सञ्जय़ उवाच:
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः |
९६ क
सञ्जय़ उवाच:
गन्धर्वनगराकारः पुनरन्तरधीय़त ||
९६ ख
सञ्जय़ उवाच:
एवं स वै महामाय़ो माय़या लाघवेन च |
९७ क
सञ्जय़ उवाच:
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ||
९७ ख
सञ्जय़ उवाच:
निहन्यमानेष्वस्त्रेषु माय़या तेन रक्षसा |
९८ क
सञ्जय़ उवाच:
असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ||
९८ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज भैमसेनिर्महावलः |
९९ क
सञ्जय़ उवाच:
चकार वहुधात्मानं भीषय़ाणो नराधिपान् ||
९९ ख
सञ्जय़ उवाच:
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः |
१०० क
सञ्जय़ उवाच:
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ||
१०० ख
सञ्जय़ उवाच:
स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः |
१०१ क
सञ्जय़ उवाच:
नगराद्रिवनप्रख्यस्तत्रैवान्तरधीय़त ||
१०१ ख
सञ्जय़ उवाच:
राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः |
१०२ क
सञ्जय़ उवाच:
ते कर्णं भक्षय़िष्यन्तः सर्वतः समुपाद्रवन् |
१०२ ख
सञ्जय़ उवाच:
अथैनं वाग्भिरुग्राभिस्त्रासय़ां चक्रिरे तदा ||
१०२ ग
सञ्जय़ उवाच:
उद्यतैर्वहुभिर्घोरैराय़ुधैः शोणितोक्षितैः |
१०३ क
सञ्जय़ उवाच:
तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ||
१०३ ख
सञ्जय़ उवाच:
प्रतिहत्य तु तां माय़ां दिव्येनास्त्रेण राक्षसीम् |
१०४ क
सञ्जय़ उवाच:
आजघान हय़ानस्य शरैः संनतपर्वभिः ||
१०४ ख
सञ्जय़ उवाच:
ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च साय़कैः |
१०५ क
सञ्जय़ उवाच:
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ||
१०५ ख
सञ्जय़ उवाच:
स भग्नमाय़ो हैडिम्वः कर्णं वैकर्तनं ततः |
१०६ क
सञ्जय़ उवाच:
एष ते विदधे मृत्युमित्युक्त्वान्तरधीय़त ||
१०६ ख