सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने कर्णराक्षसय़ोर्मृधे |
१ क
सञ्जय़ उवाच:
अलाय़ुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ||
१ ख
सञ्जय़ उवाच:
महत्या सेनय़ा युक्तः सुय़ोधनमुपागमत् |
२ क
सञ्जय़ उवाच:
राक्षसानां विरूपाणां सहस्रैः परिवारितः |
२ ख
सञ्जय़ उवाच:
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ||
२ ग
सञ्जय़ उवाच:
तस्य ज्ञातिर्हि विक्रान्तो व्राह्मणादो वको हतः |
३ क
सञ्जय़ उवाच:
किर्मीरश्च महातेजा हिडिम्वश्च सखा तथा ||
३ ख
सञ्जय़ उवाच:
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् |
४ क
सञ्जय़ उवाच:
विज्ञाय़ैतन्निशाय़ुद्धं जिघांसुर्भीममाहवे ||
४ ख
सञ्जय़ उवाच:
स मत्त इव मातङ्गः सङ्क्रुद्ध इव चोरगः |
५ क
सञ्जय़ उवाच:
दुर्योधनमिदं वाक्यमव्रवीद्युद्धलालसः ||
५ ख
सञ्जय़ उवाच:
विदितं ते महाराज यथा भीमेन राक्षसाः |
६ क
सञ्जय़ उवाच:
हिडिम्ववककिर्मीरा निहता मम वान्धवाः ||
६ ख
सञ्जय़ उवाच:
परामर्शश्च कन्याय़ा हिडिम्वाय़ाः कृतः पुरा |
७ क
सञ्जय़ उवाच:
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय़ ह ||
७ ख
सञ्जय़ उवाच:
तमहं सगणं राजन्सवाजिरथकुञ्जरम् |
८ क
सञ्जय़ उवाच:
हैडिम्वं च सहामात्यं हन्तुमभ्यागतः स्वय़म् ||
८ ख
सञ्जय़ उवाच:
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् |
९ क
सञ्जय़ उवाच:
हत्वा सम्भक्षय़िष्यामि सर्वैरनुचरैः सह |
९ ख
सञ्जय़ उवाच:
निवारय़ वलं सर्वं वय़ं योत्स्याम पाण्डवान् ||
९ ग
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा |
१० क
सञ्जय़ उवाच:
प्रतिपूज्याव्रवीद्वाक्यं भ्रातृभिः परिवारितः ||
१० ख
सञ्जय़ उवाच:
त्वां पुरस्कृत्य सगणं वय़ं योत्स्यामहे परान् |
११ क
सञ्जय़ उवाच:
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ||
११ ख
सञ्जय़ उवाच:
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः |
१२ क
सञ्जय़ उवाच:
अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ||
१२ ख
सञ्जय़ उवाच:
दीप्यमानेन वपुषा रथेनादित्यवर्चसा |
१३ क
सञ्जय़ उवाच:
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ||
१३ ख
सञ्जय़ उवाच:
तस्याप्यतुलनिर्घोषो वहुतोरणचित्रितः |
१४ क
सञ्जय़ उवाच:
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ||
१४ ख
सञ्जय़ उवाच:
तस्यापि तुरगाः शीघ्रा हस्तिकाय़ाः खरस्वनाः |
१५ क
सञ्जय़ उवाच:
शतं युक्ता महाकाय़ा मांसशोणितभोजनाः ||
१५ ख
सञ्जय़ उवाच:
तस्यापि रथनिर्घोषो महामेघरवोपमः |
१६ क
सञ्जय़ उवाच:
तस्यापि सुमहच्चापं दृढज्यं वलवत्तरम् ||
१६ ख
सञ्जय़ उवाच:
तस्याप्यक्षसमा वाणा रुक्मपुङ्खाः शिलाशिताः |
१७ क
सञ्जय़ उवाच:
सोऽपि वीरो महावाहुर्यथैव स घटोत्कचः ||
१७ ख
सञ्जय़ उवाच:
तस्यापि गोमाय़ुवडाभिगुप्तो; वभूव केतुर्ज्वलनार्कतुल्यः |
१८ क
सञ्जय़ उवाच:
स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः ||
१८ ख
सञ्जय़ उवाच:
दीप्ताङ्गदो दीप्तकिरीटमाली; वद्धस्रगुष्णीषनिवद्धखड्गः |
१९ क
सञ्जय़ उवाच:
गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा ||
१९ ख
सञ्जय़ उवाच:
रथेन तेनानलवर्चसा च; विद्रावय़न्पाण्डववाहिनीं ताम् |
२० क
सञ्जय़ उवाच:
रराज सङ्ख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे ||
२० ख
सञ्जय़ उवाच:
ते चापि सर्वे प्रवरा नरेन्द्रा; महावला वर्मिणश्चर्मिणश्च |
२१ क
सञ्जय़ उवाच:
हर्षान्विता युय़ुधुस्तत्र राज; न्समन्ततः पाण्डवय़ोधवीराः ||
२१ ख