chevron_left शान्ति पर्व अध्याय १५२
युधिष्ठिर उवाच:
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते |
१ क
युधिष्ठिर उवाच:
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ||
१ ख
भीष्म उवाच:
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप |
२ क
भीष्म उवाच:
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ||
२ ख
भीष्म उवाच:
अतः पापमधर्मश्च तथा दुःखमनुत्तमम् |
३ क
भीष्म उवाच:
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ||
३ ख
भीष्म उवाच:
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते |
४ क
भीष्म उवाच:
लोभान्मोहश्च माय़ा च मानस्तम्भः परासुता ||
४ ख
भीष्म उवाच:
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षय़ः |
५ क
भीष्म उवाच:
अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते ||
५ ख
भीष्म उवाच:
अन्याय़श्चावितर्कश्च विकर्मसु च याः क्रिय़ाः |
६ क
भीष्म उवाच:
कूटविद्यादय़श्चैव रूपैश्वर्यमदस्तथा ||
६ ख
भीष्म उवाच:
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् |
७ क
भीष्म उवाच:
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वय़ुक्तता |
७ ख
भीष्म उवाच:
हरणं परवित्तानां परदाराभिमर्शनम् ||
७ ग
भीष्म उवाच:
वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च |
८ क
भीष्म उवाच:
उपस्थोदरय़ोर्वेगो मृत्युवेगश्च दारुणः ||
८ ख
भीष्म उवाच:
ईर्ष्यावेगश्च वलवान्मिथ्यावेगश्च दुस्त्यजः |
९ क
भीष्म उवाच:
रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः ||
९ ख
भीष्म उवाच:
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता |
१० क
भीष्म उवाच:
साहसानां च सर्वेषामकार्याणां क्रिय़ास्तथा ||
१० ख
भीष्म उवाच:
जातौ वाल्येऽथ कौमारे यौवने चापि मानवः |
११ क
भीष्म उवाच:
न सन्त्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः ||
११ ख
भीष्म उवाच:
यो न पूरय़ितुं शक्यो लोभः प्राप्त्या कुरूद्वह |
१२ क
भीष्म उवाच:
नित्यं गम्भीरतोय़ाभिरापगाभिरिवोदधिः |
१२ ख
भीष्म उवाच:
न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति ||
१२ ग
भीष्म उवाच:
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः |
१३ क
भीष्म उवाच:
ज्ञाय़ते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा |
१३ ख
भीष्म उवाच:
स लोभः सह मोहेन विजेतव्यो जितात्मना ||
१३ ग
भीष्म उवाच:
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा |
१४ क
भीष्म उवाच:
भवन्त्येतानि कौरव्य लुव्धानामकृतात्मनाम् ||
१४ ख
भीष्म उवाच:
सुमहान्त्यपि शास्त्राणि धारय़न्ति वहुश्रुताः |
१५ क
भीष्म उवाच:
छेत्तारः संशय़ानां च क्लिश्यन्तीहाल्पवुद्धय़ः ||
१५ ख
भीष्म उवाच:
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारवहिष्कृताः |
१६ क
भीष्म उवाच:
अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव |
१६ ख
भीष्म उवाच:
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ||
१६ ग
भीष्म उवाच:
कुर्वते च वहून्मार्गांस्तांस्तान्हेतुवलाश्रिताः |
१७ क
भीष्म उवाच:
सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः ||
१७ ख
भीष्म उवाच:
धर्मस्याह्रिय़माणस्य लोभग्रस्तैर्दुरात्मभिः |
१८ क
भीष्म उवाच:
या या विक्रिय़ते संस्था ततः साभिप्रपद्यते ||
१८ ख
भीष्म उवाच:
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता |
१९ क
भीष्म उवाच:
तत एव हि कौरव्य दृश्यन्ते लुव्धवुद्धिषु |
१९ ख
भीष्म उवाच:
एतानशिष्टान्वुध्यस्व नित्यं लोभसमन्वितान् ||
१९ ग
भीष्म उवाच:
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् |
२० क
भीष्म उवाच:
येषु वृत्तिभय़ं नास्ति परलोकभय़ं न च ||
२० ख
भीष्म उवाच:
नामिषेषु प्रसङ्गोऽस्ति न प्रिय़ेष्वप्रिय़ेषु च |
२१ क
भीष्म उवाच:
शिष्टाचारः प्रिय़ो येषु दमो येषु प्रतिष्ठितः ||
२१ ख
भीष्म उवाच:
सुखं दुःखं परं येषां सत्यं येषां पराय़णम् |
२२ क
भीष्म उवाच:
दातारो न गृहीतारो दय़ावन्तस्तथैव च ||
२२ ख
भीष्म उवाच:
पितृदेवातिथेय़ाश्च नित्योद्युक्तास्तथैव च |
२३ क
भीष्म उवाच:
सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः ||
२३ ख
भीष्म उवाच:
सर्वभूतहिताश्चैव सर्वदेय़ाश्च भारत |
२४ क
भीष्म उवाच:
न ते चालय़ितुं शक्या धर्मव्यापारपारगाः ||
२४ ख
भीष्म उवाच:
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् |
२५ क
भीष्म उवाच:
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ||
२५ ख
भीष्म उवाच:
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता |
२६ क
भीष्म उवाच:
कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः |
२६ ख
भीष्म उवाच:
सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च ||
२६ ग
भीष्म उवाच:
न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर |
२७ क
भीष्म उवाच:
अवश्यकार्य इत्येव शरीरस्य क्रिय़ास्तथा ||
२७ ख
भीष्म उवाच:
न भय़ं क्रोधचापल्यं न शोकस्तेषु विद्यते |
२८ क
भीष्म उवाच:
न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः ||
२८ ख
भीष्म उवाच:
येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः |
२९ क
भीष्म उवाच:
तेषु कौन्तेय़ रज्येथा येष्वतन्द्रीकृतं मनः ||
२९ ख
भीष्म उवाच:
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च |
३० क
भीष्म उवाच:
निर्ममा निरहङ्काराः सत्त्वस्थाः समदर्शिनः ||
३० ख
भीष्म उवाच:
लाभालाभौ सुखदुःखे च तात; प्रिय़ाप्रिय़े मरणं जीवितं च |
३१ क
भीष्म उवाच:
समानि येषां स्थिरविक्रमाणां; वुद्धात्मनां सत्त्वमवस्थितानाम् ||
३१ ख
भीष्म उवाच:
सुखप्रिय़ैस्तान्सुमहाप्रतापा; न्यत्तोऽप्रमत्तश्च समर्थय़ेथाः |
३२ क
भीष्म उवाच:
दैवात्सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव ||
३२ ख