chevron_left विराट पर्व अध्याय १५
कीचक उवाच:
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम |
१ क
कीचक उवाच:
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रिय़म् ||
१ ख
कीचक उवाच:
सुवर्णमालाः कम्वूश्च कुण्डले परिहाटके |
२ क
कीचक उवाच:
आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ||
२ ख
कीचक उवाच:
अस्ति मे शय़नं शुभ्रं त्वदर्थमुपकल्पितम् |
३ क
कीचक उवाच:
एहि तत्र मय़ा सार्धं पिवस्व मधुमाधवीम् ||
३ ख
द्रौपद्यु उवाच:
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् |
४ क
द्रौपद्यु उवाच:
पानमानय़ मे क्षिप्रं पिपासा मेति चाव्रवीत् ||
४ ख
कीचक उवाच:
अन्या भद्रे नय़िष्यन्ति राजपुत्र्याः परिस्रुतम् |
५ क
वैशम्पाय़न उवाच:
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् |
६ क
वैशम्पाय़न उवाच:
सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् |
६ ख
वैशम्पाय़न उवाच:
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ||
६ ग
वैशम्पाय़न उवाच:
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् |
७ क
वैशम्पाय़न उवाच:
अथैनां पश्यतो राज्ञः पातय़ित्वा पदावधीत् ||
७ ख
वैशम्पाय़न उवाच:
ततो योऽसौ तदार्केण राक्षसः संनिय़ोजितः |
८ क
वैशम्पाय़न उवाच:
स कीचकमपोवाह वातवेगेन भारत ||
८ ख
वैशम्पाय़न उवाच:
स पपात ततो भूमौ रक्षोवलसमाहतः |
९ क
वैशम्पाय़न उवाच:
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ||
९ ख
वैशम्पाय़न उवाच:
तां चासीनौ ददृशतुर्भीमसेनय़ुधिष्ठिरौ |
१० क
वैशम्पाय़न उवाच:
अमृष्यमाणौ कृष्णाय़ाः कीचकेन पदा वधम् ||
१० ख
वैशम्पाय़न उवाच:
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः |
११ क
वैशम्पाय़न उवाच:
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ||
११ ख
वैशम्पाय़न उवाच:
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् |
१२ क
वैशम्पाय़न उवाच:
प्रवोधनभय़ाद्राजन्भीमस्य प्रत्यषेधय़त् ||
१२ ख
वैशम्पाय़न उवाच:
सा सभाद्वारमासाद्य रुदती मत्स्यमव्रवीत् |
१३ क
वैशम्पाय़न उवाच:
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ||
१३ ख
वैशम्पाय़न उवाच:
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् |
१४ क
वैशम्पाय़न उवाच:
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ||
१४ ख
द्रौपद्यु उवाच:
येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् |
१५ क
द्रौपद्यु उवाच:
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||
१५ ख
द्रौपद्यु उवाच:
ये दद्युर्न च याचेय़ुर्व्रह्मण्याः सत्यवादिनः |
१६ क
द्रौपद्यु उवाच:
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||
१६ ख
द्रौपद्यु उवाच:
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूय़तेऽनिशम् |
१७ क
द्रौपद्यु उवाच:
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||
१७ ख
द्रौपद्यु उवाच:
ये ते तेजस्विनो दान्ता वलवन्तोऽभिमानिनः |
१८ क
द्रौपद्यु उवाच:
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||
१८ ख
द्रौपद्यु उवाच:
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये |
१९ क
द्रौपद्यु उवाच:
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||
१९ ख
द्रौपद्यु उवाच:
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् |
२० क
द्रौपद्यु उवाच:
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ||
२० ख
द्रौपद्यु उवाच:
कथं ते सूतपुत्रेण वध्यमानां प्रिय़ां सतीम् |
२१ क
द्रौपद्यु उवाच:
मर्षय़न्ति यथा क्लीवा वलवन्तोऽमितौजसः ||
२१ ख
द्रौपद्यु उवाच:
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते |
२२ क
द्रौपद्यु उवाच:
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ||
२२ ख
द्रौपद्यु उवाच:
मय़ात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् |
२३ क
द्रौपद्यु उवाच:
यः पश्यन्मां मर्षय़ति वध्यमानामनागसम् ||
२३ ख
द्रौपद्यु उवाच:
न राजन्राजवत्किञ्चित्समाचरसि कीचके |
२४ क
द्रौपद्यु उवाच:
दस्यूनामिव धर्मस्ते न हि संसदि शोभते ||
२४ ख
द्रौपद्यु उवाच:
न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन |
२५ क
द्रौपद्यु उवाच:
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ||
२५ ख
द्रौपद्यु उवाच:
नोपालभे त्वां नृपते विराट जनसंसदि |
२६ क
द्रौपद्यु उवाच:
नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके |
२६ ख
द्रौपद्यु उवाच:
सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ||
२६ ग
विराट उवाच:
परोक्षं नाभिजानामि विग्रहं युवय़ोरहम् |
२७ क
विराट उवाच:
अर्थतत्त्वमविज्ञाय़ किं नु स्यात्कुशलं मम ||
२७ ख
वैशम्पाय़न उवाच:
ततस्तु सभ्या विज्ञाय़ कृष्णां भूय़ोऽभ्यपूजय़न् |
२८ क
वैशम्पाय़न उवाच:
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हय़न् ||
२८ ख
सभ्या ऊचुः:
यस्येय़ं चारुसर्वाङ्गी भार्या स्यादाय़तेक्षणा |
२९ क
सभ्या ऊचुः:
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ||
२९ ख
वैशम्पाय़न उवाच:
एवं सम्पूजय़ंस्तत्र कृष्णां प्रेक्ष्य सभासदः |
३० क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ||
३० ख
वैशम्पाय़न उवाच:
अथाव्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रिय़ाम् |
३१ क
वैशम्पाय़न उवाच:
गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाय़ा निवेशनम् ||
३१ ख
वैशम्पाय़न उवाच:
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नय़ः |
३२ क
वैशम्पाय़न उवाच:
शुश्रूषय़ा क्लिश्यमानाः पतिलोकं जय़न्त्युत ||
३२ ख
वैशम्पाय़न उवाच:
मन्ये न कालं क्रोधस्य पश्यन्ति पतय़स्तव |
३३ क
वैशम्पाय़न उवाच:
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ||
३३ ख
वैशम्पाय़न उवाच:
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि |
३४ क
वैशम्पाय़न उवाच:
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि |
३४ ख
वैशम्पाय़न उवाच:
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रिय़म् ||
३४ ग
द्रौपद्यु उवाच:
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी |
३५ क
द्रौपद्यु उवाच:
तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ||
३५ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाय़ा निवेशनम् |
३६ क
वैशम्पाय़न उवाच:
केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ||
३६ ख
वैशम्पाय़न उवाच:
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा |
३७ क
वैशम्पाय़न उवाच:
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ||
३७ ख
सुदेष्णो उवाच:
कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने |
३८ क
सुदेष्णो उवाच:
कस्याद्य न सुखं भद्रे केन ते विप्रिय़ं कृतम् ||
३८ ख
द्रौपद्यु उवाच:
कीचको मावधीत्तत्र सुराहारीं गतां तव |
३९ क
द्रौपद्यु उवाच:
सभाय़ां पश्यतो राज्ञो यथैव विजने तथा ||
३९ ख
सुदेष्णो उवाच:
घातय़ामि सुकेशान्ते कीचकं यदि मन्यसे |
४० क
सुदेष्णो उवाच:
योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ||
४० ख
द्रौपद्यु उवाच:
अन्ये वै तं वधिष्यन्ति येषामागः करोति सः |
४१ क
द्रौपद्यु उवाच:
मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ||
४१ ख