सञ्जय़ उवाच:
तद्वलं सुमहद्दीर्णं त्वदीय़ं प्रेक्ष्य वीर्यवान् |
१ क
सञ्जय़ उवाच:
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमाय़या ||
१ ख
सञ्जय़ उवाच:
शरा दश दिशो मुक्ता वृषसेनेन मारिष |
२ क
सञ्जय़ उवाच:
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ||
२ ख
सञ्जय़ उवाच:
तस्य दीप्ता महावाणा विनिश्चेरुः सहस्रशः |
३ क
सञ्जय़ उवाच:
भानोरिव महावाहो ग्रीष्मकाले मरीचय़ः ||
३ ख
सञ्जय़ उवाच:
तेनार्दिता महाराज रथिनः सादिनस्तथा |
४ क
सञ्जय़ उवाच:
निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ||
४ ख
सञ्जय़ उवाच:
हय़ौघांश्च रथौघांश्च गजौघांश्च समन्ततः |
५ क
सञ्जय़ उवाच:
अपातय़द्रणे राजञ्शतशोऽथ सहस्रशः ||
५ ख
सञ्जय़ उवाच:
दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् |
६ क
सञ्जय़ उवाच:
सहिताः सर्वराजानः परिवव्रुः समन्ततः ||
६ ख
सञ्जय़ उवाच:
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् |
७ क
सञ्जय़ उवाच:
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ||
७ ख
सञ्जय़ उवाच:
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातय़त् |
८ क
सञ्जय़ उवाच:
तं भ्रातरं परीप्सन्तो द्रौपदेय़ाः समभ्ययुः ||
८ ख
सञ्जय़ उवाच:
कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा |
९ क
सञ्जय़ उवाच:
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ||
९ ख
सञ्जय़ उवाच:
छादय़न्तो महाराज द्रौपदेय़ान्महारथान् |
१० क
सञ्जय़ उवाच:
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ||
१० ख
सञ्जय़ उवाच:
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः |
११ क
सञ्जय़ उवाच:
पाञ्चालाः केकय़ा मत्स्याः सृञ्जय़ाश्चोद्यताय़ुधाः ||
११ ख
सञ्जय़ उवाच:
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |
१२ क
सञ्जय़ उवाच:
त्वदीय़ैः पाण्डुपुत्राणां देवानामिव दानवैः ||
१२ ख
सञ्जय़ उवाच:
एवमुत्तमसंरम्भा युय़ुधुः कुरुपाण्डवाः |
१३ क
सञ्जय़ उवाच:
परस्परमुदीक्षन्तः परस्परकृतागसः ||
१३ ख
सञ्जय़ उवाच:
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् |
१४ क
सञ्जय़ उवाच:
युय़ुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ||
१४ ख
सञ्जय़ उवाच:
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः |
१५ क
सञ्जय़ उवाच:
वभासे स रणोद्देशः कालसूर्यैरिवोदितैः ||
१५ ख
सञ्जय़ उवाच:
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् |
१६ क
सञ्जय़ उवाच:
महावलानां वलिभिर्दानवानां यथा सुरैः ||
१६ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् |
१७ क
सञ्जय़ उवाच:
त्वदीय़मवधीत्सैन्यं सम्प्रद्रुतमहारथम् ||
१७ ख
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् |
१८ क
सञ्जय़ उवाच:
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ||
१८ ख
सञ्जय़ उवाच:
ततः शोणहय़ः क्रुद्धश्चतुर्दन्त इव द्विपः |
१९ क
सञ्जय़ उवाच:
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ||
१९ ख
सञ्जय़ उवाच:
तमविध्यच्छितैर्वाणैः कङ्कपत्रैर्युधिष्ठिरः |
२० क
सञ्जय़ उवाच:
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ||
२० ख
सञ्जय़ उवाच:
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः |
२१ क
सञ्जय़ उवाच:
दधार द्रोणमाय़ान्तं वेलेव सरितां पतिम् ||
२१ ख
सञ्जय़ उवाच:
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् |
२२ क
सञ्जय़ उवाच:
सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ||
२२ ख
सञ्जय़ उवाच:
कुमारस्तु ततो द्रोणं साय़केन महाहवे |
२३ क
सञ्जय़ उवाच:
विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः ||
२३ ख
सञ्जय़ उवाच:
संवार्य तु रणे द्रोणः कुमारं वै महावलः |
२४ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ||
२४ ख
सञ्जय़ उवाच:
तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् |
२५ क
सञ्जय़ उवाच:
चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ||
२५ ख
सञ्जय़ उवाच:
स मध्यं प्राप्य सेनाय़ाः सर्वाः परिचरन्दिशः |
२६ क
सञ्जय़ उवाच:
तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ||
२६ ख
सञ्जय़ उवाच:
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |
२७ क
सञ्जय़ उवाच:
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ||
२७ ख
सञ्जय़ उवाच:
युधिष्ठिरं द्वादशभिर्द्रौपदेय़ांस्त्रिभिस्त्रिभिः |
२८ क
सञ्जय़ उवाच:
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ||
२८ ख
सञ्जय़ उवाच:
व्यक्षोभय़द्रणे योधान्यथामुख्यानभिद्रवन् |
२९ क
सञ्जय़ उवाच:
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ||
२९ ख
सञ्जय़ उवाच:
युगन्धरस्ततो राजन्भारद्वाजं महारथम् |
३० क
सञ्जय़ उवाच:
वारय़ामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् ||
३० ख
सञ्जय़ उवाच:
युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः |
३१ क
सञ्जय़ उवाच:
युगन्धरं च भल्लेन रथनीडादपाहरत् ||
३१ ख
सञ्जय़ उवाच:
ततो विराटद्रुपदौ केकय़ाः सात्यकिः शिविः |
३२ क
सञ्जय़ उवाच:
व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ||
३२ ख
सञ्जय़ उवाच:
एते चान्ये च वहवः परीप्सन्तो युधिष्ठिरम् |
३३ क
सञ्जय़ उवाच:
आवव्रुस्तस्य पन्थानं किरन्तः साय़कान्वहून् ||
३३ ख
सञ्जय़ उवाच:
व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः |
३४ क
सञ्जय़ उवाच:
पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ||
३४ ख
सञ्जय़ उवाच:
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् |
३५ क
सञ्जय़ उवाच:
प्राहसत्सहसा हृष्टस्त्रासय़न्वै यतव्रतम् ||
३५ ख
सञ्जय़ उवाच:
ततो विस्फार्य नय़ने धनुर्ज्यामवमृज्य च |
३६ क
सञ्जय़ उवाच:
तलशव्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ||
३६ ख
सञ्जय़ उवाच:
ततस्तु सिंहसेनस्य शिरः काय़ात्सकुण्डलम् |
३७ क
सञ्जय़ उवाच:
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्वली ||
३७ ख
सञ्जय़ उवाच:
तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् |
३८ क
सञ्जय़ उवाच:
युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ||
३८ ख
सञ्जय़ उवाच:
ततोऽभवन्महाशव्दो राजन्यौधिष्ठिरे वले |
३९ क
सञ्जय़ उवाच:
हृतो राजेति योधानां समीपस्थे यतव्रते ||
३९ ख
सञ्जय़ उवाच:
अव्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् |
४० क
सञ्जय़ उवाच:
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति |
४० ख
सञ्जय़ उवाच:
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संय़ुगे ||
४० ग
सञ्जय़ उवाच:
एवं सञ्जल्पतां तेषां तावकानां महारथः |
४१ क
सञ्जय़ उवाच:
आय़ाज्जवेन कौन्तेय़ो रथघोषेण नादय़न् ||
४१ ख
सञ्जय़ उवाच:
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् |
४२ क
सञ्जय़ उवाच:
शूरास्थिचय़सङ्कीर्णां प्रेतकूलापहारिणीम् ||
४२ ख
सञ्जय़ उवाच:
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् |
४३ क
सञ्जय़ उवाच:
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ||
४३ ख
सञ्जय़ उवाच:
ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् |
४४ क
सञ्जय़ उवाच:
छादय़न्निषुजालेन महता मोहय़न्निव ||
४४ ख
सञ्जय़ उवाच:
शीघ्रमभ्यस्यतो वाणान्सन्दधानस्य चानिशम् |
४५ क
सञ्जय़ उवाच:
नान्तरं ददृशे कश्चित्कौन्तेय़स्य यशस्विनः ||
४५ ख
सञ्जय़ उवाच:
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी |
४६ क
सञ्जय़ उवाच:
अदृश्यत महाराज वाणभूतमिवाभवत् ||
४६ ख
सञ्जय़ उवाच:
नादृश्यत तदा राजंस्तत्र किञ्चन संय़ुगे |
४७ क
सञ्जय़ उवाच:
वाणान्धकारे महति कृते गाण्डीवधन्वना ||
४७ ख
सञ्जय़ उवाच:
सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते |
४८ क
सञ्जय़ उवाच:
नाज्ञाय़त तदा शत्रुर्न सुहृन्न च किञ्चन ||
४८ ख
सञ्जय़ उवाच:
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादय़ः |
४९ क
सञ्जय़ उवाच:
तान्विदित्वा भृशं त्रस्तानय़ुद्धमनसः परान् ||
४९ ख
सञ्जय़ उवाच:
स्वान्यनीकानि वीभत्सुः शनकैरवहारय़त् |
५० क