वैशम्पाय़न उवाच:
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ |
१ क
वैशम्पाय़न उवाच:
वहूनि वहुरूपाणि विरजांसि समाददे ||
१ ख
वैशम्पाय़न उवाच:
ततो वाय़ुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः |
२ क
वैशम्पाय़न उवाच:
प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदय़न् ||
२ ख
वैशम्पाय़न उवाच:
पपात महती चोल्का सनिर्घाता महाप्रभा |
३ क
वैशम्पाय़न उवाच:
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ||
३ ख
वैशम्पाय़न उवाच:
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते |
४ क
वैशम्पाय़न उवाच:
चचाल पृथिवी चापि पांसुवर्षं पपात च ||
४ ख
वैशम्पाय़न उवाच:
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः |
५ क
वैशम्पाय़न उवाच:
तमोवृतमभूत्सर्वं न प्रज्ञाय़त किञ्चन ||
५ ख
वैशम्पाय़न उवाच:
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः |
६ क
वैशम्पाय़न उवाच:
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ||
६ ख
वैशम्पाय़न उवाच:
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः |
७ क
वैशम्पाय़न उवाच:
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ||
७ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः |
८ क
वैशम्पाय़न उवाच:
अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ||
८ ख
वैशम्पाय़न उवाच:
तत्र कृष्णां यमौ चैव समीपस्थानरिन्दमः |
९ क
वैशम्पाय़न उवाच:
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ||
९ ख
वैशम्पाय़न उवाच:
कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति |
१० क
वैशम्पाय़न उवाच:
कृतवानपि वा वीरः साहसं साहसप्रिय़ः ||
१० ख
वैशम्पाय़न उवाच:
इमे ह्यकस्मादुत्पाता महासमरदर्शिनः |
११ क
वैशम्पाय़न उवाच:
दर्शय़न्तो भय़ं तीव्रं प्रादुर्भूताः समन्ततः ||
११ ख
वैशम्पाय़न उवाच:
तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी |
१२ क
वैशम्पाय़न उवाच:
प्रिय़ा प्रिय़ं चिकीर्षन्ती महिषी चारुहासिनी ||
१२ ख
वैशम्पाय़न उवाच:
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना |
१३ क
वैशम्पाय़न उवाच:
तन्मय़ा भीमसेनस्य प्रीतय़ाद्योपपादितम् ||
१३ ख
वैशम्पाय़न उवाच:
अपि चोक्तो मय़ा वीरो यदि पश्येद्वहून्यपि |
१४ क
वैशम्पाय़न उवाच:
तानि सर्वाण्युपादाय़ शीघ्रमागम्यतामिति ||
१४ ख
वैशम्पाय़न उवाच:
स तु नूनं महावाहुः प्रिय़ार्थं मम पाण्डवः |
१५ क
वैशम्पाय़न उवाच:
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ||
१५ ख
वैशम्पाय़न उवाच:
उक्तस्त्वेवं तय़ा राजा यमाविदमथाव्रवीत् |
१६ क
वैशम्पाय़न उवाच:
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ||
१६ ख
वैशम्पाय़न उवाच:
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् |
१७ क
वैशम्पाय़न उवाच:
त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ||
१७ ख
वैशम्पाय़न उवाच:
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः |
१८ क
वैशम्पाय़न उवाच:
चिरं च तस्य कालोऽय़ं स च वाय़ुसमो जवे ||
१८ ख
वैशम्पाय़न उवाच:
तरस्वी वैनतेय़स्य सदृशो भुवि लङ्घने |
१९ क
वैशम्पाय़न उवाच:
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ||
१९ ख
वैशम्पाय़न उवाच:
तमन्विय़ाम भवतां प्रभावाद्रजनीचराः |
२० क
वैशम्पाय़न उवाच:
पुरा स नापराध्नोति सिद्धानां व्रह्मवादिनाम् ||
२० ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा तु ते सर्वे हैडिम्वप्रमुखास्तदा |
२१ क
वैशम्पाय़न उवाच:
उद्देशज्ञाः कुवेरस्य नलिन्या भरतर्षभ ||
२१ ख
वैशम्पाय़न उवाच:
आदाय़ पाण्डवांश्चैव तांश्च विप्राननेकशः |
२२ क
वैशम्पाय़न उवाच:
लोमशेनैव सहिताः प्रय़युः प्रीतमानसाः ||
२२ ख
वैशम्पाय़न उवाच:
ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने |
२३ क
वैशम्पाय़न उवाच:
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ||
२३ ख
वैशम्पाय़न उवाच:
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् |
२४ क
वैशम्पाय़न उवाच:
ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ||
२४ ख
वैशम्पाय़न उवाच:
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् |
२५ क
वैशम्पाय़न उवाच:
प्रजासङ्क्षेपसमय़े दण्डहस्तमिवान्तकम् ||
२५ ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः |
२६ क
वैशम्पाय़न उवाच:
उवाच श्लक्ष्णय़ा वाचा कौन्तेय़ किमिदं कृतम् ||
२६ ख
वैशम्पाय़न उवाच:
साहसं वत भद्रं ते देवानामपि चाप्रिय़म् |
२७ क
वैशम्पाय़न उवाच:
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रिय़म् ||
२७ ख
वैशम्पाय़न उवाच:
अनुशास्य च कौन्तेय़ं पद्मानि प्रतिगृह्य च |
२८ क
वैशम्पाय़न उवाच:
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ||
२८ ख
वैशम्पाय़न उवाच:
एतस्मिन्नेव काले तु प्रगृहीतशिलाय़ुधाः |
२९ क
वैशम्पाय़न उवाच:
प्रादुरासन्महाकाय़ास्तस्योद्यानस्य रक्षिणः ||
२९ ख
वैशम्पाय़न उवाच:
ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् |
३० क
वैशम्पाय़न उवाच:
नकुलं सहदेवं च तथान्यान्व्राह्मणर्षभान् |
३० ख
वैशम्पाय़न उवाच:
विनय़ेनानताः सर्वे प्रणिपेतुश्च भारत ||
३० ग
वैशम्पाय़न उवाच:
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः |
३१ क
वैशम्पाय़न उवाच:
विदिताश्च कुवेरस्य ततस्ते नरपुङ्गवाः |
३१ ख
वैशम्पाय़न उवाच:
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ||
३१ ग