु न चान्या ते वुद्धिः कार्या कदाचन |
३२ क
व्यास उवाच:
गर्भेषु पाण्डवेय़ानां विसृज्यैतदुपारम ||
३२ ख
वैशम्पाय़न उवाच:
ततः परममस्त्रं तदश्वत्थामा भृशातुरः |
३३ क
वैशम्पाय़न उवाच:
द्वैपाय़नवचः श्रुत्वा गर्भेषु प्रमुमोच ह ||
३३ ख