वैशम्पाय़न उवाच:
करिष्य इति भीमेन प्रतिज्ञाते तु भारत |
१ क
वैशम्पाय़न उवाच:
आजग्मुस्ते ततः सर्वे भैक्षमादाय़ पाण्डवाः ||
१ ख
वैशम्पाय़न उवाच:
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः |
२ क
वैशम्पाय़न उवाच:
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ||
२ ख
वैशम्पाय़न उवाच:
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः |
३ क
वैशम्पाय़न उवाच:
भवत्यनुमते कच्चिदय़ं कर्तुमिहेच्छति ||
३ ख
कुन्त्यु उवाच:
ममैव वचनादेष करिष्यति परन्तपः |
४ क
कुन्त्यु उवाच:
व्राह्मणार्थे महत्कृत्यं मोष्काय़ नगरस्य च ||
४ ख
युधिष्ठिर उवाच:
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् |
५ क
युधिष्ठिर उवाच:
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ||
५ ख
युधिष्ठिर उवाच:
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि |
६ क
युधिष्ठिर उवाच:
लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वय़ा ||
६ ख
युधिष्ठिर उवाच:
यस्य वाहू समाश्रित्य सुखं सर्वे स्वपामहे |
७ क
युधिष्ठिर उवाच:
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ||
७ ख
युधिष्ठिर उवाच:
यस्य दुर्योधनो वीर्यं चिन्तय़न्नमितौजसः |
८ क
युधिष्ठिर उवाच:
न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ||
८ ख
युधिष्ठिर उवाच:
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वय़म् |
९ क
युधिष्ठिर उवाच:
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ||
९ ख
युधिष्ठिर उवाच:
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् |
१० क
युधिष्ठिर उवाच:
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ||
१० ख
युधिष्ठिर उवाच:
तस्य व्यवसितस्त्यागो वुद्धिमास्थाय़ कां त्वय़ा |
११ क
युधिष्ठिर उवाच:
कच्चिन्न दुःखैर्वुद्धिस्ते विप्लुता गतचेतसः ||
११ ख
कुन्त्यु उवाच:
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् |
१२ क
कुन्त्यु उवाच:
न चाय़ं वुद्धिदौर्वल्याद्व्यवसाय़ः कृतो मय़ा ||
१२ ख
कुन्त्यु उवाच:
इह विप्रस्य भवने वय़ं पुत्र सुखोषिताः |
१३ क
कुन्त्यु उवाच:
तस्य प्रतिक्रिय़ा तात मय़ेय़ं प्रसमीक्षिता |
१३ ख
कुन्त्यु उवाच:
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ||
१३ ग
कुन्त्यु उवाच:
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् |
१४ क
कुन्त्यु उवाच:
हिडिम्वस्य वधाच्चैव विश्वासो मे वृकोदरे ||
१४ ख
कुन्त्यु उवाच:
वाह्वोर्वलं हि भीमस्य नागाय़ुतसमं महत् |
१५ क
कुन्त्यु उवाच:
येन यूय़ं गजप्रख्या निर्व्यूढा वारणावतात् ||
१५ ख
कुन्त्यु उवाच:
वृकोदरवलो नान्यो न भूतो न भविष्यति |
१६ क
कुन्त्यु उवाच:
योऽभ्युदीय़ाद्युधि श्रेष्ठमपि वज्रधरं स्वय़म् ||
१६ ख
कुन्त्यु उवाच:
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ |
१७ क
कुन्त्यु उवाच:
शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ||
१७ ख
कुन्त्यु उवाच:
तदहं प्रज्ञय़ा स्मृत्वा वलं भीमस्य पाण्डव |
१८ क
कुन्त्यु उवाच:
प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ||
१८ ख
कुन्त्यु उवाच:
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् |
१९ क
कुन्त्यु उवाच:
वुद्धिपूर्वं तु धर्मस्य व्यवसाय़ः कृतो मय़ा ||
१९ ख
कुन्त्यु उवाच:
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः |
२० क
कुन्त्यु उवाच:
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ||
२० ख
कुन्त्यु उवाच:
यो व्राह्मणस्य साहाय़्यं कुर्यादर्थेषु कर्हिचित् |
२१ क
कुन्त्यु उवाच:
क्षत्रिय़ः स शुभाँल्लोकान्प्राप्नुय़ादिति मे श्रुतम् ||
२१ ख
कुन्त्यु उवाच:
क्षत्रिय़ः क्षत्रिय़स्यैव कुर्वाणो वधमोक्षणम् |
२२ क
कुन्त्यु उवाच:
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ||
२२ ख
कुन्त्यु उवाच:
वैश्यस्यैव तु साहाय़्यं कुर्वाणः क्षत्रिय़ो युधि |
२३ क
कुन्त्यु उवाच:
स सर्वेष्वपि लोकेषु प्रजा रञ्जय़ते ध्रुवम् ||
२३ ख
कुन्त्यु उवाच:
शूद्रं तु मोक्षय़न्राजा शरणार्थिनमागतम् |
२४ क
कुन्त्यु उवाच:
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ||
२४ ख
कुन्त्यु उवाच:
एवं स भगवान्व्यासः पुरा कौरवनन्दन |
२५ क
कुन्त्यु उवाच:
प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ||
२५ ख
युधिष्ठिर उवाच:
उपपन्नमिदं मातस्त्वय़ा यद्वुद्धिपूर्वकम् |
२६ क
युधिष्ठिर उवाच:
आर्तस्य व्राह्मणस्यैवमनुक्रोशादिदं कृतम् |
२६ ख
युधिष्ठिर उवाच:
ध्रुवमेष्यति भीमोऽय़ं निहत्य पुरुषादकम् ||
२६ ग
युधिष्ठिर उवाच:
यथा त्विदं न विन्देय़ुर्नरा नगरवासिनः |
२७ क
युधिष्ठिर उवाच:
तथाय़ं व्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ||
२७ ख