भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च ||
१ ख
भीष्म उवाच:
हिमवन्तं समासाद्य महानासीद्वनस्पतिः |
२ क
भीष्म उवाच:
वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् ||
२ ख
भीष्म उवाच:
तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः |
३ क
भीष्म उवाच:
विश्रमन्ति महावाहो तथान्या मृगजातय़ः ||
३ ख
भीष्म उवाच:
नल्वमात्रपरीणाहो घनच्छाय़ो वनस्पतिः |
४ क
भीष्म उवाच:
शुकशारिकसङ्घुष्टः फलवान्पुष्पवानपि ||
४ ख
भीष्म उवाच:
सार्थिका वणिजश्चापि तापसाश्च वनौकसः |
५ क
भीष्म उवाच:
वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे ||
५ ख
भीष्म उवाच:
तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः |
६ क
भीष्म उवाच:
अभिगम्याव्रवीदेनं नारदो भरतर्षभ ||
६ ख
भीष्म उवाच:
अहो नु रमणीय़स्त्वमहो चासि मनोरमः |
७ क
भीष्म उवाच:
प्रीय़ामहे त्वय़ा नित्यं तरुप्रवर शल्मले ||
७ ख
भीष्म उवाच:
सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः |
८ क
भीष्म उवाच:
वसन्ति तव संहृष्टा मनोहरतरास्तथा ||
८ ख
भीष्म उवाच:
तव शाखा महाशाख स्कन्धं च विपुलं तथा |
९ क
भीष्म उवाच:
न वै प्रभग्नान्पश्यामि मारुतेन कथञ्चन ||
९ ख
भीष्म उवाच:
किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत् |
१० क
भीष्म उवाच:
त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् ||
१० ख
भीष्म उवाच:
विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि |
११ क
भीष्म उवाच:
पर्वतानां च शिखराण्याचालय़ति वेगवान् ||
११ ख
भीष्म उवाच:
शोषय़त्येव पातालं विवान्गन्धवहः शुचिः |
१२ क
भीष्म उवाच:
ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह ||
१२ ख
भीष्म उवाच:
त्वां संरक्षेत पवनः सखित्वेन न संशय़ः |
१३ क
भीष्म उवाच:
तस्माद्वहलशाखोऽसि पर्णवान्पुष्पवानपि ||
१३ ख
भीष्म उवाच:
इदं च रमणीय़ं ते प्रतिभाति वनस्पते |
१४ क
भीष्म उवाच:
यदिमे विहगास्तात रमन्ते मुदितास्त्वय़ि ||
१४ ख
भीष्म उवाच:
एषां पृथक्समस्तानां श्रूय़ते मधुरः स्वरः |
१५ क
भीष्म उवाच:
पुष्पसंमोदने काले वाशतां सुमनोहरम् ||
१५ ख
भीष्म उवाच:
तथेमे मुदिता नागाः स्वय़ूथकुलशोभिनः |
१६ क
भीष्म उवाच:
घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले ||
१६ ख
भीष्म उवाच:
तथैव मृगजातीभिरन्याभिरुपशोभसे |
१७ क
भीष्म उवाच:
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम ||
१७ ख
भीष्म उवाच:
व्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि |
१८ क
भीष्म उवाच:
त्रिविष्टपसमं मन्ये तवाय़तनमेव ह ||
१८ ख
भीष्म उवाच:
वन्धुत्वादथ वा सख्याच्छल्मले नात्र संशय़ः |
१९ क
भीष्म उवाच:
पालय़त्येव सततं भीमः सर्वत्रगोऽनिलः ||
१९ ख
भीष्म उवाच:
न्यग्भावं परमं वाय़ोः शल्मले त्वमुपागतः |
२० क
भीष्म उवाच:
तवाहमस्मीति सदा येन रक्षति मारुतः ||
२० ख
भीष्म उवाच:
न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम् |
२१ क
भीष्म उवाच:
यो न वाय़ुवलाद्भग्नः पृथिव्यामिति मे मतिः ||
२१ ख
भीष्म उवाच:
त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा |
२२ क
भीष्म उवाच:
वाय़ुना सपरीवारस्तेन तिष्ठस्यसंशय़म् ||
२२ ख
शल्मलिरु उवाच:
न मे वाय़ुः सखा व्रह्मन्न वन्धुर्न च मे सुहृत् |
२३ क
शल्मलिरु उवाच:
परमेष्ठी तथा नैव येन रक्षति मानिलः ||
२३ ख
शल्मलिरु उवाच:
मम तेजोवलं वाय़ोर्भीममपि हि नारद |
२४ क
शल्मलिरु उवाच:
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ||
२४ ख
शल्मलिरु उवाच:
आगच्छन्परमो वाय़ुर्मय़ा विष्टम्भितो वलात् |
२५ क
शल्मलिरु उवाच:
रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किञ्चन ||
२५ ख
शल्मलिरु उवाच:
स मय़ा वहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः |
२६ क
शल्मलिरु उवाच:
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात् ||
२६ ख
नारद उवाच:
शल्मले विपरीतं ते दर्शनं नात्र संशय़ः |
२७ क
नारद उवाच:
न हि वाय़ोर्वलेनास्ति भूतं तुल्यवलं क्वचित् ||
२७ ख
नारद उवाच:
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः |
२८ क
नारद उवाच:
न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ||
२८ ख
नारद उवाच:
यद्धि किञ्चिदिह प्राणि शल्मले चेष्टते भुवि |
२९ क
नारद उवाच:
सर्वत्र भगवान्वाय़ुश्चेष्टाप्राणकरः प्रभुः ||
२९ ख
नारद उवाच:
एष चेष्टय़ते सम्यक्प्राणिनः सम्यगाय़तः |
३० क
नारद उवाच:
असम्यगाय़तो भूय़श्चेष्टते विकृतो नृषु ||
३० ख
नारद उवाच:
स त्वमेवंविधं वाय़ुं सर्वसत्त्वभृतां वरम् |
३१ क
नारद उवाच:
न पूजय़सि पूज्यं तं किमन्यद्वुद्धिलाघवात् ||
३१ ख
नारद उवाच:
असारश्चासि दुर्वुद्धे केवलं वहु भाषसे |
३२ क
नारद उवाच:
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले ||
३२ ख
नारद उवाच:
मम रोषः समुत्पन्नस्त्वय़्येवं सम्प्रभाषति |
३३ क
नारद उवाच:
व्रवीम्येष स्वय़ं वाय़ोस्तव दुर्भाषितं वहु ||
३३ ख
नारद उवाच:
चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः |
३४ क
नारद उवाच:
वेतसैर्वन्धनैश्चापि ये चान्ये वलवत्तराः ||
३४ ख
नारद उवाच:
तैश्चापि नैवं दुर्वुद्धे क्षिप्तो वाय़ुः कृतात्मभिः |
३५ क
नारद उवाच:
ते हि जानन्ति वाय़ोश्च वलमात्मन एव च ||
३५ ख
नारद उवाच:
तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः |
३६ क
नारद उवाच:
त्वं तु मोहान्न जानीषे वाय़ोर्वलमनन्तकम् ||
३६ ख