जनमेजय़ उवाच:
युधिष्ठिरं सहानीकमुपय़ान्तं युय़ुत्सय़ा |
१ क
जनमेजय़ उवाच:
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ||
१ ख
जनमेजय़ उवाच:
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् |
२ क
जनमेजय़ उवाच:
केकय़ैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ||
२ ख
जनमेजय़ उवाच:
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः |
३ क
जनमेजय़ उवाच:
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ||
३ ख
जनमेजय़ उवाच:
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
४ क
जनमेजय़ उवाच:
सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ||
४ ख
जनमेजय़ उवाच:
व्यथय़ेय़ुर्हि देवानां सेनामपि समागमे |
५ क
जनमेजय़ उवाच:
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ||
५ ख
जनमेजय़ उवाच:
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः |
६ क
जनमेजय़ उवाच:
युय़ुधानश्च विक्रान्तो देवैरपि दुरासदः ||
६ ख
जनमेजय़ उवाच:
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
७ क
जनमेजय़ उवाच:
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ||
७ ख
वैशम्पाय़न उवाच:
प्रतिय़ाते तु दाशार्हे राजा दुर्योधनस्तदा |
८ क
वैशम्पाय़न उवाच:
कर्णं दुःशासनं चैव शकुनिं चाव्रवीदिदम् ||
८ ख
वैशम्पाय़न उवाच:
अकृतेनैव कार्येण गतः पार्थानधोक्षजः |
९ क
वैशम्पाय़न उवाच:
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशय़म् ||
९ ख
वैशम्पाय़न उवाच:
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः |
१० क
वैशम्पाय़न उवाच:
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ||
१० ख
वैशम्पाय़न उवाच:
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः |
११ क
वैशम्पाय़न उवाच:
निकृतश्च मय़ा पूर्वं सह सर्वैः सहोदरैः ||
११ ख
वैशम्पाय़न उवाच:
विराटद्रुपदौ चैव कृतवैरौ मय़ा सह |
१२ क
वैशम्पाय़न उवाच:
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ||
१२ ख
वैशम्पाय़न उवाच:
भविता विग्रहः सोऽय़ं तुमुलो लोमहर्षणः |
१३ क
वैशम्पाय़न उवाच:
तस्मात्साङ्ग्रामिकं सर्वं कारय़ध्वमतन्द्रिताः ||
१३ ख
वैशम्पाय़न उवाच:
शिविराणि कुरुक्षेत्रे क्रिय़न्तां वसुधाधिपाः |
१४ क
वैशम्पाय़न उवाच:
सुपर्याप्तावकाशानि दुरादेय़ानि शत्रुभिः ||
१४ ख
वैशम्पाय़न उवाच:
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः |
१५ क
वैशम्पाय़न उवाच:
अच्छेद्याहारमार्गाणि रत्नोच्चय़चितानि च |
१५ ख
वैशम्पाय़न उवाच:
विविधाय़ुधपूर्णानि पताकाध्वजवन्ति च ||
१५ ग
वैशम्पाय़न उवाच:
समाश्च तेषां पन्थानः क्रिय़न्तां नगराद्वहिः |
१६ क
वैशम्पाय़न उवाच:
प्रय़ाणं घुष्यतामद्य श्वोभूत इति माचिरम् ||
१६ ख
वैशम्पाय़न उवाच:
ते तथेति प्रतिज्ञाय़ श्वोभूते चक्रिरे तथा |
१७ क
वैशम्पाय़न उवाच:
हृष्टरूपा महात्मानो विनाशाय़ महीक्षिताम् ||
१७ ख
वैशम्पाय़न उवाच:
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् |
१८ क
वैशम्पाय़न उवाच:
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ||
१८ ख
वैशम्पाय़न उवाच:
वाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः |
१९ क
वैशम्पाय़न उवाच:
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ||
१९ ख
वैशम्पाय़न उवाच:
उष्णीषाणि निय़च्छन्तः पुण्डरीकनिभैः करैः |
२० क
वैशम्पाय़न उवाच:
अन्तरीय़ोत्तरीय़ाणि भूषणानि च सर्वशः ||
२० ख
वैशम्पाय़न उवाच:
ते रथान्रथिनः श्रेष्ठा हय़ांश्च हय़कोविदाः |
२१ क
वैशम्पाय़न उवाच:
सज्जय़न्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ||
२१ ख
वैशम्पाय़न उवाच:
अथ वर्माणि चित्राणि काञ्चनानि वहूनि च |
२२ क
वैशम्पाय़न उवाच:
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ||
२२ ख
वैशम्पाय़न उवाच:
पदातय़श्च पुरुषाः शस्त्राणि विविधानि च |
२३ क
वैशम्पाय़न उवाच:
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ||
२३ ख
वैशम्पाय़न उवाच:
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् |
२४ क
वैशम्पाय़न उवाच:
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ||
२४ ख
वैशम्पाय़न उवाच:
जनौघसलिलावर्तो रथनागाश्वमीनवान् |
२५ क
वैशम्पाय़न उवाच:
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चय़रत्नवान् ||
२५ ख
वैशम्पाय़न उवाच:
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् |
२६ क
वैशम्पाय़न उवाच:
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ||
२६ ख
वैशम्पाय़न उवाच:
योधचन्द्रोदय़ोद्भूतः कुरुराजमहार्णवः |
२७ क
वैशम्पाय़न उवाच:
अदृश्यत तदा राजंश्चन्द्रोदय़ इवार्णवः ||
२७ ख