धृतराष्ट्र उवाच:
प्रोक्तस्त्वय़ा पूर्वमेव प्रवीरो लोकविश्रुतः |
१ क
धृतराष्ट्र उवाच:
न त्वस्य कर्म सङ्ग्रामे त्वय़ा सञ्जय़ कीर्तितम् ||
१ ख
धृतराष्ट्र उवाच:
तस्य विस्तरतो व्रूहि प्रवीरस्याद्य विक्रमम् |
२ क
धृतराष्ट्र उवाच:
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ||
२ ख
सञ्जय़ उवाच:
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् |
३ क
सञ्जय़ उवाच:
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ||
३ ख
सञ्जय़ उवाच:
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते |
४ क
सञ्जय़ उवाच:
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ||
४ ख
सञ्जय़ उवाच:
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः |
५ क
सञ्जय़ उवाच:
कर्णस्यानीकमवधीत्परिभूत इवान्तकः ||
५ ख
सञ्जय़ उवाच:
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् |
६ क
सञ्जय़ उवाच:
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं वलम् ||
६ ख
सञ्जय़ उवाच:
व्यश्वसूतध्वजरथान्विप्रविद्धाय़ुधान्रिपून् |
७ क
सञ्जय़ उवाच:
सम्यगस्तैः शरैः पाण्ड्यो वाय़ुर्मेघानिवाक्षिपत् ||
७ ख
सञ्जय़ उवाच:
द्विरदान्प्रहतप्रोथान्विपताकध्वजाय़ुधान् |
८ क
सञ्जय़ उवाच:
सपादरक्षानवधीद्वज्रेणारीनिवारिहा ||
८ ख
सञ्जय़ उवाच:
सशक्तिप्रासतूणीरानश्वारोहान्हय़ानपि |
९ क
सञ्जय़ उवाच:
पुलिन्दखशवाह्लीकान्निषादान्ध्रकतङ्गणान् ||
९ ख
सञ्जय़ उवाच:
दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान् |
१० क
सञ्जय़ उवाच:
विशस्त्रकवचान्वाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ||
१० ख
सञ्जय़ उवाच:
चतुरङ्गं वलं वाणैर्निघ्नन्तं पाण्ड्यमाहवे |
११ क
सञ्जय़ उवाच:
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् ||
११ ख
सञ्जय़ उवाच:
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् |
१२ क
सञ्जय़ उवाच:
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वय़न् ||
१२ ख
सञ्जय़ उवाच:
राजन्कमलपत्राक्ष प्रधानाय़ुधवाहन |
१३ क
सञ्जय़ उवाच:
वज्रसंहननप्रख्य प्रधानवलपौरुष ||
१३ ख
सञ्जय़ उवाच:
मुष्टिश्लिष्टाय़ुधाभ्यां च व्याय़ताभ्यां महद्धनुः |
१४ क
सञ्जय़ उवाच:
दोर्भ्यां विस्फारय़न्भासि महाजलदवद्भृशम् ||
१४ ख
सञ्जय़ उवाच:
शरवर्षैर्महावेगैरमित्रानभिवर्षतः |
१५ क
सञ्जय़ उवाच:
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ||
१५ ख
सञ्जय़ उवाच:
रथद्विरदपत्त्यश्वानेकः प्रमथसे वहून् |
१६ क
सञ्जय़ उवाच:
मृगसङ्घानिवारण्ये विभीर्भीमवलो हरिः ||
१६ ख
सञ्जय़ उवाच:
महता रथघोषेण दिवं भूमिं च नादय़न् |
१७ क
सञ्जय़ उवाच:
वर्षान्ते सस्यहा पीथो भाभिरापूरय़न्निव ||
१७ ख
सञ्जय़ उवाच:
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् |
१८ क
सञ्जय़ उवाच:
मय़ैवैकेन युध्यस्व त्र्यम्वकेणान्धको यथा ||
१८ ख
सञ्जय़ उवाच:
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः |
१९ क
सञ्जय़ उवाच:
कर्णिना द्रोणतनय़ं विव्याध मलय़ध्वजः ||
१९ ख
सञ्जय़ उवाच:
मर्मभेदिभिरत्युग्रैर्वाणैरग्निशिखोपमैः |
२० क
सञ्जय़ उवाच:
स्मय़न्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ||
२० ख
सञ्जय़ उवाच:
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः |
२१ क
सञ्जय़ उवाच:
गत्या दशम्या संय़ुक्तानश्वत्थामा व्यवासृजत् ||
२१ ख
सञ्जय़ उवाच:
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः |
२२ क
सञ्जय़ उवाच:
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ||
२२ ख
सञ्जय़ उवाच:
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः |
२३ क
सञ्जय़ उवाच:
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ||
२३ ख
सञ्जय़ उवाच:
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा |
२४ क
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रेषय़ामास पाण्ड्यतः |
२४ ख
सञ्जय़ उवाच:
इषुसम्वाधमाकाशमकरोद्दिश एव च ||
२४ ग
सञ्जय़ उवाच:
ततस्तानस्यतः सर्वान्द्रौणेर्वाणान्महात्मनः |
२५ क
सञ्जय़ उवाच:
जानानोऽप्यक्षय़ान्पाण्ड्योऽशातय़त्पुरुषर्षभः ||
२५ ख
सञ्जय़ उवाच:
प्रहितांस्तान्प्रय़त्नेन छित्त्वा द्रौणेरिषूनरिः |
२६ क
सञ्जय़ उवाच:
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ||
२६ ख
सञ्जय़ उवाच:
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः |
२७ क
सञ्जय़ उवाच:
प्रास्यद्द्रोणसुतो वाणान्वृष्टिं पूषानुजो यथा ||
२७ ख
सञ्जय़ उवाच:
अष्टावष्टगवान्यूहुः शकटानि यदाय़ुधम् |
२८ क
सञ्जय़ उवाच:
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ||
२८ ख
सञ्जय़ उवाच:
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् |
२९ क
सञ्जय़ उवाच:
ये ये ददृशिरे तत्र विसञ्ज्ञाः प्राय़शोऽभवन् ||
२९ ख
सञ्जय़ उवाच:
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् |
३० क
सञ्जय़ उवाच:
आचार्यपुत्रस्तां सेनां वाणवृष्ट्याभ्यवीवृषत् ||
३० ख
सञ्जय़ उवाच:
द्रौणिपर्जन्यमुक्तां तां वाणवृष्टिं सुदुःसहाम् |
३१ क
सञ्जय़ उवाच:
वाय़व्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ||
३१ ख
सञ्जय़ उवाच:
तस्य नानदतः केतुं चन्दनागुरुभूषितम् |
३२ क
सञ्जय़ उवाच:
मलय़प्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ||
३२ ख
सञ्जय़ उवाच:
सूतमेकेषुणा हत्वा महाजलदनिस्वनम् |
३३ क
सञ्जय़ उवाच:
धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ||
३३ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वाय़ुधानि च |
३४ क
सञ्जय़ उवाच:
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सय़ा ||
३४ ख
सञ्जय़ उवाच:
हतेश्वरो दन्तिवरः सुकल्पित; स्त्वराभिसृष्टः प्रतिशर्मगो वली |
३५ क
सञ्जय़ उवाच:
तमध्यतिष्ठन्मलय़ेश्वरो महा; न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ||
३५ ख
सञ्जय़ उवाच:
स तोमरं भास्कररश्मिसंनिभं; वलास्त्रसर्गोत्तमय़त्नमन्युभिः |
३६ क
सञ्जय़ उवाच:
ससर्ज शीघ्रं प्रतिपीडय़न्गजं; गुरोः सुताय़ाद्रिपतीश्वरो नदन् ||
३६ ख
सञ्जय़ उवाच:
मणिप्रतानोत्तमवज्रहाटकै; रलङ्कृतं चांशुकमाल्यमौक्तिकैः |
३७ क
सञ्जय़ उवाच:
हतोऽस्यसावित्यसकृन्मुदा नद; न्पराभिनद्द्रौणिवराङ्गभूषणम् ||
३७ ख
सञ्जय़ उवाच:
तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम् |
३८ क
सञ्जय़ उवाच:
महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा ||
३८ ख
सञ्जय़ उवाच:
ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा |
३९ क
सञ्जय़ उवाच:
समादधे चान्तकदण्डसंनिभा; निषूनमित्रान्तकरांश्चतुर्दश ||
३९ ख
सञ्जय़ उवाच:
द्विपस्य पादाग्रकरान्स पञ्चभि; र्नृपस्य वाहू च शिरोऽथ च त्रिभिः |
४० क
सञ्जय़ उवाच:
जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् ||
४० ख
सञ्जय़ उवाच:
सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ |
४१ क
सञ्जय़ उवाच:
भुजौ धराय़ां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ ||
४१ ख
सञ्जय़ उवाच:
शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्राय़तनेत्रमुन्नसम् |
४२ क
सञ्जय़ उवाच:
क्षितौ विवभ्राज पतत्सकुण्डलं; विशाखय़ोर्मध्यगतः शशी यथा ||
४२ ख
सञ्जय़ उवाच:
समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः |
४३ क
सञ्जय़ उवाच:
सुहृद्वृतोऽत्यर्थमपूजय़न्मुदा; जिते वलौ विष्णुमिवामरेश्वरः ||
४३ ख