chevron_left द्रोण पर्व अध्याय १५०
धृतराष्ट्र उवाच:
यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः |
१ क
धृतराष्ट्र उवाच:
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ||
१ ख
धृतराष्ट्र उवाच:
कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः |
२ क
धृतराष्ट्र उवाच:
रथश्च कीदृशस्तस्य माय़ाः सर्वाय़ुधानि च ||
२ ख
धृतराष्ट्र उवाच:
किम्प्रमाणा हय़ास्तस्य रथकेतुर्धनुस्तथा |
३ क
धृतराष्ट्र उवाच:
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् |
३ ख
धृतराष्ट्र उवाच:
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय़ ||
३ ग
सञ्जय़ उवाच:
लोहिताक्षो महाकाय़स्ताम्रास्यो निम्नितोदरः |
४ क
सञ्जय़ उवाच:
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ||
४ ख
सञ्जय़ उवाच:
आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् |
५ क
सञ्जय़ उवाच:
सुदीर्घताम्रजिह्वोष्ठो लम्वभ्रूः स्थूलनासिकः ||
५ ख
सञ्जय़ उवाच:
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भय़ङ्करः |
६ क
सञ्जय़ उवाच:
महाकाय़ो महावाहुर्महाशीर्षो महावलः ||
६ ख
सञ्जय़ उवाच:
विकचः परुषस्पर्शो विकटोद्वद्धपिण्डिकः |
७ क
सञ्जय़ उवाच:
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचय़ो महान् ||
७ ख
सञ्जय़ उवाच:
तथैव हस्ताभरणी महामाय़ोऽङ्गदी तथा |
८ क
सञ्जय़ उवाच:
उरसा धारय़न्निष्कमग्निमालां यथाचलः ||
८ ख
सञ्जय़ उवाच:
तस्य हेममय़ं चित्रं वहुरूपाङ्गशोभितम् |
९ क
सञ्जय़ उवाच:
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ||
९ ख
सञ्जय़ उवाच:
कुण्डले वालसूर्याभे मालां हेममय़ीं शुभाम् |
१० क
सञ्जय़ उवाच:
धारय़न्विपुलं कांस्यं कवचं च महाप्रभम् ||
१० ख
सञ्जय़ उवाच:
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् |
११ क
सञ्जय़ उवाच:
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ||
११ ख
सञ्जय़ उवाच:
सर्वाय़ुधवरोपेतमास्थितो ध्वजमालिनम् |
१२ क
सञ्जय़ उवाच:
अष्टचक्रसमाय़ुक्तं मेघगम्भीरनिस्वनम् ||
१२ ख
सञ्जय़ उवाच:
तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः |
१३ क
सञ्जय़ उवाच:
कामवर्णजवा युक्ता वलवन्तोऽवहन्हय़ाः ||
१३ ख
सञ्जय़ उवाच:
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः |
१४ क
सञ्जय़ उवाच:
रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हय़ान्रणे |
१४ ख
सञ्जय़ उवाच:
स तेन सहितस्तस्थावरुणेन यथा रविः ||
१४ ग
सञ्जय़ उवाच:
संसक्त इव चाभ्रेण यथाद्रिर्महता महान् |
१५ क
सञ्जय़ उवाच:
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः |
१५ ख
सञ्जय़ उवाच:
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ||
१५ ग
सञ्जय़ उवाच:
वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् |
१६ क
सञ्जय़ उवाच:
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ||
१६ ख
सञ्जय़ उवाच:
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादय़न्दिशः |
१७ क
सञ्जय़ उवाच:
तस्यां वीरापहारिण्यां निशाय़ां कर्णमभ्ययात् ||
१७ ख
सञ्जय़ उवाच:
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः |
१८ क
सञ्जय़ उवाच:
अश्रूय़त धनुर्घोषो विस्फूर्जितमिवाशनेः ||
१८ ख
सञ्जय़ उवाच:
तेन वित्रास्यमानानि तव सैन्यानि भारत |
१९ क
सञ्जय़ उवाच:
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मय़ः ||
१९ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् |
२० क
सञ्जय़ उवाच:
उत्स्मय़न्निव राधेय़स्त्वरमाणोऽभ्यवारय़त् ||
२० ख
सञ्जय़ उवाच:
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् |
२१ क
सञ्जय़ उवाच:
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ||
२१ ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलस्तय़ोरासीद्विशां पते |
२२ क
सञ्जय़ उवाच:
कर्णराक्षसय़ो राजन्निन्द्रशम्वरय़ोरिव ||
२२ ख
सञ्जय़ उवाच:
तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने |
२३ क
सञ्जय़ उवाच:
प्राच्छादय़ेतामन्योन्यं तक्षमाणौ महेषुभिः ||
२३ ख
सञ्जय़ उवाच:
ततः पूर्णाय़तोत्सृष्टैः शरैः संनतपर्वभिः |
२४ क
सञ्जय़ उवाच:
न्यवारय़ेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ||
२४ ख
सञ्जय़ उवाच:
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ |
२५ क
सञ्जय़ उवाच:
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ||
२५ ख
सञ्जय़ उवाच:
सञ्छिन्दन्तौ हि गात्राणि सन्दधानौ च साय़कान् |
२६ क
सञ्जय़ उवाच:
धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ||
२६ ख
सञ्जय़ उवाच:
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ |
२७ क
सञ्जय़ उवाच:
व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ||
२७ ख
सञ्जय़ उवाच:
तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् |
२८ क
सञ्जय़ उवाच:
नाकम्पय़ेतामन्योन्यं यतमानौ महाद्युती ||
२८ ख
सञ्जय़ उवाच:
तत्प्रवृत्तं निशाय़ुद्धं चिरं सममिवाभवत् |
२९ क
सञ्जय़ उवाच:
प्राणय़ोर्दीव्यतो राजन्कर्णराक्षसय़ोर्मृधे ||
२९ ख
सञ्जय़ उवाच:
तस्य सन्दधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः |
३० क
सञ्जय़ उवाच:
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् |
३० ख
सञ्जय़ उवाच:
घटोत्कचं यदा कर्णो विशेषय़ति नो नृप ||
३० ग
सञ्जय़ उवाच:
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः |
३१ क
सञ्जय़ उवाच:
कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः |
३१ ख
सञ्जय़ उवाच:
प्रादुश्चक्रे महामाय़ां राक्षसः पाण्डुनन्दनः ||
३१ ग
सञ्जय़ उवाच:
शूलमुद्गरधारिण्या शैलपादपहस्तय़ा |
३२ क
सञ्जय़ उवाच:
रक्षसां घोररूपाणां महत्या सेनय़ा वृतः ||
३२ ख
सञ्जय़ उवाच:
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः |
३३ क
सञ्जय़ उवाच:
भूतान्तकमिवाय़ान्तं कालदण्डोग्रधारिणम् ||
३३ ख
सञ्जय़ उवाच:
घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः |
३४ क
सञ्जय़ उवाच:
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||
३४ ख
सञ्जय़ उवाच:
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः |
३५ क
सञ्जय़ उवाच:
अर्धरात्रेऽधिकवलैर्विमुक्ता रक्षसां वलैः ||
३५ ख
सञ्जय़ उवाच:
आय़सानि च चक्राणि भुशुण्ड्यः शक्तितोमराः |
३६ क
सञ्जय़ उवाच:
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||
३६ ख
सञ्जय़ उवाच:
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |
३७ क
सञ्जय़ उवाच:
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ||
३७ ख
सञ्जय़ उवाच:
तत्रैकोऽस्त्रवलश्लाघी कर्णो मानी न विव्यथे |
३८ क
सञ्जय़ उवाच:
व्यधमच्च शरैर्माय़ां घटोत्कचविनिर्मिताम् ||
३८ ख
सञ्जय़ उवाच:
माय़ाय़ां तु प्रहीणाय़ाममर्षात्स घटोत्कचः |
३९ क
सञ्जय़ उवाच:
विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ||
३९ ख
सञ्जय़ उवाच:
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे |
४० क
सञ्जय़ उवाच:
विविशुर्धरणीं वाणाः सङ्क्रुद्धा इव पन्नगाः ||
४० ख
सञ्जय़ उवाच:
सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |
४१ क
सञ्जय़ उवाच:
घटोत्कचमतिक्रम्य विभेद दशभिः शरैः ||
४१ ख
सञ्जय़ उवाच:
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु |
४२ क
सञ्जय़ उवाच:
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ||
४२ ख
सञ्जय़ उवाच:
क्षुरान्तं वालसूर्याभं मणिरत्नविभूषितम् |
४३ क
सञ्जय़ उवाच:
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसय़ा ||
४३ ख
सञ्जय़ उवाच:
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसाय़कैः |
४४ क
सञ्जय़ उवाच:
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ||
४४ ख
सञ्जय़ उवाच:
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् |
४५ क
सञ्जय़ उवाच:
कर्णं प्राच्छादय़द्वाणैः स्वर्भानुरिव भास्करम् ||
४५ ख
सञ्जय़ उवाच:
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |
४६ क
सञ्जय़ उवाच:
घटोत्कचरथं तूर्णं छादय़ामास पत्रिभिः ||
४६ ख
सञ्जय़ उवाच:
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा |
४७ क
सञ्जय़ उवाच:
क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ||
४७ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् |
४८ क