chevron_left स्त्री पर्व अध्याय १५
वैशम्पाय़न उवाच:
एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत |
१ क
वैशम्पाय़न उवाच:
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ||
१ ख
वैशम्पाय़न उवाच:
तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः |
२ क
वैशम्पाय़न उवाच:
युधिष्ठिर इदं चैनां मधुरं वाक्यमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ||
३ ख
वैशम्पाय़न उवाच:
न हि मे जीवितेनार्थो न राज्येन धनेन वा |
४ क
वैशम्पाय़न उवाच:
तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः ||
४ ख
वैशम्पाय़न उवाच:
तमेवंवादिनं भीतं संनिकर्षगतं तदा |
५ क
वैशम्पाय़न उवाच:
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम् ||
५ ख
वैशम्पाय़न उवाच:
तस्यावनतदेहस्य पादय़ोर्निपतिष्यतः |
६ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी |
६ ख
वैशम्पाय़न उवाच:
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ||
६ ग
वैशम्पाय़न उवाच:
ततः स कुनकीभूतो दर्शनीय़नखो नृपः |
७ क
वैशम्पाय़न उवाच:
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ||
७ ख
वैशम्पाय़न उवाच:
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत |
८ क
वैशम्पाय़न उवाच:
गान्धारी विगतक्रोधा सान्त्वय़ामास मातृवत् ||
८ ख
वैशम्पाय़न उवाच:
तय़ा ते समनुज्ञाता मातरं वीरमातरम् |
९ क
वैशम्पाय़न उवाच:
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः ||
९ ख
वैशम्पाय़न उवाच:
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता |
१० क
वैशम्पाय़न उवाच:
वाष्पमाहारय़द्देवी वस्त्रेणावृत्य वै मुखम् ||
१० ख
वैशम्पाय़न उवाच:
ततो वाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा |
११ क
वैशम्पाय़न उवाच:
अपश्यदेताञ्शस्त्रौघैर्वहुधा परिविक्षतान् ||
११ ख
वैशम्पाय़न उवाच:
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः |
१२ क
वैशम्पाय़न उवाच:
अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् |
१२ ख
वैशम्पाय़न उवाच:
रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि ||
१२ ग
द्रौपद्यु उवाच:
आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः |
१३ क
द्रौपद्यु उवाच:
न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् |
१३ ख
द्रौपद्यु उवाच:
किं नु राज्येन वै कार्यं विहीनाय़ाः सुतैर्मम ||
१३ ग
वैशम्पाय़न उवाच:
तां समाश्वासय़ामास पृथा पृथुललोचना |
१४ क
वैशम्पाय़न उवाच:
उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् ||
१४ ख
वैशम्पाय़न उवाच:
तय़ैव सहिता चापि पुत्रैरनुगता पृथा |
१५ क
वैशम्पाय़न उवाच:
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वय़म् ||
१५ ख
वैशम्पाय़न उवाच:
तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् |
१६ क
वैशम्पाय़न उवाच:
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ||
१६ ख
वैशम्पाय़न उवाच:
मन्ये लोकविनाशोऽय़ं कालपर्याय़चोदितः |
१७ क
वैशम्पाय़न उवाच:
अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः ||
१७ ख
वैशम्पाय़न उवाच:
इदं तत्समनुप्राप्तं विदुरस्य वचो महत् |
१८ क
वैशम्पाय़न उवाच:
असिद्धानुनय़े कृष्णे यदुवाच महामतिः ||
१८ ख
वैशम्पाय़न उवाच:
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः |
१९ क
वैशम्पाय़न उवाच:
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ||
१९ ख
वैशम्पाय़न उवाच:
यथैव त्वं तथैवाहं को वा माश्वासय़िष्यति |
२० क
वैशम्पाय़न उवाच:
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ||
२० ख