वैशम्पाय़न उवाच:
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ||
४८ ख
वैशम्पाय़न उवाच:
सरांसि च विचित्राणि प्रसन्नसलिलानि च |
४९ क
वैशम्पाय़न उवाच:
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः |
४९ ख
वैशम्पाय़न उवाच:
कह्लारैः कमलैश्चैव आचितानि समन्ततः ||
४९ ग
वैशम्पाय़न उवाच:
कदम्वैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः |
५० क
वैशम्पाय़न उवाच:
कारण्डवैः प्लवैर्हंसैर्वकैर्मद्गुभिरेव च |
५० ख
वैशम्पाय़न उवाच:
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ||
५० ग
वैशम्पाय़न उवाच:
हृष्टैस्तथा तामरसरसासवमदालसैः |
५१ क
वैशम्पाय़न उवाच:
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ||
५१ ख
वैशम्पाय़न उवाच:
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् |
५२ क
वैशम्पाय़न उवाच:
पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ||
५२ ख
वैशम्पाय़न उवाच:
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः |
५३ क
वैशम्पाय़न उवाच:
शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च |
५३ ख
वैशम्पाय़न उवाच:
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ||
५३ ग
वैशम्पाय़न उवाच:
कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम् |
५४ क
वैशम्पाय़न उवाच:
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् |
५४ ख
वैशम्पाय़न उवाच:
मय़ूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ||
५४ ग
वैशम्पाय़न उवाच:
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् |
५५ क
वैशम्पाय़न उवाच:
वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा ||
५५ ख
वैशम्पाय़न उवाच:
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि |
५६ क
वैशम्पाय़न उवाच:
कलापरचिताटोपान्विचित्रमुकुटानिव |
५६ ख
वैशम्पाय़न उवाच:
विवरेषु तरूणां च मुदितान्ददृशुश्च ते ||
५६ ग
वैशम्पाय़न उवाच:
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् |
५७ क
वैशम्पाय़न उवाच:
सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ||
५७ ख
वैशम्पाय़न उवाच:
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् |
५८ क
वैशम्पाय़न उवाच:
अथापश्यन्कुरवकान्वनराजिषु पुष्पितान् |
५८ ख
वैशम्पाय़न उवाच:
कामवश्योत्सुककरान्कामस्येव शरोत्करान् ||
५८ ग
वैशम्पाय़न उवाच:
तथैव वनराजीनामुदारान्रचितानिव |
५९ क
वैशम्पाय़न उवाच:
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ||
५९ ख
वैशम्पाय़न उवाच:
तथानङ्गशराकारान्सहकारान्मनोरमान् |
६० क
वैशम्पाय़न उवाच:
अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ||
६० ख
वैशम्पाय़न उवाच:
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि |
६१ क
वैशम्पाय़न उवाच:
लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ||
६१ ख
वैशम्पाय़न उवाच:
तथा शालांस्तमालांश्च पाटल्यो वकुलानि च |
६२ क
वैशम्पाय़न उवाच:
माला इव समासक्ताः शैलानां शिखरेषु च ||
६२ ख
वैशम्पाय़न उवाच:
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः |
६३ क
वैशम्पाय़न उवाच:
गजसङ्घसमावाधं सिंहव्याघ्रसमाय़ुतम् ||
६३ ख
वैशम्पाय़न उवाच:
शरभोन्नादसङ्घुष्टं नानारावनिनादितम् |
६४ क
वैशम्पाय़न उवाच:
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ||
६४ ख
वैशम्पाय़न उवाच:
पीता भास्वरवर्णाभा वभूवुर्वनराजय़ः |
६५ क
वैशम्पाय़न उवाच:
नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः |
६५ ख
वैशम्पाय़न उवाच:
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ||
६५ ग
वैशम्पाय़न उवाच:
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः |
६६ क
वैशम्पाय़न उवाच:
राजहंसैरुपेतानि सारसाभिरुतानि च |
६६ ख
वैशम्पाय़न उवाच:
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ||
६६ ग
वैशम्पाय़न उवाच:
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च |
६७ क
वैशम्पाय़न उवाच:
गन्धवन्ति च माल्यानि रसवन्ति फलानि च |
६७ ख
वैशम्पाय़न उवाच:
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ||
६७ ग
वैशम्पाय़न उवाच:
एते चान्ये च वहवस्तत्र काननजा द्रुमाः |
६८ क
वैशम्पाय़न उवाच:
लताश्च विविधाकाराः पत्रपुष्पफलोच्चय़ाः ||
६८ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे |
६९ क
वैशम्पाय़न उवाच:
भीमसेनमिदं वाक्यमव्रवीन्मधुराक्षरम् ||
६९ ख
वैशम्पाय़न उवाच:
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः |
७० क
वैशम्पाय़न उवाच:
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ||
७० ख
वैशम्पाय़न उवाच:
लताभिश्चैव वह्वीभिः पुष्पिताः पादपोत्तमाः |
७१ क
वैशम्पाय़न उवाच:
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ||
७१ ख
वैशम्पाय़न उवाच:
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् |
७२ क
वैशम्पाय़न उवाच:
नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ||
७२ ख
वैशम्पाय़न उवाच:
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः |
७३ क
वैशम्पाय़न उवाच:
पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ||
७३ ख
वैशम्पाय़न उवाच:
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः |
७४ क
वैशम्पाय़न उवाच:
परस्परमुदीक्षन्ते वहवो जीवजीवकाः ||
७४ ख
वैशम्पाय़न उवाच:
हरितारुणवर्णानां शाद्वलानां समन्ततः |
७५ क
वैशम्पाय़न उवाच:
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ||
७५ ख
वैशम्पाय़न उवाच:
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः |
७६ क
वैशम्पाय़न उवाच:
भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ||
७६ ख
वैशम्पाय़न उवाच:
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः |
७७ क
वैशम्पाय़न उवाच:
एते वैडूर्यवर्णाभं क्षोभय़न्ति महत्सरः ||
७७ ख
वैशम्पाय़न उवाच:
वहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः |
७८ क
वैशम्पाय़न उवाच:
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ||
७८ ख
वैशम्पाय़न उवाच:
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः |
७९ क
वैशम्पाय़न उवाच:
शोभय़न्ति महाशैलं नानारजतधातवः ||
७९ ख
वैशम्पाय़न उवाच:
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः |
८० क
वैशम्पाय़न उवाच:
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ||
८० ख
वैशम्पाय़न उवाच:
मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः |
८१ क
वैशम्पाय़न उवाच:
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ||
८१ ख
वैशम्पाय़न उवाच:
सितासिताभ्रप्रतिमा वालसूर्यसमप्रभाः |
८२ क
वैशम्पाय़न उवाच:
एते वहुविधाः शैलं शोभय़न्ति महाप्रभाः ||
८२ ख
वैशम्पाय़न उवाच:
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा |
८३ क
वैशम्पाय़न उवाच:
दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ||
८३ ख
वैशम्पाय़न उवाच:
गीतानां तलतालानां यथा साम्नां च निस्वनः |
८४ क
वैशम्पाय़न उवाच:
श्रूय़ते वहुधा भीम सर्वभूतमनोहरः ||
८४ ख
वैशम्पाय़न उवाच:
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् |
८५ क
वैशम्पाय़न उवाच:
कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ||
८५ ख
वैशम्पाय़न उवाच:
धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः |
८६ क
वैशम्पाय़न उवाच:
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ||
८६ ख
वैशम्पाय़न उवाच:
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः |
८७ क
वैशम्पाय़न उवाच:
उपेतं पश्य कौन्तेय़ शैलराजमरिन्दम ||
८७ ख
वैशम्पाय़न उवाच:
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् |
८८ क
वैशम्पाय़न उवाच:
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ||
८८ ख
वैशम्पाय़न उवाच:
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः |
८९ क
वैशम्पाय़न उवाच:
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ||
८९ ख
वैशम्पाय़न उवाच:
ततस्तं तीव्रतपसं कृशं धमनिसन्ततम् |
९० क
वैशम्पाय़न उवाच:
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ||
९० ख