chevron_left अनुशासन पर्व अध्याय १५४
वैशम्पाय़न उवाच:
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा |
१ क
वैशम्पाय़न उवाच:
तूष्णीं वभूव कौरव्यः स मुहूर्तमरिन्दम ||
१ ख
वैशम्पाय़न उवाच:
धारय़ामास चात्मानं धारणासु यथाक्रमम् |
२ क
वैशम्पाय़न उवाच:
तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ||
२ ख
वैशम्पाय़न उवाच:
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् |
३ क
वैशम्पाय़न उवाच:
यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा |
३ ख
वैशम्पाय़न उवाच:
तत्तद्विशल्यं भवति योगय़ुक्तस्य तस्य वै ||
३ ग
वैशम्पाय़न उवाच:
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा |
४ क
वैशम्पाय़न उवाच:
तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः |
४ ख
वैशम्पाय़न उवाच:
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ||
४ ग
वैशम्पाय़न उवाच:
संनिरुद्धस्तु तेनात्मा सर्वेष्वाय़तनेषु वै |
५ क
वैशम्पाय़न उवाच:
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ||
५ ख
वैशम्पाय़न उवाच:
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप |
६ क
वैशम्पाय़न उवाच:
निःसृत्याकाशमाविश्य क्षणेनान्तरधीय़त ||
६ ख
वैशम्पाय़न उवाच:
एवं स नृपशार्दूल नृपः शान्तनवस्तदा |
७ क
वैशम्पाय़न उवाच:
समय़ुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ||
७ ख
वैशम्पाय़न उवाच:
ततस्त्वादाय़ दारूणि गन्धांश्च विविधान्वहून् |
८ क
वैशम्पाय़न उवाच:
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा |
८ ख
वैशम्पाय़न उवाच:
युय़ुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ||
८ ग
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु गाङ्गेय़ं विदुरश्च महामतिः |
९ क
वैशम्पाय़न उवाच:
छादय़ामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ||
९ ख
वैशम्पाय़न उवाच:
धारय़ामास तस्याथ युय़ुत्सुश्छत्रमुत्तमम् |
१० क
वैशम्पाय़न उवाच:
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ |
१० ख
वैशम्पाय़न उवाच:
उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ||
१० ग
वैशम्पाय़न उवाच:
स्त्रिय़ः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् |
११ क
वैशम्पाय़न उवाच:
तालवृन्तान्युपादाय़ पर्यवीजन्समन्ततः ||
११ ख
वैशम्पाय़न उवाच:
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः |
१२ क
वैशम्पाय़न उवाच:
याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ||
१२ ख
वैशम्पाय़न उवाच:
ततश्चन्दनकाष्ठैश्च तथा कालेय़कैरपि |
१३ क
वैशम्पाय़न उवाच:
कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ||
१३ ख
वैशम्पाय़न उवाच:
समवच्छाद्य गाङ्गेय़ं प्रज्वाल्य च हुताशनम् |
१४ क
वैशम्पाय़न उवाच:
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ||
१४ ख
वैशम्पाय़न उवाच:
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेय़ं कुरुसत्तमाः |
१५ क
वैशम्पाय़न उवाच:
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ||
१५ ख
वैशम्पाय़न उवाच:
अनुगम्यमाना व्यासेन नारदेनासितेन च |
१६ क
वैशम्पाय़न उवाच:
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ||
१६ ख
वैशम्पाय़न उवाच:
उदकं चक्रिरे चैव गाङ्गेय़स्य महात्मनः |
१७ क
वैशम्पाय़न उवाच:
विधिवत्क्षत्रिय़श्रेष्ठाः स च सर्वो जनस्तदा ||
१७ ख
वैशम्पाय़न उवाच:
ततो भागीरथी देवी तनय़स्योदके कृते |
१८ क
वैशम्पाय़न उवाच:
उत्थाय़ सलिलात्तस्माद्रुदती शोकलालसा ||
१८ ख
वैशम्पाय़न उवाच:
परिदेवय़ती तत्र कौरवानभ्यभाषत |
१९ क
वैशम्पाय़न उवाच:
निवोधत यथावृत्तमुच्यमानं मय़ानघाः ||
१९ ख
वैशम्पाय़न उवाच:
राजवृत्तेन सम्पन्नः प्रज्ञय़ाभिजनेन च |
२० क
वैशम्पाय़न उवाच:
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ||
२० ख
वैशम्पाय़न उवाच:
जामदग्न्येन रामेण पुरा यो न पराजितः |
२१ क
वैशम्पाय़न उवाच:
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ||
२१ ख
वैशम्पाय़न उवाच:
अश्मसारमय़ं नूनं हृदय़ं मम पार्थिवाः |
२२ क
वैशम्पाय़न उवाच:
अपश्यन्त्याः प्रिय़ं पुत्रं यत्र दीर्यति मेऽद्य वै ||
२२ ख
वैशम्पाय़न उवाच:
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वय़ंवरे |
२३ क
वैशम्पाय़न उवाच:
विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ||
२३ ख
वैशम्पाय़न उवाच:
यस्य नास्ति वले तुल्यः पृथिव्यामपि कश्चन |
२४ क
वैशम्पाय़न उवाच:
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ||
२४ ख
वैशम्पाय़न उवाच:
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना |
२५ क
वैशम्पाय़न उवाच:
पीडितो नातिय़त्नेन निहतः स शिखण्डिना ||
२५ ख
वैशम्पाय़न उवाच:
एवंविधं वहु तदा विलपन्तीं महानदीम् |
२६ क
वैशम्पाय़न उवाच:
आश्वासय़ामास तदा साम्ना दामोदरो विभुः ||
२६ ख
वैशम्पाय़न उवाच:
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने |
२७ क
वैशम्पाय़न उवाच:
गतः स परमां सिद्धिं तव पुत्रो न संशय़ः ||
२७ ख
वैशम्पाय़न उवाच:
वसुरेष महातेजाः शापदोषेण शोभने |
२८ क
वैशम्पाय़न उवाच:
मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ||
२८ ख
वैशम्पाय़न उवाच:
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे |
२९ क
वैशम्पाय़न उवाच:
धनञ्जय़ेन निहतो नैष नुन्नः शिखण्डिना ||
२९ ख
वैशम्पाय़न उवाच:
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे |
३० क
वैशम्पाय़न उवाच:
न शक्तः संय़ुगे हन्तुं साक्षादपि शतक्रतुः ||
३० ख
वैशम्पाय़न उवाच:
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने |
३१ क
वैशम्पाय़न उवाच:
न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ||
३१ ख
वैशम्पाय़न उवाच:
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् |
३२ क
वैशम्पाय़न उवाच:
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ||
३२ ख
वैशम्पाय़न उवाच:
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा |
३३ क
वैशम्पाय़न उवाच:
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ||
३३ ख
वैशम्पाय़न उवाच:
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः |
३४ क
वैशम्पाय़न उवाच:
अनुज्ञातास्तय़ा सर्वे न्यवर्तन्त जनाधिपाः ||
३४ ख