सञ्जय़ उवाच:
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् |
१ क
सञ्जय़ उवाच:
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ||
१ ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |
२ क
सञ्जय़ उवाच:
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ||
२ ख
सञ्जय़ उवाच:
आर्जुनिः क्षत्रधर्मा च वृहत्क्षत्रश्च वीर्यवान् |
३ क
सञ्जय़ उवाच:
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ||
३ ख
सञ्जय़ उवाच:
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः |
४ क
सञ्जय़ उवाच:
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ||
४ ख
सञ्जय़ उवाच:
द्रौपदेय़ाश्च संरव्धाः शैशुपालिश्च वीर्यवान् |
५ क
सञ्जय़ उवाच:
केकय़ाश्च महावीर्याः सृञ्जय़ाश्च सहस्रशः ||
५ ख
सञ्जय़ उवाच:
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः |
६ क
सञ्जय़ उवाच:
समभ्यधावन्सहसा भारद्वाजं युय़ुत्सवः ||
६ ख
सञ्जय़ उवाच:
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् |
७ क
सञ्जय़ उवाच:
असम्भ्रान्तः शरौघेण महता समवारय़त् ||
७ ख
सञ्जय़ उवाच:
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् |
८ क
सञ्जय़ उवाच:
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशय़ाः ||
८ ख
सञ्जय़ उवाच:
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः |
९ क
सञ्जय़ उवाच:
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ||
९ ख
सञ्जय़ उवाच:
तदद्भुतमपश्याम द्रोणस्य भुजय़ोर्वलम् |
१० क
सञ्जय़ उवाच:
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जय़ैः सह ||
१० ख
सञ्जय़ उवाच:
तमाय़ान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः |
११ क
सञ्जय़ उवाच:
वहुधा चिन्तय़ामास द्रोणस्य प्रतिवारणम् ||
११ ख
सञ्जय़ उवाच:
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः |
१२ क
सञ्जय़ उवाच:
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ||
१२ ख
सञ्जय़ उवाच:
वासुदेवादनवरं फल्गुनाच्चामितौजसम् |
१३ क
सञ्जय़ उवाच:
अव्रवीत्परवीरघ्नमभिमन्युमिदं वचः ||
१३ ख
सञ्जय़ उवाच:
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु |
१४ क
सञ्जय़ उवाच:
चक्रव्यूहस्य न वय़ं विद्म भेदं कथञ्चन ||
१४ ख
सञ्जय़ उवाच:
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा |
१५ क
सञ्जय़ उवाच:
चक्रव्यूहं महावाहो पञ्चमोऽन्यो न विद्यते ||
१५ ख
सञ्जय़ उवाच:
अभिमन्यो वरं तात याचतां दातुमर्हसि |
१६ क
सञ्जय़ उवाच:
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ||
१६ ख
सञ्जय़ उवाच:
धनञ्जय़ो हि नस्तात गर्हय़ेदेत्य संय़ुगात् |
१७ क
सञ्जय़ उवाच:
क्षिप्रमस्त्रं समादाय़ द्रोणानीकं विशातय़ ||
१७ ख
अभिमन्युरु उवाच:
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि |
१८ क
अभिमन्युरु उवाच:
पितॄणां जय़माकाङ्क्षन्नवगाहे भिनद्मि च ||
१८ ख
अभिमन्युरु उवाच:
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने |
१९ क
अभिमन्युरु उवाच:
नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ||
१९ ख
युधिष्ठिर उवाच:
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनय़स्व नः |
२० क
युधिष्ठिर उवाच:
वय़ं त्वानुगमिष्यामो येन त्वं तात यास्यसि ||
२० ख
युधिष्ठिर उवाच:
धनञ्जय़समं युद्धे त्वां वय़ं तात संय़ुगे |
२१ क
युधिष्ठिर उवाच:
प्रणिधाय़ानुय़ास्यामो रक्षन्तः सर्वतोमुखाः ||
२१ ख
भीम उवाच:
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः |
२२ क
भीम उवाच:
पाञ्चालाः केकय़ा मत्स्यास्तथा सर्वे प्रभद्रकाः ||
२२ ख
भीम उवाच:
सकृद्भिन्नं त्वय़ा व्यूहं तत्र तत्र पुनः पुनः |
२३ क
भीम उवाच:
वय़ं प्रध्वंसय़िष्यामो निघ्नमाना वरान्वरान् ||
२३ ख
अभिमन्युरु उवाच:
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् |
२४ क
अभिमन्युरु उवाच:
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ||
२४ ख
अभिमन्युरु उवाच:
तत्कर्माद्य करिष्यामि हितं यद्वंशय़ोर्द्वय़ोः |
२५ क
अभिमन्युरु उवाच:
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ||
२५ ख
अभिमन्युरु उवाच:
शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः |
२६ क
अभिमन्युरु उवाच:
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मय़ा ||
२६ ख
युधिष्ठिर उवाच:
एवं ते भाषमाणस्य वलं सौभद्र वर्धताम् |
२७ क
युधिष्ठिर उवाच:
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ||
२७ ख
युधिष्ठिर उवाच:
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः |
२८ क
युधिष्ठिर उवाच:
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ||
२८ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदय़त् |
२९ क
सञ्जय़ उवाच:
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय़ चोदय़ ||
२९ ख