युधिष्ठिर उवाच:
सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः |
१ क
युधिष्ठिर उवाच:
सत्यमिच्छाम्यहं श्रोतुं तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते |
२ क
युधिष्ठिर उवाच:
सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते ||
२ ख
भीष्म उवाच:
चातुर्वर्ण्यस्य धर्माणां सङ्करो न प्रशस्यते |
३ क
भीष्म उवाच:
अविकारितमं सत्यं सर्ववर्णेषु भारत ||
३ ख
भीष्म उवाच:
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः |
४ क
भीष्म उवाच:
सत्यमेव नमस्येत सत्यं हि परमा गतिः ||
४ ख
भीष्म उवाच:
सत्यं धर्मस्तपो योगः सत्यं व्रह्म सनातनम् |
५ क
भीष्म उवाच:
सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् ||
५ ख
भीष्म उवाच:
आचारानिह सत्यस्य यथावदनुपूर्वशः |
६ क
भीष्म उवाच:
लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् ||
६ ख
भीष्म उवाच:
प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि |
७ क
भीष्म उवाच:
सत्यं त्रय़ोदशविधं सर्वलोकेषु भारत ||
७ ख
भीष्म उवाच:
सत्यं च समता चैव दमश्चैव न संशय़ः |
८ क
भीष्म उवाच:
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूय़ता ||
८ ख
भीष्म उवाच:
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा |
९ क
भीष्म उवाच:
अहिंसा चैव राजेन्द्र सत्याकारास्त्रय़ोदश ||
९ ख
भीष्म उवाच:
सत्यं नामाव्ययं नित्यमविकारि तथैव च |
१० क
भीष्म उवाच:
सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ||
१० ख
भीष्म उवाच:
आत्मनीष्टे तथानिष्टे रिपौ च समता तथा |
११ क
भीष्म उवाच:
इच्छाद्वेषक्षय़ं प्राप्य कामक्रोधक्षय़ं तथा ||
११ ख
भीष्म उवाच:
दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च |
१२ क
भीष्म उवाच:
अभय़ं क्रोधशमनं ज्ञानेनैतदवाप्यते ||
१२ ख
भीष्म उवाच:
अमात्सर्यं वुधाः प्राहुर्दानं धर्मे च संय़मम् |
१३ क
भीष्म उवाच:
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ||
१३ ख
भीष्म उवाच:
अक्षमाय़ाः क्षमाय़ाश्च प्रिय़ाणीहाप्रिय़ाणि च |
१४ क
भीष्म उवाच:
क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् ||
१४ ख
भीष्म उवाच:
कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् |
१५ क
भीष्म उवाच:
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ||
१५ ख
भीष्म उवाच:
धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते |
१६ क
भीष्म उवाच:
लोकसङ्ग्रहणार्थं तु सा तु धैर्येण लभ्यते ||
१६ ख
भीष्म उवाच:
त्यागः स्नेहस्य यस्त्यागो विषय़ाणां तथैव च |
१७ क
भीष्म उवाच:
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ||
१७ ख
भीष्म उवाच:
आर्यता नाम भूतानां यः करोति प्रय़त्नतः |
१८ क
भीष्म उवाच:
शुभं कर्म निराकारो वीतरागत्वमेव च ||
१८ ख
भीष्म उवाच:
धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रिय़ाम् |
१९ क
भीष्म उवाच:
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ||
१९ ख
भीष्म उवाच:
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च |
२० क
भीष्म उवाच:
वीतहर्षभय़क्रोधो धृतिमाप्नोति पण्डितः ||
२० ख
भीष्म उवाच:
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |
२१ क
भीष्म उवाच:
अनुग्रहश्च दानं च सतां धर्मः सनातनः ||
२१ ख
भीष्म उवाच:
एते त्रय़ोदशाकाराः पृथक्सत्यैकलक्षणाः |
२२ क
भीष्म उवाच:
भजन्ते सत्यमेवेह वृंहय़न्ति च भारत ||
२२ ख
भीष्म उवाच:
नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत |
२३ क
भीष्म उवाच:
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ||
२३ ख
भीष्म उवाच:
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् |
२४ क
भीष्म उवाच:
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपय़ेत् ||
२४ ख
भीष्म उवाच:
उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः |
२५ क
भीष्म उवाच:
व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चय़ाः ||
२५ ख
भीष्म उवाच:
अश्वमेधसहस्रं च सत्यं च तुलय़ा धृतम् |
२६ क
भीष्म उवाच:
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ||
२६ ख