chevron_left अनुशासन पर्व अध्याय १५३
वैशम्पाय़न उवाच:
ततः कुन्तीसुतो राजा पौरजानपदं जनम् |
१ क
वैशम्पाय़न उवाच:
पूजय़ित्वा यथान्याय़मनुजज्ञे गृहान्प्रति ||
१ ख
वैशम्पाय़न उवाच:
सान्त्वय़ामास नारीश्च हतवीरा हतेश्वराः |
२ क
वैशम्पाय़न उवाच:
विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ||
२ ख
वैशम्पाय़न उवाच:
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ||
३ ख
वैशम्पाय़न उवाच:
द्विजेभ्यो वलमुख्येभ्यो नैगमेभ्यश्च सर्वशः |
४ क
वैशम्पाय़न उवाच:
प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ||
४ ख
वैशम्पाय़न उवाच:
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे |
५ क
वैशम्पाय़न उवाच:
समय़ं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ||
५ ख
वैशम्पाय़न उवाच:
स निर्ययौ गजपुराद्याजकैः परिवारितः |
६ क
वैशम्पाय़न उवाच:
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तराय़णम् ||
६ ख
वैशम्पाय़न उवाच:
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः |
७ क
वैशम्पाय़न उवाच:
चन्दनागरुमुख्यानि तथा कालागरूणि च ||
७ ख
वैशम्पाय़न उवाच:
प्रस्थाप्य पूर्वं कौन्तेय़ो भीष्मसंसाधनाय़ वै |
८ क
वैशम्पाय़न उवाच:
माल्यानि च महार्हाणि रत्नानि विविधानि च ||
८ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् |
९ क
वैशम्पाय़न उवाच:
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ||
९ ख
वैशम्पाय़न उवाच:
जनार्दनेनानुगतो विदुरेण च धीमता |
१० क
वैशम्पाय़न उवाच:
युय़ुत्सुना च कौरव्यो युय़ुधानेन चाभिभो ||
१० ख
वैशम्पाय़न उवाच:
महता राजभोग्येन परिवर्हेण संवृतः |
११ क
वैशम्पाय़न उवाच:
स्तूय़मानो महाराज भीष्मस्याग्नीननुव्रजन् ||
११ ख
वैशम्पाय़न उवाच:
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा |
१२ क
वैशम्पाय़न उवाच:
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् ||
१२ ख
वैशम्पाय़न उवाच:
उपास्यमानं व्यासेन पाराशर्येण धीमता |
१३ क
वैशम्पाय़न उवाच:
नारदेन च राजर्षे देवलेनासितेन च ||
१३ ख
वैशम्पाय़न उवाच:
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः |
१४ क
वैशम्पाय़न उवाच:
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ||
१४ ख
वैशम्पाय़न उवाच:
शय़ानं वीरशय़ने ददर्श नृपतिस्ततः |
१५ क
वैशम्पाय़न उवाच:
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ||
१५ ख
वैशम्पाय़न उवाच:
अभिवाद्याथ कौन्तेय़ः पितामहमरिन्दमम् |
१६ क
वैशम्पाय़न उवाच:
द्वैपाय़नादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ||
१६ ख
वैशम्पाय़न उवाच:
ऋत्विग्भिर्व्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः |
१७ क
वैशम्पाय़न उवाच:
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ||
१७ ख
वैशम्पाय़न उवाच:
अव्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः |
१८ क
वैशम्पाय़न उवाच:
भ्रातृभिः सह कौरव्य शय़ानं निम्नगासुतम् ||
१८ ख
वैशम्पाय़न उवाच:
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत |
१९ क
वैशम्पाय़न उवाच:
शृणोषि चेन्महावाहो व्रूहि किं करवाणि ते ||
१९ ख
वैशम्पाय़न उवाच:
प्राप्तोऽस्मि समय़े राजन्नग्नीनादाय़ ते विभो |
२० क
वैशम्पाय़न उवाच:
आचार्या व्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ||
२० ख
वैशम्पाय़न उवाच:
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः |
२१ क
वैशम्पाय़न उवाच:
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ||
२१ ख
वैशम्पाय़न उवाच:
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः |
२२ क
वैशम्पाय़न उवाच:
तान्पश्य कुरुशार्दूल समुन्मीलय़ लोचने ||
२२ ख
वैशम्पाय़न उवाच:
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मय़ा |
२३ क
वैशम्पाय़न उवाच:
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ||
२३ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु गाङ्गेय़ः कुन्तीपुत्रेण धीमता |
२४ क
वैशम्पाय़न उवाच:
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् ||
२४ ख
वैशम्पाय़न उवाच:
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् |
२५ क
वैशम्पाय़न उवाच:
ओघमेघस्वनो वाग्मी काले वचनमव्रवीत् ||
२५ ख
वैशम्पाय़न उवाच:
दिष्ट्या प्राप्तोऽसि कौन्तेय़ सहामात्यो युधिष्ठिर |
२६ क
वैशम्पाय़न उवाच:
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ||
२६ ख
वैशम्पाय़न उवाच:
अष्टपञ्चाशतं रात्र्यः शय़ानस्याद्य मे गताः |
२७ क
वैशम्पाय़न उवाच:
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ||
२७ ख
वैशम्पाय़न उवाच:
माघोऽय़ं समनुप्राप्तो मासः पुण्यो युधिष्ठिर |
२८ क
वैशम्पाय़न उवाच:
त्रिभागशेषः पक्षोऽय़ं शुक्लो भवितुमर्हति ||
२८ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु गाङ्गेय़ो धर्मपुत्रं युधिष्ठिरम् |
२९ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमथामन्त्र्य काले वचनमव्रवीत् ||
२९ ख
वैशम्पाय़न उवाच:
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशय़ः |
३० क
वैशम्पाय़न उवाच:
वहुश्रुता हि ते विप्रा वहवः पर्युपासिताः ||
३० ख
वैशम्पाय़न उवाच:
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर |
३१ क
वैशम्पाय़न उवाच:
वेदांश्च चतुरः साङ्गान्निखिलेनाववुध्यसे ||
३१ ख
वैशम्पाय़न उवाच:
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा |
३२ क
वैशम्पाय़न उवाच:
श्रुतं देवरहस्यं ते कृष्णद्वैपाय़नादपि ||
३२ ख
वैशम्पाय़न उवाच:
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः |
३३ क
वैशम्पाय़न उवाच:
तान्पालय़ स्थितो धर्मे गुरुशुश्रूषणे रतान् ||
३३ ख
वैशम्पाय़न उवाच:
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव |
३४ क
वैशम्पाय़न उवाच:
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ||
३४ ख
वैशम्पाय़न उवाच:
तव पुत्रा दुरात्मानः क्रोधलोभपराय़णाः |
३५ क
वैशम्पाय़न उवाच:
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ||
३५ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् |
३६ क
वैशम्पाय़न उवाच:
वासुदेवं महावाहुमभ्यभाषत कौरवः ||
३६ ख
वैशम्पाय़न उवाच:
भगवन्देवदेवेश सुरासुरनमस्कृत |
३७ क
वैशम्पाय़न उवाच:
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ||
३७ ख
वैशम्पाय़न उवाच:
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम |
३८ क
वैशम्पाय़न उवाच:
रक्ष्याश्च ते पाण्डवेय़ा भवान्ह्येषां पराय़णम् ||
३८ ख
वैशम्पाय़न उवाच:
उक्तवानस्मि दुर्वुद्धिं मन्दं दुर्योधनं पुरा |
३९ क
वैशम्पाय़न उवाच:
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जय़ः ||
३९ ख
वैशम्पाय़न उवाच:
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः |
४० क
वैशम्पाय़न उवाच:
सन्धानस्य परः कालस्तवेति च पुनः पुनः ||
४० ख
वैशम्पाय़न उवाच:
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः |
४१ क
वैशम्पाय़न उवाच:
घातय़ित्वेह पृथिवीं ततः स निधनं गतः ||
४१ ख
वैशम्पाय़न उवाच:
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् |
४२ क
वैशम्पाय़न उवाच:
नरेण सहितं देवं वदर्यां सुचिरोषितम् ||
४२ ख
वैशम्पाय़न उवाच:
तथा मे नारदः प्राह व्यासश्च सुमहातपाः |
४३ क
वैशम्पाय़न उवाच:
नरनाराय़णावेतौ सम्भूतौ मनुजेष्विति ||
४३ ख
वासुदेव उवाच:
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव |
४४ क
वासुदेव उवाच:
न तेऽस्ति वृजिनं किञ्चिन्मय़ा दृष्टं महाद्युते ||
४४ ख
वासुदेव उवाच:
पितृभक्तोऽसि राजर्षे मार्कण्डेय़ इवापरः |
४५ क
वासुदेव उवाच:
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ||
४५ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु गाङ्गेय़ः पाण्डवानिदमव्रवीत् |
४६ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ||
४६ ख
वैशम्पाय़न उवाच:
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ |
४७ क
वैशम्पाय़न उवाच:
सत्ये प्रय़तितव्यं वः सत्यं हि परमं वलम् ||
४७ ख
वैशम्पाय़न उवाच:
आनृशंस्यपरैर्भाव्यं सदैव निय़तात्मभिः |
४८ क
वैशम्पाय़न उवाच:
व्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ||
४८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह |
४९ क
वैशम्पाय़न उवाच:
पुनरेवाव्रवीद्धीमान्युधिष्ठिरमिदं वचः ||
४९ ख
वैशम्पाय़न उवाच:
व्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः |
५० क
वैशम्पाय़न उवाच:
आचार्या ऋत्विजश्चैव पूजनीय़ा नराधिप ||
५० ख