chevron_left आदि पर्व अध्याय १५६
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु कौन्तेय़ाः शल्यविद्धा इवाभवन् |
१ क
वैशम्पाय़न उवाच:
सर्वे चास्वस्थमनसो वभूवुस्ते महारथाः ||
१ ख
वैशम्पाय़न उवाच:
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः |
२ क
वैशम्पाय़न उवाच:
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ||
२ ख
वैशम्पाय़न उवाच:
चिररात्रोषिताः स्मेह व्राह्मणस्य निवेशने |
३ क
वैशम्पाय़न उवाच:
रममाणाः पुरे रम्ये लव्धभैक्षा युधिष्ठिर ||
३ ख
वैशम्पाय़न उवाच:
यानीह रमणीय़ानि वनान्युपवनानि च |
४ क
वैशम्पाय़न उवाच:
सर्वाणि तानि दृष्टानि पुनः पुनररिन्दम ||
४ ख
वैशम्पाय़न उवाच:
पुनर्दृष्टानि तान्येव प्रीणय़न्ति न नस्तथा |
५ क
वैशम्पाय़न उवाच:
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ||
५ ख
वैशम्पाय़न उवाच:
ते वय़ं साधु पाञ्चालान्गच्छाम यदि मन्यसे |
६ क
वैशम्पाय़न उवाच:
अपूर्वदर्शनं तात रमणीय़ं भविष्यति ||
६ ख
वैशम्पाय़न उवाच:
सुभिक्षाश्चैव पाञ्चालाः श्रूय़न्ते शत्रुकर्शन |
७ क
वैशम्पाय़न उवाच:
यज्ञसेनश्च राजासौ व्रह्मण्य इति शुश्रुमः ||
७ ख
वैशम्पाय़न उवाच:
एकत्र चिरवासो हि क्षमो न च मतो मम |
८ क
वैशम्पाय़न उवाच:
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ||
८ ख
युधिष्ठिर उवाच:
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् |
९ क
युधिष्ठिर उवाच:
अनुजांस्तु न जानामि गच्छेय़ुर्नेति वा पुनः ||
९ ख
वैशम्पाय़न उवाच:
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा |
१० क
वैशम्पाय़न उवाच:
उवाच गमनं ते च तथेत्येवाव्रुवंस्तदा ||
१० ख
वैशम्पाय़न उवाच:
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह |
११ क
वैशम्पाय़न उवाच:
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ||
११ ख