युधिष्ठिर उवाच:
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपराय़णः |
१ क
युधिष्ठिर उवाच:
कथं प्रहिणुय़ां भीमं वलात्केवलसाहसात् ||
१ ख
युधिष्ठिर उवाच:
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् |
२ क
युधिष्ठिर उवाच:
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ||
२ ख
युधिष्ठिर उवाच:
जरासन्धवलं प्राप्य दुष्पारं भीमविक्रमम् |
३ क
युधिष्ठिर उवाच:
श्रमो हि वः पराजय़्यात्किमु तत्र विचेष्टितम् ||
३ ख
युधिष्ठिर उवाच:
अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते |
४ क
युधिष्ठिर उवाच:
यथाहं विमृशाम्येकस्तत्तावच्छ्रूय़तां मम ||
४ ख
युधिष्ठिर उवाच:
संन्यासं रोचय़े साधु कार्यस्यास्य जनार्दन |
५ क
युधिष्ठिर उवाच:
प्रतिहन्ति मनो मेऽद्य राजसूय़ो दुरासदः ||
५ ख
वैशम्पाय़न उवाच:
पार्थः प्राप्य धनुःश्रेष्ठमक्षय़्यौ च महेषुधी |
६ क
वैशम्पाय़न उवाच:
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||
६ ख
वैशम्पाय़न उवाच:
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो वलम् |
७ क
वैशम्पाय़न उवाच:
प्राप्तमेतन्मय़ा राजन्दुष्प्रापं यदभीप्सितम् ||
७ ख
वैशम्पाय़न उवाच:
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः |
८ क
वैशम्पाय़न उवाच:
वलेन सदृशं नास्ति वीर्यं तु मम रोचते ||
८ ख
वैशम्पाय़न उवाच:
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति |
९ क
वैशम्पाय़न उवाच:
क्षत्रिय़ः सर्वशो राजन्यस्य वृत्तिः पराजय़े ||
९ ख
वैशम्पाय़न उवाच:
सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् |
१० क
वैशम्पाय़न उवाच:
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ||
१० ख
वैशम्पाय़न उवाच:
द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे |
११ क
वैशम्पाय़न उवाच:
जय़स्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ||
११ ख
वैशम्पाय़न उवाच:
संय़ुक्तो हि वलैः कश्चित्प्रमादान्नोपय़ुज्यते |
१२ क
वैशम्पाय़न उवाच:
तेन द्वारेण शत्रुभ्यः क्षीय़ते सवलो रिपुः ||
१२ ख
वैशम्पाय़न उवाच:
दैन्यं यथावलवति तथा मोहो वलान्विते |
१३ क
वैशम्पाय़न उवाच:
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जय़ार्थिना ||
१३ ख
वैशम्पाय़न उवाच:
जरासन्धविनाशं च राज्ञां च परिमोक्षणम् |
१४ क
वैशम्पाय़न उवाच:
यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ||
१४ ख
वैशम्पाय़न उवाच:
अनारम्भे तु निय़तो भवेदगुणनिश्चय़ः |
१५ क
वैशम्पाय़न उवाच:
गुणान्निःसंशय़ाद्राजन्नैर्गुण्यं मन्यसे कथम् ||
१५ ख
वैशम्पाय़न उवाच:
काषाय़ं सुलभं पश्चान्मुनीनां शममिच्छताम् |
१६ क
वैशम्पाय़न उवाच:
साम्राज्यं तु तवेच्छन्तो वय़ं योत्स्यामहे परैः ||
१६ ख