सञ्जय़ उवाच:
निहत्यालाय़ुधं रक्षः प्रहृष्टात्मा घटोत्कचः |
१ क
सञ्जय़ उवाच:
ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ||
१ ख
सञ्जय़ उवाच:
तस्य तं तुमुलं शव्दं श्रुत्वा कुञ्जरकम्पनम् |
२ क
सञ्जय़ उवाच:
तावकानां महाराज भय़मासीत्सुदारुणम् ||
२ ख
सञ्जय़ उवाच:
अलाय़ुधविषक्तं तु भैमसेनिं महावलम् |
३ क
सञ्जय़ उवाच:
दृष्ट्वा कर्णो महावाहुः पाञ्चालान्समुपाद्रवत् ||
३ ख
सञ्जय़ उवाच:
दशभिर्दशभिर्वाणैर्धृष्टद्युम्नशिखण्डिनौ |
४ क
सञ्जय़ उवाच:
दृढैः पूर्णाय़तोत्सृष्टैर्विभेद नतपर्वभिः ||
४ ख
सञ्जय़ उवाच:
ततः परमनाराचैर्युधामन्यूत्तमौजसौ |
५ क
सञ्जय़ उवाच:
सात्यकिं च रथोदारं कम्पय़ामास मार्गणैः ||
५ ख
सञ्जय़ उवाच:
तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् |
६ क
सञ्जय़ उवाच:
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ||
६ ख
सञ्जय़ उवाच:
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह |
७ क
सञ्जय़ उवाच:
मेघानामिव घर्मान्ते वभूव तुमुलो निशि ||
७ ख
सञ्जय़ उवाच:
ज्यानेमिघोषस्तनय़ित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः |
८ क
सञ्जय़ उवाच:
शरौघवर्षाकुलवृष्टिमांश्च; सङ्ग्राममेघः स वभूव राजन् ||
८ ख
सञ्जय़ उवाच:
तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः |
९ क
सञ्जय़ उवाच:
विध्वंसय़ामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ||
९ ख
सञ्जय़ उवाच:
ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः |
१० क
सञ्जय़ उवाच:
शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते ||
१० ख
सञ्जय़ उवाच:
सञ्छिन्नभिन्नध्वजिनश्च के चि; त्केचिच्छरैरर्दितभिन्नदेहाः |
११ क
सञ्जय़ उवाच:
केचिद्विसूता विहय़ाश्च के चि; द्वैकर्तनेनाशु कृता वभूवुः ||
११ ख
सञ्जय़ उवाच:
अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते वलमन्वपद्यन् |
१२ क
सञ्जय़ उवाच:
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे ||
१२ ख
सञ्जय़ उवाच:
आस्थाय़ तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद |
१३ क
सञ्जय़ उवाच:
वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ||
१३ ख
सञ्जय़ उवाच:
तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः |
१४ क
सञ्जय़ उवाच:
वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् ||
१४ ख
सञ्जय़ उवाच:
तद्वाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज |
१५ क
सञ्जय़ उवाच:
सुवर्णपुङ्खज्वलितप्रभाभि; र्विचित्रपुष्पाभिरिव स्रजाभिः ||
१५ ख
सञ्जय़ उवाच:
समं हि तावप्रतिमप्रभावा; वन्योन्यमाजघ्नतुरुत्तमास्त्रैः |
१६ क
सञ्जय़ उवाच:
तय़ोर्हि वीरोत्तमय़ोर्न कश्चि; द्ददर्श तस्मिन्समरे विशेषम् ||
१६ ख
सञ्जय़ उवाच:
अतीव तच्चित्रमतीव रूपं; वभूव युद्धं रविभीमसून्वोः |
१७ क
सञ्जय़ उवाच:
समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ||
१७ ख
सञ्जय़ उवाच:
घटोत्कचो यदा कर्णं न विशेषय़ते नृप |
१८ क
सञ्जय़ उवाच:
तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ||
१८ ख
सञ्जय़ उवाच:
तेनास्त्रेण हय़ान्पूर्वं हत्वा कर्णस्य राक्षसः |
१९ क
सञ्जय़ उवाच:
सारथिं चैव हैडिम्वः क्षिप्रमन्तरधीय़त ||
१९ ख
धृतराष्ट्र उवाच:
तथा ह्यन्तर्हिते तस्मिन्कूटय़ोधिनि राक्षसे |
२० क
धृतराष्ट्र उवाच:
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय़ ||
२० ख
सञ्जय़ उवाच:
अन्तर्हितं राक्षसं तं विदित्वा; सम्प्राक्रोशन्कुरवः सर्व एव |
२१ क
सञ्जय़ उवाच:
कथं नाय़ं राक्षसः कूटय़ोधी; हन्यात्कर्णं समरेऽदृश्यमानः ||
२१ ख
सञ्जय़ उवाच:
ततः कर्णो लघुचित्रास्त्रय़ोधी; सर्वा दिशो व्यावृणोद्वाणजालैः |
२२ क
सञ्जय़ उवाच:
न वै किञ्चिद्व्यापतत्तत्र भूतं; तमोभूते साय़कैरन्तरिक्षे ||
२२ ख
सञ्जय़ उवाच:
न चाददानो न च सन्दधानो; न चेषुधी स्पृशमानः कराग्रैः |
२३ क
सञ्जय़ उवाच:
अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं वाणैश्छादय़ानोऽन्तरिक्षम् ||
२३ ख
सञ्जय़ उवाच:
ततो माय़ां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन |
२४ क
सञ्जय़ उवाच:
सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ||
२४ ख
सञ्जय़ उवाच:
ततस्तस्या विद्युतः प्रादुरास; न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र |
२५ क
सञ्जय़ उवाच:
घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् ||
२५ ख
सञ्जय़ उवाच:
ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्याय़ुधानि |
२६ क
सञ्जय़ उवाच:
परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ||
२६ ख
सञ्जय़ उवाच:
मय़ूखिनः परिघा लोहवद्धा; गदाश्चित्राः शितधाराश्च शूलाः |
२७ क
सञ्जय़ उवाच:
गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ||
२७ ख
सञ्जय़ उवाच:
महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनय़ः सवज्राः |
२८ क
सञ्जय़ उवाच:
चक्राणि चानेकशतक्षुराणि; प्रादुर्वभूवुर्ज्वलनप्रभाणि ||
२८ ख
सञ्जय़ उवाच:
तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् |
२९ क
सञ्जय़ उवाच:
वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ||
२९ ख
सञ्जय़ उवाच:
शराहतानां पततां हय़ानां; वज्राहतानां पततां गजानाम् |
३० क
सञ्जय़ उवाच:
शिलाहतानां च महारथानां; महान्निनादः पततां वभूव ||
३० ख
सञ्जय़ उवाच:
सुभीमनानाविधशस्त्रपातै; र्घटोत्कचेनाभिहतं समन्तात् |
३१ क
सञ्जय़ उवाच:
दौर्योधनं तद्वलमार्तरूप; मावर्तमानं ददृशे भ्रमन्तम् ||
३१ ख
सञ्जय़ उवाच:
हाहाकृतं सम्परिवर्तमानं; संलीय़मानं च विषण्णरूपम् |
३२ क
सञ्जय़ उवाच:
ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न वभूवुस्तदानीम् ||
३२ ख
सञ्जय़ उवाच:
तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमय़ीं पतन्तीम् |
३३ क
सञ्जय़ उवाच:
दृष्ट्वा वलौघांश्च निपात्यमाना; न्महद्भय़ं तव पुत्रान्विवेश ||
३३ ख
सञ्जय़ उवाच:
शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः |
३४ क
सञ्जय़ उवाच:
रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रय़ोधा व्यथिता वभूवुः ||
३४ ख
सञ्जय़ उवाच:
ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकाय़ाः |
३५ क
सञ्जय़ उवाच:
नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ||
३५ ख
सञ्जय़ उवाच:
तैराहतास्ते शरशक्तिशूलै; र्गदाभिरुग्रैः परिघैश्च दीप्तैः |
३६ क
सञ्जय़ उवाच:
वज्रैः पिनाकैरशनिप्रहारै; श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ||
३६ ख
सञ्जय़ उवाच:
हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णाय़सपट्टनद्धाः |
३७ क
सञ्जय़ उवाच:
अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् ||
३७ ख
सञ्जय़ उवाच:
निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; सम्भग्नाङ्गाः शेरते तत्र शूराः |
३८ क
सञ्जय़ उवाच:
भिन्ना हय़ाः कुञ्जराश्चावभग्नाः; सञ्चूर्णिताश्चैव रथाः शिलाभिः ||
३८ ख
सञ्जय़ उवाच:
एवं महच्छस्त्रवर्षं सृजन्त; स्ते यातुधाना भुवि घोररूपाः |
३९ क
सञ्जय़ उवाच:
माय़ाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ||
३९ ख
सञ्जय़ उवाच:
तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रिय़ाणामभावे |
४० क
सञ्जय़ उवाच:
ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ||
४० ख
सञ्जय़ उवाच:
पलाय़ध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे |
४१ क
सञ्जय़ उवाच:
तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्वभूव ||
४१ ख
सञ्जय़ उवाच:
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीय़माने कुरूणाम् |
४२ क
सञ्जय़ उवाच:
अनीकानां प्रविभागेऽप्रकाशे; न ज्ञाय़न्ते कुरवो नेतरे वा ||
४२ ख
सञ्जय़ उवाच:
निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः |
४३ क
सञ्जय़ उवाच:
तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् ||
४३ ख
सञ्जय़ उवाच:
ततो वाणैरावृणोदन्तरिक्षं; दिव्यां माय़ां योधय़न्राक्षसस्य |
४४ क
सञ्जय़ उवाच:
ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संय़ुगे सूतपुत्रः ||
४४ ख
सञ्जय़ उवाच:
ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा वाह्लिकाश्च |
४५ क
सञ्जय़ उवाच:
असंमोहं पूजय़न्तोऽस्य सङ्ख्ये; सम्पश्यन्तो विजय़ं राक्षसस्य ||
४५ ख
सञ्जय़ उवाच:
तेनोत्सृष्टा चक्रय़ुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान |
४६ क
सञ्जय़ उवाच:
ते जानुभिर्जगतीमन्वपद्य; न्गतासवो निर्दशनाक्षिजिह्वाः ||
४६ ख
सञ्जय़ उवाच:
ततो हताश्वादवरुह्य वाहा; दन्तर्मनाः कुरुषु प्राद्रवत्सु |
४७ क
सञ्जय़ उवाच:
दिव्ये चास्त्रे माय़या वध्यमाने; नैवामुह्यच्चिन्तय़न्प्राप्तकालम् ||
४७ ख
सञ्जय़ उवाच:
ततोऽव्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च माय़ाम् |
४८ क
सञ्जय़ उवाच:
शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ||
४८ ख
सञ्जय़ उवाच:
करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे |
४९ क
सञ्जय़ उवाच:
यो नः सङ्ग्रामाद्घोररूपाद्विमुच्ये; त्स नः पार्थान्समरे योधय़ेत ||
४९ ख
सञ्जय़ उवाच:
तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तय़ा वासवेन |
५० क
सञ्जय़ उवाच:
मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सय़ोधाः ||
५० ख