सञ्जय़ उवाच:
हैडिम्वं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् |
१ क
सञ्जय़ उवाच:
पाण्डवा दीनमनसः सर्वे वाष्पाकुलेक्षणाः ||
१ ख
सञ्जय़ उवाच:
वासुदेवस्तु हर्षेण महताभिपरिप्लुतः |
२ क
सञ्जय़ उवाच:
ननाद सिंहवन्नादं व्यथय़न्निव भारत |
२ ख
सञ्जय़ उवाच:
विनद्य च महानादं पर्यष्वजत फल्गुनम् ||
२ ग
सञ्जय़ उवाच:
स विनद्य महानादमभीशून्संनिय़म्य च |
३ क
सञ्जय़ उवाच:
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ||
३ ख
सञ्जय़ उवाच:
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् |
४ क
सञ्जय़ उवाच:
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ||
४ ख
सञ्जय़ उवाच:
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महावलम् |
५ क
सञ्जय़ उवाच:
अव्रवीदर्जुनो राजन्नातिहृष्टमना इव ||
५ ख
सञ्जय़ उवाच:
अतिहर्षोऽय़मस्थाने तवाद्य मधुसूदन |
६ क
सञ्जय़ उवाच:
शोकस्थाने परे प्राप्ते हैडिम्वस्य वधेन वै ||
६ ख
सञ्जय़ उवाच:
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् |
७ क
सञ्जय़ उवाच:
वय़ं च भृशमाविग्ना हैडिम्वस्य निपातनात् ||
७ ख
सञ्जय़ उवाच:
नैतत्कारणमल्पं हि भविष्यति जनार्दन |
८ क
सञ्जय़ उवाच:
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ||
८ ख
सञ्जय़ उवाच:
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम |
९ क
सञ्जय़ उवाच:
धैर्यस्य वैकृतं व्रूहि त्वमद्य मधुसूदन ||
९ ख
सञ्जय़ उवाच:
समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम् |
१० क
सञ्जय़ उवाच:
तथैतल्लाघवं मन्ये तव कर्म जनार्दन ||
१० ख
वासुदेव उवाच:
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय़ |
११ क
वासुदेव उवाच:
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ||
११ ख
वासुदेव उवाच:
शक्तिं घटोत्कचेनेमां व्यंसय़ित्वा महाद्युते |
१२ क
वासुदेव उवाच:
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय़ ||
१२ ख
वासुदेव उवाच:
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह |
१३ क
वासुदेव उवाच:
य एनमभितस्तिष्ठेत्कार्त्तिकेय़मिवाहवे ||
१३ ख
वासुदेव उवाच:
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः |
१४ क
वासुदेव उवाच:
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ||
१४ ख
वासुदेव उवाच:
यदि हि स्यात्सकवचस्तथैव च सकुण्डलः |
१५ क
वासुदेव उवाच:
सामरानपि लोकांस्त्रीनेकः कर्णो जय़ेद्वली ||
१५ ख
वासुदेव उवाच:
वासवो वा कुवेरो वा वरुणो वा जलेश्वरः |
१६ क
वासुदेव उवाच:
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ||
१६ ख
वासुदेव उवाच:
गाण्डीवमाय़म्य भवांश्चक्रं वाहं सुदर्शनम् |
१७ क
वासुदेव उवाच:
न शक्तौ स्वो रणे जेतुं तथाय़ुक्तं नरर्षभम् ||
१७ ख
वासुदेव उवाच:
त्वद्धितार्थं तु शक्रेण माय़या हृतकुण्डलः |
१८ क
वासुदेव उवाच:
विहीनकवचश्चाय़ं कृतः परपुरञ्जय़ः ||
१८ ख
वासुदेव उवाच:
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते |
१९ क
वासुदेव उवाच:
प्रादाच्छक्राय़ कर्णो वै तेन वैकर्तनः स्मृतः ||
१९ ख
वासुदेव उवाच:
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा |
२० क
वासुदेव उवाच:
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ||
२० ख
वासुदेव उवाच:
यदा प्रभृति कर्णाय़ शक्तिर्दत्ता महात्मना |
२१ क
वासुदेव उवाच:
वासवेन महावाहो प्राप्ता यासौ घटोत्कचे ||
२१ ख
वासुदेव उवाच:
कुण्डलाभ्यां निमाय़ाथ दिव्येन कवचेन च |
२२ क
वासुदेव उवाच:
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ||
२२ ख
वासुदेव उवाच:
एवं गतेऽपि शक्योऽय़ं हन्तुं नान्येन केनचित् |
२३ क
वासुदेव उवाच:
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ||
२३ ख
वासुदेव उवाच:
व्रह्मण्यः सत्यवादी च तपस्वी निय़तव्रतः |
२४ क
वासुदेव उवाच:
रिपुष्वपि दय़ावांश्च तस्मात्कर्णो वृषा स्मृतः ||
२४ ख
वासुदेव उवाच:
युद्धशौण्डो महावाहुर्नित्योद्यतशरासनः |
२५ क
वासुदेव उवाच:
केसरीव वने मर्दन्मत्तमातङ्गय़ूथपान् |
२५ ख
वासुदेव उवाच:
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ||
२५ ग
वासुदेव उवाच:
मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् |
२६ क
वासुदेव उवाच:
त्वदीय़ैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः |
२६ ख
वासुदेव उवाच:
शरजालसहस्रांशुः शरदीव दिवाकरः ||
२६ ग
वासुदेव उवाच:
तपान्ते तोय़दो यद्वच्छरधाराः क्षरत्यसौ |
२७ क
वासुदेव उवाच:
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् |
२७ ख
वासुदेव उवाच:
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तय़ा ||
२७ ग
वासुदेव उवाच:
एको हि योगोऽस्य भवेद्वधाय़; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् |
२८ क
वासुदेव उवाच:
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ||
२८ ख
वासुदेव उवाच:
जरासन्धश्चेदिराजो महात्मा; महावलश्चैकलव्यो निषादः |
२९ क
वासुदेव उवाच:
एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मय़ैव ||
२९ ख
वासुदेव उवाच:
अथापरे निहता राक्षसेन्द्रा; हिडिम्वकिर्मीरवकप्रधानाः |
३० क
वासुदेव उवाच:
अलाय़ुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ||
३० ख