chevron_left उद्योग पर्व अध्याय १५
शल्य उवाच:
एवमुक्तः स भगवाञ्शच्या पुनरथाव्रवीत् |
१ क
शल्य उवाच:
विक्रमस्य न कालोऽय़ं नहुषो वलवत्तरः ||
१ ख
शल्य उवाच:
विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि |
२ क
शल्य उवाच:
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ||
२ ख
शल्य उवाच:
गुह्यं चैतत्त्वय़ा कार्यं नाख्यातव्यं शुभे क्वचित् |
३ क
शल्य उवाच:
गत्वा नहुषमेकान्ते व्रवीहि तनुमध्यमे ||
३ ख
शल्य उवाच:
ऋषिय़ानेन दिव्येन मामुपैहि जगत्पते |
४ क
शल्य उवाच:
एवं तव वशे प्रीता भविष्यामीति तं वद ||
४ ख
शल्य उवाच:
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा |
५ क
शल्य उवाच:
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ||
५ ख
शल्य उवाच:
नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमव्रवीत् |
६ क
शल्य उवाच:
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ||
६ ख
शल्य उवाच:
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि |
७ क
शल्य उवाच:
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ||
७ ख
शल्य उवाच:
न च व्रीडा त्वय़ा कार्या सुश्रोणि मय़ि विश्वस |
८ क
शल्य उवाच:
सत्येन वै शपे देवि कर्तास्मि वचनं तव ||
८ ख
इन्द्राण्यु उवाच:
यो मे त्वय़ा कृतः कालस्तमाकाङ्क्षे जगत्पते |
९ क
इन्द्राण्यु उवाच:
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ||
९ ख
इन्द्राण्यु उवाच:
कार्यं च हृदि मे यत्तद्देवराजावधारय़ |
१० क
इन्द्राण्यु उवाच:
वक्ष्यामि यदि मे राजन्प्रिय़मेतत्करिष्यसि |
१० ख
इन्द्राण्यु उवाच:
वाक्यं प्रणय़संय़ुक्तं ततः स्यां वशगा तव ||
१० ग
इन्द्राण्यु उवाच:
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा |
११ क
इन्द्राण्यु उवाच:
इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप |
११ ख
इन्द्राण्यु उवाच:
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ||
११ ग
इन्द्राण्यु उवाच:
वहन्तु त्वां महाराज ऋषय़ः सङ्गता विभो |
१२ क
इन्द्राण्यु उवाच:
सर्वे शिविकय़ा राजन्नेतद्धि मम रोचते ||
१२ ख
इन्द्राण्यु उवाच:
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि |
१३ क
इन्द्राण्यु उवाच:
सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् |
१३ ख
इन्द्राण्यु उवाच:
न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् ||
१३ ग
शल्य उवाच:
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल |
१४ क
शल्य उवाच:
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ||
१४ ख
शल्य उवाच:
अपूर्वं वाहनमिदं त्वय़ोक्तं वरवर्णिनि |
१५ क
शल्य उवाच:
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ||
१५ ख
शल्य उवाच:
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् |
१६ क
शल्य उवाच:
अहं तपस्वी वलवान्भूतभव्यभवत्प्रभुः ||
१६ ख
शल्य उवाच:
मय़ि क्रुद्धे जगन्न स्यान्मय़ि सर्वं प्रतिष्ठितम् |
१७ क
शल्य उवाच:
देवदानवगन्धर्वाः किंनरोरगराक्षसाः ||
१७ ख
शल्य उवाच:
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते |
१८ क
शल्य उवाच:
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ||
१८ ख
शल्य उवाच:
तस्मात्ते वचनं देवि करिष्यामि न संशय़ः |
१९ क
शल्य उवाच:
सप्तर्षय़ो मां वक्ष्यन्ति सर्वे व्रह्मर्षय़स्तथा |
१९ ख
शल्य उवाच:
पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि ||
१९ ग
शल्य उवाच:
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् |
२० क
शल्य उवाच:
विमाने योजय़ित्वा स ऋषीन्निय़ममास्थितान् ||
२० ख
शल्य उवाच:
अव्रह्मण्यो वलोपेतो मत्तो वरमदेन च |
२१ क
शल्य उवाच:
कामवृत्तः स दुष्टात्मा वाहय़ामास तानृषीन् ||
२१ ख
शल्य उवाच:
नहुषेण विसृष्टा च वृहस्पतिमुवाच सा |
२२ क
शल्य उवाच:
समय़ोऽल्पावशेषो मे नहुषेणेह यः कृतः |
२२ ख
शल्य उवाच:
शक्रं मृगय़ शीघ्रं त्वं भक्ताय़ाः कुरु मे दय़ाम् ||
२२ ग
शल्य उवाच:
वाढमित्येव भगवान्वृहस्पतिरुवाच ताम् |
२३ क
शल्य उवाच:
न भेतव्यं त्वय़ा देवि नहुषाद्दुष्टचेतसः ||
२३ ख
शल्य उवाच:
न ह्येष स्थास्यति चिरं गत एष नराधमः |
२४ क
शल्य उवाच:
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ||
२४ ख
शल्य उवाच:
इष्टिं चाहं करिष्यामि विनाशाय़ास्य दुर्मतेः |
२५ क
शल्य उवाच:
शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ||
२५ ख
शल्य उवाच:
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः |
२६ क
शल्य उवाच:
वृहस्पतिर्महातेजा देवराजोपलव्धय़े ||
२६ ख
शल्य उवाच:
तस्माच्च भगवान्देवः स्वय़मेव हुताशनः |
२७ क
शल्य उवाच:
स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीय़त ||
२७ ख
शल्य उवाच:
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च |
२८ क
शल्य उवाच:
पृथिवीं चान्तरिक्षं च विचीय़ातिमनोगतिः |
२८ ख
शल्य उवाच:
निमेषान्तरमात्रेण वृहस्पतिमुपागमत् ||
२८ ग
अग्निरु उवाच:
वृहस्पते न पश्यामि देवराजमहं क्वचित् |
२९ क
अग्निरु उवाच:
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् |
२९ ख
अग्निरु उवाच:
न मे तत्र गतिर्व्रह्मन्किमन्यत्करवाणि ते ||
२९ ग
शल्य उवाच:
तमव्रवीद्देवगुरुरपो विश महाद्युते |
३० क
अग्निरु उवाच:
नापः प्रवेष्टुं शक्ष्यामि क्षय़ो मेऽत्र भविष्यति |
३१ क
अग्निरु उवाच:
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ||
३१ ख
अग्निरु उवाच:
अद्भ्योऽग्निर्व्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |
३२ क
अग्निरु उवाच:
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||
३२ ख