सञ्जय़ उवाच:
प्रववर्ष महाकाय़ो द्रुमवर्षं नभस्तलात् ||
४८ ख
सञ्जय़ उवाच:
ततो माय़ाविनं कर्णो भीमसेनसुतं दिवि |
४९ क
सञ्जय़ उवाच:
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ||
४९ ख
सञ्जय़ उवाच:
तस्य सर्वान्हय़ान्हत्वा सञ्छिद्य शतधा रथम् |
५० क
सञ्जय़ उवाच:
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ||
५० ख
सञ्जय़ उवाच:
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् |
५१ क
सञ्जय़ उवाच:
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ||
५१ ख
सञ्जय़ उवाच:
न हय़ान्न रथं तस्य न ध्वजं न घटोत्कचम् |
५२ क
सञ्जय़ उवाच:
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ||
५२ ख
सञ्जय़ उवाच:
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातय़न् |
५३ क
सञ्जय़ उवाच:
माय़ाय़ुद्धेन माय़ावी सूतपुत्रमय़ोधय़त् ||
५३ ख
सञ्जय़ उवाच:
सोऽय़ोधय़त्तदा कर्णं माय़या लाघवेन च |
५४ क
सञ्जय़ उवाच:
अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् ||
५४ ख
सञ्जय़ उवाच:
भैमसेनिर्महामाय़ो माय़या कुरुसत्तम |
५५ क
सञ्जय़ उवाच:
प्रचकार महामाय़ां मोहय़न्निव भारत ||
५५ ख
सञ्जय़ उवाच:
स स्म कृत्वा विरूपाणि वदनान्यशुभाननः |
५६ क
सञ्जय़ उवाच:
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि माय़या ||
५६ ख
सञ्जय़ उवाच:
पुनश्चापि महाकाय़ः सञ्छिन्नः शतधा रणे |
५७ क
सञ्जय़ उवाच:
गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत |
५७ ख
सञ्जय़ उवाच:
हतं तं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ||
५७ ग
सञ्जय़ उवाच:
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत |
५८ क
सञ्जय़ उवाच:
पुनश्चापि महाकाय़ः शतशीर्षः शतोदरः ||
५८ ख
सञ्जय़ उवाच:
व्यदृश्यत महावाहुर्मैनाक इव पर्वतः |
५९ क
सञ्जय़ उवाच:
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः |
५९ ख
सञ्जय़ उवाच:
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ||
५९ ग
सञ्जय़ उवाच:
वसुधां दारय़ित्वा च पुनरप्सु न्यमज्जत |
६० क
सञ्जय़ उवाच:
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ||
६० ख
सञ्जय़ उवाच:
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते |
६१ क
सञ्जय़ उवाच:
क्षितिं द्यां च दिशश्चैव माय़यावृत्य दंशितः ||
६१ ख
सञ्जय़ उवाच:
गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः |
६२ क
सञ्जय़ उवाच:
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशां पते ||
६२ ख
सञ्जय़ उवाच:
तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि |
६३ क
सञ्जय़ उवाच:
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||
६३ ख
सञ्जय़ उवाच:
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् |
६४ क
सञ्जय़ उवाच:
उत्पपातान्तरिक्षं च जहास च सुविस्वरम् |
६४ ख
सञ्जय़ उवाच:
कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ||
६४ ग
सञ्जय़ उवाच:
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |
६५ क
सञ्जय़ उवाच:
रथिनामृषभं कर्णं धाराभिरिव तोय़दः |
६५ ख
सञ्जय़ उवाच:
शरवृष्टिं च तां कर्णो दूरप्राप्तामशातय़त् ||
६५ ग
सञ्जय़ उवाच:
दृष्ट्वा च विहतां माय़ां कर्णेन भरतर्षभ |
६६ क
सञ्जय़ उवाच:
घटोत्कचस्ततो माय़ां ससर्जान्तर्हितः पुनः ||
६६ ख
सञ्जय़ उवाच:
सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसङ्कटैः |
६७ क
सञ्जय़ उवाच:
शूलप्रासासिमुसलजलप्रस्रवणो महान् ||
६७ ख
सञ्जय़ उवाच:
तमञ्जनचय़प्रख्यं कर्णो दृष्ट्वा महीधरम् |
६८ क
सञ्जय़ उवाच:
प्रपातैराय़ुधान्युग्राण्युद्वहन्तं न चुक्षुभे ||
६८ ख
सञ्जय़ उवाच:
स्मय़न्निव ततः कर्णो दिव्यमस्त्रमुदीरय़त् |
६९ क
सञ्जय़ उवाच:
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ||
६९ ख
सञ्जय़ उवाच:
ततः स तोय़दो भूत्वा नीलः सेन्द्राय़ुधो दिवि |
७० क
सञ्जय़ उवाच:
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ||
७० ख
सञ्जय़ उवाच:
अथ सन्धाय़ वाय़व्यमस्त्रमस्त्रविदां वरः |
७१ क
सञ्जय़ उवाच:
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ||
७१ ख
सञ्जय़ उवाच:
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः |
७२ क
सञ्जय़ उवाच:
जघानास्त्रं महाराज घटोत्कचसमीरितम् ||
७२ ख
सञ्जय़ उवाच:
ततः प्रहस्य समरे भैमसेनिर्महावलः |
७३ क
सञ्जय़ उवाच:
प्रादुश्चक्रे महामाय़ां कर्णं प्रति महारथम् ||
७३ ख
सञ्जय़ उवाच:
स दृष्ट्वा पुनराय़ान्तं रथेन रथिनां वरम् |
७४ क
सञ्जय़ उवाच:
घटोत्कचमसम्भ्रान्तं राक्षसैर्वहुभिर्वृतम् ||
७४ ख
सञ्जय़ उवाच:
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः |
७५ क
सञ्जय़ उवाच:
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ||
७५ ख
सञ्जय़ उवाच:
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः |
७६ क
सञ्जय़ उवाच:
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् |
७६ ख
सञ्जय़ उवाच:
दृष्ट्वा कर्णो महेष्वासो योधय़ामास राक्षसम् ||
७६ ग
सञ्जय़ उवाच:
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः |
७७ क
सञ्जय़ उवाच:
ननाद भैरवं नादं भीषय़न्सर्वपार्थिवान् ||
७७ ख
सञ्जय़ उवाच:
भूय़श्चाञ्जलिकेनाथ समार्गणगणं महत् |
७८ क
सञ्जय़ उवाच:
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ||
७८ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ दृढं भारसहं महत् |
७९ क
सञ्जय़ उवाच:
व्यकर्षत वलात्कर्ण इन्द्राय़ुधमिवोच्छ्रितम् ||
७९ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज प्रेषय़ामास साय़कान् |
८० क
सञ्जय़ उवाच:
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ||
८० ख
सञ्जय़ उवाच:
तद्वाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् |
८१ क
सञ्जय़ उवाच:
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ||
८१ ख
सञ्जय़ उवाच:
विधम्य राक्षसान्वाणैः साश्वसूतगजान्विभुः |
८२ क
सञ्जय़ उवाच:
ददाह भगवान्वह्निर्भूतानीव युगक्षय़े ||
८२ ख
सञ्जय़ उवाच:
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः |
८३ क
सञ्जय़ उवाच:
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ||
८३ ख
सञ्जय़ उवाच:
तेषु राजसहस्रेषु पाण्डवेय़ेषु मारिष |
८४ क
सञ्जय़ उवाच:
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ||
८४ ख
सञ्जय़ उवाच:
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महावलात् |
८५ क
सञ्जय़ उवाच:
भीमवीर्यवलोपेतात्क्रुद्धाद्वैवस्वतादिव ||
८५ ख
सञ्जय़ उवाच:
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजाय़त |
८६ क
सञ्जय़ उवाच:
महोल्काभ्यां यथा राजन्सार्चिषः स्नेहविन्दवः ||
८६ ख
सञ्जय़ उवाच:
तलं तलेन संहत्य सन्दश्य दशनच्छदम् |
८७ क
सञ्जय़ उवाच:
रथमास्थाय़ च पुनर्माय़या निर्मितं पुनः ||
८७ ख
सञ्जय़ उवाच:
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः |
८८ क
सञ्जय़ उवाच:
स सूतमव्रवीत्क्रुद्धः सूतपुत्राय़ मा वह ||
८८ ख
सञ्जय़ उवाच:
स यय़ौ घोररूपेण रथेन रथिनां वरः |
८९ क
सञ्जय़ उवाच:
द्वैरथं सूतपुत्रेण पुनरेव विशां पते ||
८९ ख
सञ्जय़ उवाच:
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय़ राक्षसः |
९० क
सञ्जय़ उवाच:
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ||
९० ख
सञ्जय़ उवाच:
तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः |
९१ क
सञ्जय़ उवाच:
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||
९१ ख
सञ्जय़ उवाच:
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा |
९२ क
सञ्जय़ उवाच:
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मिय़ुः ||
९२ ख
सञ्जय़ उवाच:
कर्णं तु सर्वभूतानि पूजय़ामासुरञ्जसा |
९३ क
सञ्जय़ उवाच:
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ||
९३ ख
सञ्जय़ उवाच:
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः |
९४ क
सञ्जय़ उवाच:
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ||
९४ ख
सञ्जय़ उवाच:
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद |
९५ क
सञ्जय़ उवाच:
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ||
९५ ख