chevron_left शान्ति पर्व अध्याय १५५
भीष्म उवाच:
सर्वमेतत्तपोमूलं कवय़ः परिचक्षते |
१ क
भीष्म उवाच:
न ह्यतप्ततपा मूढः क्रिय़ाफलमवाप्यते ||
१ ख
भीष्म उवाच:
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः |
२ क
भीष्म उवाच:
तथैव वेदानृषय़स्तपसा प्रतिपेदिरे ||
२ ख
भीष्म उवाच:
तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः |
३ क
भीष्म उवाच:
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ||
३ ख
भीष्म उवाच:
औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः |
४ क
भीष्म उवाच:
तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् ||
४ ख
भीष्म उवाच:
यद्दुरापं दुराम्नाय़ं दुराधर्षं दुरुत्सहम् |
५ क
भीष्म उवाच:
सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम् ||
५ ख
भीष्म उवाच:
सुरापोऽसंमतादाय़ी भ्रूणहा गुरुतल्पगः |
६ क
भीष्म उवाच:
तपसैव सुतप्तेन नरः पापाद्विमुच्यते ||
६ ख
भीष्म उवाच:
तपसो वहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः |
७ क
भीष्म उवाच:
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ||
७ ख
भीष्म उवाच:
अहिंसा सत्यवचनं दानमिन्द्रिय़निग्रहः |
८ क
भीष्म उवाच:
एतेभ्यो हि महाराज तपो नानशनात्परम् ||
८ ख
भीष्म उवाच:
न दुष्करतरं दानान्नातिमातरमाश्रमः |
९ क
भीष्म उवाच:
त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः ||
९ ख
भीष्म उवाच:
इन्द्रिय़ाणीह रक्षन्ति धनधान्याभिगुप्तय़े |
१० क
भीष्म उवाच:
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ||
१० ख
भीष्म उवाच:
ऋषय़ः पितरो देवा मनुष्या मृगसत्तमाः |
११ क
भीष्म उवाच:
यानि चान्यानि भूतानि स्थावराणि चराणि च ||
११ ख
भीष्म उवाच:
तपःपराय़णाः सर्वे सिध्यन्ति तपसा च ते |
१२ क
भीष्म उवाच:
इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् ||
१२ ख
भीष्म उवाच:
इमानीष्टविभागानि फलानि तपसा सदा |
१३ क
भीष्म उवाच:
तपसा शक्यते प्राप्तुं देवत्वमपि निश्चय़ात् ||
१३ ख