chevron_left उद्योग पर्व अध्याय १५३
वैशम्पाय़न उवाच:
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः |
१ क
वैशम्पाय़न उवाच:
सह सर्वैर्महीपालैरिदं वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि |
२ क
वैशम्पाय़न उवाच:
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ||
२ ख
वैशम्पाय़न उवाच:
न हि जातु द्वय़ोर्वुद्धिः समा भवति कर्हिचित् |
३ क
वैशम्पाय़न उवाच:
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ||
३ ख
वैशम्पाय़न उवाच:
श्रूय़ते च महाप्राज्ञ हैहय़ानमितौजसः |
४ क
वैशम्पाय़न उवाच:
अभ्ययुर्व्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ||
४ ख
वैशम्पाय़न उवाच:
तानन्वय़ुस्तदा वैश्याः शूद्राश्चैव पितामह |
५ क
वैशम्पाय़न उवाच:
एकतस्तु त्रय़ो वर्णा एकतः क्षत्रिय़र्षभाः ||
५ ख
वैशम्पाय़न उवाच:
ते स्म युद्धेष्वभज्यन्त त्रय़ो वर्णाः पुनः पुनः |
६ क
वैशम्पाय़न उवाच:
क्षत्रिय़ास्तु जय़न्त्येव वहुलं चैकतो वलम् ||
६ ख
वैशम्पाय़न उवाच:
ततस्ते क्षत्रिय़ानेव पप्रच्छुर्द्विजसत्तमाः |
७ क
वैशम्पाय़न उवाच:
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ||
७ ख
वैशम्पाय़न उवाच:
वय़मेकस्य शृणुमो महावुद्धिमतो रणे |
८ क
वैशम्पाय़न उवाच:
भवन्तस्तु पृथक्सर्वे स्ववुद्धिवशवर्तिनः ||
८ ख
वैशम्पाय़न उवाच:
ततस्ते व्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् |
९ क
वैशम्पाय़न उवाच:
नय़ेषु कुशलं शूरमजय़न्क्षत्रिय़ांस्ततः ||
९ ख
वैशम्पाय़न उवाच:
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् |
१० क
वैशम्पाय़न उवाच:
सेनापतिं प्रकुर्वन्ति ते जय़न्ति रणे रिपून् ||
१० ख
वैशम्पाय़न उवाच:
भवानुशनसा तुल्यो हितैषी च सदा मम |
११ क
वैशम्पाय़न उवाच:
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ||
११ ख
वैशम्पाय़न उवाच:
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः |
१२ क
वैशम्पाय़न उवाच:
कुवेर इव यक्षाणां मरुतामिव वासवः ||
१२ ख
वैशम्पाय़न उवाच:
पर्वतानां यथा मेरुः सुपर्णः पततामिव |
१३ क
वैशम्पाय़न उवाच:
कुमार इव भूतानां वसूनामिव हव्यवाट् ||
१३ ख
वैशम्पाय़न उवाच:
भवता हि वय़ं गुप्ताः शक्रेणेव दिवौकसः |
१४ क
वैशम्पाय़न उवाच:
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ||
१४ ख
वैशम्पाय़न उवाच:
प्रय़ातु नो भवानग्रे देवानामिव पावकिः |
१५ क
वैशम्पाय़न उवाच:
वय़ं त्वामनुय़ास्यामः सौरभेय़ा इवर्षभम् ||
१५ ख
भीष्म उवाच:
एवमेतन्महावाहो यथा वदसि भारत |
१६ क
भीष्म उवाच:
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ||
१६ ख
भीष्म उवाच:
अपि चैव मय़ श्रेय़ो वाच्यं तेषां नराधिप |
१७ क
भीष्म उवाच:
योद्धव्यं तु तवार्थाय़ यथा स समय़ः कृतः ||
१७ ख
भीष्म उवाच:
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि |
१८ क
भीष्म उवाच:
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जय़ात् ||
१८ ख
भीष्म उवाच:
स हि वेद महावाहुर्दिव्यान्यस्त्राणि सर्वशः |
१९ क
भीष्म उवाच:
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ||
१९ ख
भीष्म उवाच:
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् |
२० क
भीष्म उवाच:
कुर्यां शस्त्रवलेनैव ससुरासुरराक्षसम् ||
२० ख
भीष्म उवाच:
न त्वेवोत्सादनीय़ा मे पाण्डोः पुत्रा नराधिप |
२१ क
भीष्म उवाच:
तस्माद्योधान्हनिष्यामि प्रय़ोगेणाय़ुतं सदा ||
२१ ख
भीष्म उवाच:
एवमेषां करिष्यामि निधनं कुरुनन्दन |
२२ क
भीष्म उवाच:
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ||
२२ ख
भीष्म उवाच:
सेनापतिस्त्वहं राजन्समय़ेनापरेण ते |
२३ क
भीष्म उवाच:
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ||
२३ ख
भीष्म उवाच:
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते |
२४ क
भीष्म उवाच:
स्पर्धते हि सदात्यर्थं सूतपुत्रो मय़ा रणे ||
२४ ख
कर्ण उवाच:
नाहं जीवति गाङ्गेय़े योत्स्ये राजन्कथञ्चन |
२५ क
कर्ण उवाच:
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ||
२५ ख
वैशम्पाय़न उवाच:
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् |
२६ क
वैशम्पाय़न उवाच:
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ||
२६ ख
वैशम्पाय़न उवाच:
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् |
२७ क
वैशम्पाय़न उवाच:
वादय़ामासुरव्यग्राः पुरुषा राजशासनात् ||
२७ ख
वैशम्पाय़न उवाच:
सिंहनादाश्च विविधा वाहनानां च निस्वनाः |
२८ क
वैशम्पाय़न उवाच:
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ||
२८ ख
वैशम्पाय़न उवाच:
निर्घाताः पृथिवीकम्पा गजवृंहितनिस्वनाः |
२९ क
वैशम्पाय़न उवाच:
आसंश्च सर्वय़ोधानां पातय़न्तो मनांस्युत ||
२९ ख
वैशम्पाय़न उवाच:
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे |
३० क
वैशम्पाय़न उवाच:
शिवाश्च भय़वेदिन्यो नेदुर्दीप्तस्वरा भृशम् ||
३० ख
वैशम्पाय़न उवाच:
सेनापत्ये यदा राजा गाङ्गेय़मभिषिक्तवान् |
३१ क
वैशम्पाय़न उवाच:
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ||
३१ ख
वैशम्पाय़न उवाच:
ततः सेनापतिं कृत्वा भीष्मं परवलार्दनम् |
३२ क
वैशम्पाय़न उवाच:
वाचय़ित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ||
३२ ख
वैशम्पाय़न उवाच:
वर्धमानो जय़ाशीर्भिर्निर्ययौ सैनिकैर्वृतः |
३३ क
वैशम्पाय़न उवाच:
आपगेय़ं पुरस्कृत्य भ्रातृभिः सहितस्तदा |
३३ ख
वैशम्पाय़न उवाच:
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ||
३३ ग
वैशम्पाय़न उवाच:
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः |
३४ क
वैशम्पाय़न उवाच:
शिविरं मापय़ामास समे देशे नराधिपः ||
३४ ख
वैशम्पाय़न उवाच:
मधुरानूषरे देशे प्रभूतय़वसेन्धने |
३५ क
वैशम्पाय़न उवाच:
यथैव हास्तिनपुरं तद्वच्छिविरमावभौ ||
३५ ख