सञ्जय़ उवाच:
सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् |
१ क
सञ्जय़ उवाच:
वासुदेवोऽव्रवीद्वाक्यं घटोत्कचमिदं तदा ||
१ ख
सञ्जय़ उवाच:
पश्य भीमं महावाहो रक्षसा ग्रस्तमन्तिकात् |
२ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां तव चैव महाद्युते ||
२ ख
सञ्जय़ उवाच:
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलाय़ुधम् |
३ क
सञ्जय़ उवाच:
जहि क्षिप्रं महावाहो पश्चात्कर्णं वधिष्यसि ||
३ ख
सञ्जय़ उवाच:
स वार्ष्णेय़वचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् |
४ क
सञ्जय़ उवाच:
युय़ुधे राक्षसेन्द्रेण वकभ्रात्रा घटोत्कचः |
४ ख
सञ्जय़ उवाच:
तय़ोः सुतुमुलं युद्धं वभूव निशि रक्षसोः ||
४ ग
सञ्जय़ उवाच:
अलाय़ुधस्य योधांस्तु राक्षसान्भीमदर्शनान् |
५ क
सञ्जय़ उवाच:
वेगेनापततः शूरान्प्रगृहीतशरासनान् ||
५ ख
सञ्जय़ उवाच:
आत्ताय़ुधः सुसङ्क्रुद्धो युय़ुधानो महारथः |
६ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ||
६ ख
सञ्जय़ उवाच:
सर्वांश्च समरे राजन्किरीटी क्षत्रिय़र्षभान् |
७ क
सञ्जय़ उवाच:
परिचिक्षेप वीभत्सुः सर्वतः प्रक्षिपञ्शरान् ||
७ ख
सञ्जय़ उवाच:
कर्णश्च समरे राजन्व्यद्रावय़त पार्थिवान् |
८ क
सञ्जय़ उवाच:
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ||
८ ख
सञ्जय़ उवाच:
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः |
९ क
सञ्जय़ उवाच:
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ||
९ ख
सञ्जय़ उवाच:
ततस्तेऽप्याय़युर्हत्वा राक्षसान्यत्र सूतजः |
१० क
सञ्जय़ उवाच:
नकुलः सहदेवश्च सात्यकिश्च महारथः |
१० ख
सञ्जय़ उवाच:
ते कर्णं योधय़ामासुः पाञ्चाला द्रोणमेव च ||
१० ग
सञ्जय़ उवाच:
अलाय़ुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम् |
११ क
सञ्जय़ उवाच:
परिघेणातिकाय़ेन ताडय़ामास मूर्धनि ||
११ ख
सञ्जय़ उवाच:
स तु तेन प्रहारेण भैमसेनिर्महावलः |
१२ क
सञ्जय़ उवाच:
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भय़त वीर्यवान् ||
१२ ख
सञ्जय़ उवाच:
ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् |
१३ क
सञ्जय़ उवाच:
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ||
१३ ख
सञ्जय़ उवाच:
सा हय़ान्सारथिं चैव रथं चास्य महास्वना |
१४ क
सञ्जय़ उवाच:
चूर्णय़ामास वेगेन विसृष्टा भीमकर्मणा ||
१४ ख
सञ्जय़ उवाच:
स भग्नहय़चक्राक्षो विशीर्णध्वजकूवरः |
१५ क
सञ्जय़ उवाच:
उत्पपात रथात्तूर्णं माय़ामास्थाय़ राक्षसीम् ||
१५ ख
सञ्जय़ उवाच:
स समास्थाय़ माय़ां तु ववर्ष रुधिरं वहु |
१६ क
सञ्जय़ उवाच:
विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ||
१६ ख
सञ्जय़ उवाच:
ततो वज्रनिपाताश्च साशनिस्तनय़ित्नवः |
१७ क
सञ्जय़ उवाच:
महांश्चटचटाशव्दस्तत्रासीद्धि महाहवे ||
१७ ख
सञ्जय़ उवाच:
तां प्रेक्ष्य विहितां माय़ां राक्षसो राक्षसेन तु |
१८ क
सञ्जय़ उवाच:
ऊर्ध्वमुत्पत्य हैडिम्वस्तां माय़ां माय़यावधीत् ||
१८ ख
सञ्जय़ उवाच:
सोऽभिवीक्ष्य हतां माय़ां माय़ावी माय़यैव हि |
१९ क
सञ्जय़ उवाच:
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ||
१९ ख
सञ्जय़ उवाच:
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् |
२० क
सञ्जय़ उवाच:
दिशो विध्वंसय़ामास तदद्भुतमिवाभवत् ||
२० ख
सञ्जय़ उवाच:
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् |
२१ क
सञ्जय़ उवाच:
आय़सैः परिघैः शूलैर्गदामुसलमुद्गरैः ||
२१ ख
सञ्जय़ उवाच:
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः |
२२ क
सञ्जय़ उवाच:
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ||
२२ ख
सञ्जय़ उवाच:
अय़ोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि |
२३ क
सञ्जय़ उवाच:
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ||
२३ ख
सञ्जय़ उवाच:
शमीपीलुकरीरैश्च शम्याकैश्चैव भारत |
२४ क
सञ्जय़ उवाच:
इङ्गुदैर्वदरीभिश्च कोविदारैश्च पुष्पितैः ||
२४ ख
सञ्जय़ उवाच:
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः |
२५ क
सञ्जय़ उवाच:
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ||
२५ ख
सञ्जय़ उवाच:
विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः |
२६ क
सञ्जय़ उवाच:
तेषां शव्दो महानासीद्वज्राणां भिद्यतामिव ||
२६ ख
सञ्जय़ उवाच:
युद्धं तदभवद्घोरं भैम्यलाय़ुधय़ोर्नृप |
२७ क
सञ्जय़ उवाच:
हरीन्द्रय़ोर्यथा राजन्वालिसुग्रीवय़ोः पुरा ||
२७ ख
सञ्जय़ उवाच:
तौ युद्ध्वा विविधैर्घोरैराय़ुधैर्विशिखैस्तथा |
२८ क
सञ्जय़ उवाच:
प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ||
२८ ख
सञ्जय़ उवाच:
तावन्योन्यमभिद्रुत्य केशेषु सुमहावलौ |
२९ क
सञ्जय़ उवाच:
भुजाभ्यां पर्यगृह्णीतां महाकाय़ौ महावलौ ||
२९ ख
सञ्जय़ उवाच:
तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप |
३० क
सञ्जय़ उवाच:
रुधिरं च महाकाय़ावभिवृष्टाविवाचलौ ||
३० ख
सञ्जय़ उवाच:
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् |
३१ क
सञ्जय़ उवाच:
वलेनाक्षिप्य हैडिम्वश्चकर्तास्य शिरो महत् ||
३१ ख
सञ्जय़ उवाच:
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् |
३२ क
सञ्जय़ उवाच:
तदा सुतुमुलं नादं ननाद सुमहावलः ||
३२ ख
सञ्जय़ उवाच:
हतं दृष्ट्वा महाकाय़ं वकज्ञातिमरिन्दमम् |
३३ क
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ||
३३ ख
सञ्जय़ उवाच:
ततो भेरीसहस्राणि शङ्खानामय़ुतानि च |
३४ क
सञ्जय़ उवाच:
अवादय़न्पाण्डवेय़ास्तस्मिन्रक्षसि पातिते ||
३४ ख
सञ्जय़ उवाच:
अतीव सा निशा तेषां वभूव विजय़ावहा |
३५ क
सञ्जय़ उवाच:
विद्योतमाना विवभौ समन्ताद्दीपमालिनी ||
३५ ख
सञ्जय़ उवाच:
अलाय़ुधस्य तु शिरो भैमसेनिर्महावलः |
३६ क
सञ्जय़ उवाच:
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ||
३६ ख
सञ्जय़ उवाच:
अथ दुर्योधनो राजा दृष्ट्वा हतमलाय़ुधम् |
३७ क
सञ्जय़ उवाच:
वभूव परमोद्विग्नः सह सैन्येन भारत ||
३७ ख
सञ्जय़ उवाच:
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि |
३८ क
सञ्जय़ उवाच:
हन्तेति स्वय़मागम्य स्मरता वैरमुत्तमम् ||
३८ ख
सञ्जय़ उवाच:
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः |
३९ क
सञ्जय़ उवाच:
जीवितं चिरकालाय़ भ्रातॄणां चाप्यमन्यत ||
३९ ख
सञ्जय़ उवाच:
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै |
४० क
सञ्जय़ उवाच:
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ||
४० ख