उपमन्युरु उवाच:
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः |
१ क
उपमन्युरु उवाच:
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ||
१ ख
उपमन्युरु उवाच:
त्वादृशेन हि देवानां श्लाघनीय़ः समागमः |
२ क
उपमन्युरु उवाच:
व्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत |
२ ख
उपमन्युरु उवाच:
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ||
२ ग
कृष्ण उवाच:
अव्रुवं तमहं व्रह्मंस्त्वत्प्रसादान्महामुने |
३ क
कृष्ण उवाच:
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ||
३ ख
कृष्ण उवाच:
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि |
४ क
कृष्ण उवाच:
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ||
४ ख
कृष्ण उवाच:
मासमेकं फलाहारो द्वितीय़ं सलिलाशनः |
५ क
कृष्ण उवाच:
तृतीय़ं च चतुर्थं च पञ्चमं चानिलाशनः ||
५ ख
कृष्ण उवाच:
एकपादेन तिष्ठंश्च ऊर्ध्ववाहुरतन्द्रितः |
६ क
कृष्ण उवाच:
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ||
६ ख
कृष्ण उवाच:
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन |
७ क
कृष्ण उवाच:
इन्द्राय़ुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् |
७ ख
कृष्ण उवाच:
नीलशैलचय़प्रख्यं वलाकाभूषितं घनम् ||
७ ग
कृष्ण उवाच:
तमास्थितश्च भगवान्देव्या सह महाद्युतिः |
८ क
कृष्ण उवाच:
तपसा तेजसा कान्त्या दीप्तय़ा सह भार्यया ||
८ ख
कृष्ण उवाच:
रराज भगवांस्तत्र देव्या सह महेश्वरः |
९ क
कृष्ण उवाच:
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ||
९ ख
कृष्ण उवाच:
संहृष्टरोमा कौन्तेय़ विस्मय़ोत्फुल्ललोचनः |
१० क
कृष्ण उवाच:
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ||
१० ख
कृष्ण उवाच:
किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् |
११ क
कृष्ण उवाच:
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालय़ज्ञोपवीतम् ||
११ ख
कृष्ण उवाच:
दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्वाम् |
१२ क
कृष्ण उवाच:
चन्द्रं यथा परिविष्टं ससन्ध्यं; वर्षात्यये तद्वदपश्यमेनम् ||
१२ ख
कृष्ण उवाच:
प्रमथानां गणैश्चैव समन्तात्परिवारितम् |
१३ क
कृष्ण उवाच:
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ||
१३ ख
कृष्ण उवाच:
एकादश तथा चैनं रुद्राणां वृषवाहनम् |
१४ क
कृष्ण उवाच:
अस्तुवन्निय़तात्मानः कर्मभिः शुभकर्मिणम् ||
१४ ख
कृष्ण उवाच:
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ |
१५ क
कृष्ण उवाच:
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ||
१५ ख
कृष्ण उवाच:
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ |
१६ क
कृष्ण उवाच:
व्रह्मा रथन्तरं साम ईरय़न्ति भवान्तिके ||
१६ ख
कृष्ण उवाच:
योगीश्वराः सुवहवो योगदं पितरं गुरुम् |
१७ क
कृष्ण उवाच:
व्रह्मर्षय़श्च ससुतास्तथा देवर्षय़श्च वै ||
१७ ख
कृष्ण उवाच:
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा |
१८ क
कृष्ण उवाच:
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ||
१८ ख
कृष्ण उवाच:
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः |
१९ क
कृष्ण उवाच:
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ||
१९ ख
कृष्ण उवाच:
सनत्कुमारो वेदाश्च इतिहासास्तथैव च |
२० क
कृष्ण उवाच:
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ||
२० ख
कृष्ण उवाच:
मनवः सप्तसोमश्च अथर्वा सवृहस्पतिः |
२१ क
कृष्ण उवाच:
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ||
२१ ख
कृष्ण उवाच:
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः |
२२ क
कृष्ण उवाच:
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ||
२२ ख
कृष्ण उवाच:
प्रजानां पतय़ः सर्वे सरितः पन्नगा नगाः |
२३ क
कृष्ण उवाच:
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ||
२३ ख
कृष्ण उवाच:
सहस्राणि मुनीनां च अय़ुतान्यर्वुदानि च |
२४ क
कृष्ण उवाच:
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ||
२४ ख
कृष्ण उवाच:
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः |
२५ क
कृष्ण उवाच:
दिव्यतानेन गाय़न्तः स्तुवन्ति भवमद्भुतम् |
२५ ख
कृष्ण उवाच:
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ||
२५ ग
कृष्ण उवाच:
सर्वाणि चैव भूतानि स्थावराणि चराणि च |
२६ क
कृष्ण उवाच:
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् |
२६ ख
कृष्ण उवाच:
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ||
२६ ग
कृष्ण उवाच:
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत |
२७ क
कृष्ण उवाच:
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ||
२७ ख
कृष्ण उवाच:
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा |
२८ क
कृष्ण उवाच:
ततो मामव्रवीद्देवः पश्य कृष्ण वदस्व च ||
२८ ख
कृष्ण उवाच:
शिरसा वन्दिते देवे देवी प्रीता उमाभवत् |
२९ क
कृष्ण उवाच:
ततोऽहमस्तुवं स्थाणुं स्तुतं व्रह्मादिभिः सुरैः ||
२९ ख
कृष्ण उवाच:
नमोऽस्तु ते शाश्वत सर्वय़ोने; व्रह्माधिपं त्वामृषय़ो वदन्ति |
३० क
कृष्ण उवाच:
तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः ||
३० ख
कृष्ण उवाच:
त्वं वै व्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः |
३१ क
कृष्ण उवाच:
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ||
३१ ख
कृष्ण उवाच:
त्वत्तो जातानि भूतानि स्थावराणि चराणि च |
३२ क
कृष्ण उवाच:
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ||
३२ ख
कृष्ण उवाच:
ये चेन्द्रिय़ार्थाश्च मनश्च कृत्स्नं; ये वाय़वः सप्त तथैव चाग्निः |
३३ क
कृष्ण उवाच:
ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषय़ो वदन्ति ||
३३ ख
कृष्ण उवाच:
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः |
३४ क
कृष्ण उवाच:
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशय़म् ||
३४ ख
कृष्ण उवाच:
इष्टं दत्तमधीतं च व्रतानि निय़माश्च ये |
३५ क
कृष्ण उवाच:
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ||
३५ ख
कृष्ण उवाच:
कामः क्रोधो भय़ं लोभो मदः स्तम्भोऽथ मत्सरः |
३६ क
कृष्ण उवाच:
आधय़ो व्याधय़श्चैव भगवंस्तनय़ास्तव ||
३६ ख
कृष्ण उवाच:
कृतिर्विकारः प्रलय़ः प्रधानं प्रभवोऽव्ययः |
३७ क
कृष्ण उवाच:
मनसः परमा योनिः स्वभावश्चापि शाश्वतः |
३७ ख
कृष्ण उवाच:
अव्यक्तः पावन विभो सहस्रांशो हिरण्मय़ः ||
३७ ग
कृष्ण उवाच:
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रय़ः |
३८ क
कृष्ण उवाच:
महानात्मा मतिर्व्रह्मा विश्वः शम्भुः स्वय़म्भुवः ||
३८ ख
कृष्ण उवाच:
वुद्धिः प्रज्ञोपलव्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः |
३९ क
कृष्ण उवाच:
पर्याय़वाचकैः शव्दैर्महानात्मा विभाव्यसे ||
३९ ख
कृष्ण उवाच:
त्वां वुद्ध्वा व्राह्मणो विद्वान्न प्रमोहं निगच्छति |
४० क
कृष्ण उवाच:
हृदय़ं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ||
४० ख
कृष्ण उवाच:
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः |
४१ क
कृष्ण उवाच:
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ||
४१ ख
कृष्ण उवाच:
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु |
४२ क
कृष्ण उवाच:
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः |
४२ ख
कृष्ण उवाच:
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||
४२ ग
कृष्ण उवाच:
त्वय़ि वुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये |
४३ क
कृष्ण उवाच:
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रिय़ाः ||
४३ ख
कृष्ण उवाच:
यस्त्वां ध्रुवं वेदय़ते गुहाशय़ं; प्रभुं पुराणं पुरुषं विश्वरूपम् |
४४ क
कृष्ण उवाच:
हिरण्मय़ं वुद्धिमतां परां गतिं; स वुद्धिमान्वुद्धिमतीत्य तिष्ठति ||
४४ ख
कृष्ण उवाच:
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः |
४५ क
कृष्ण उवाच:
प्रधानविधिय़ोगस्थस्त्वामेव विशते वुधः ||
४५ ख
कृष्ण उवाच:
एवमुक्ते मय़ा पार्थ भवे चार्तिविनाशने |
४६ क
कृष्ण उवाच:
चराचरं जगत्सर्वं सिंहनादमथाकरोत् ||
४६ ख
कृष्ण उवाच:
सविप्रसङ्घाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वय़ांसि |
४७ क
कृष्ण उवाच:
रक्षोगणा भूतगणाश्च सर्वे; महर्षय़श्चैव तथा प्रणेमुः ||
४७ ख