chevron_left वन पर्व अध्याय १५६
वैशम्पाय़न उवाच:
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्विषम् |
१ क
वैशम्पाय़न उवाच:
अभ्यवादय़त प्रीतः शिरसा नाम कीर्तय़न् ||
१ ख
वैशम्पाय़न उवाच:
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ |
२ क
वैशम्पाय़न उवाच:
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ||
२ ख
वैशम्पाय़न उवाच:
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः |
३ क
वैशम्पाय़न उवाच:
यथान्याय़मुपाक्रान्तस्तमृषिं संशितव्रतम् ||
३ ख
वैशम्पाय़न उवाच:
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा |
४ क
वैशम्पाय़न उवाच:
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
कुरूणामृषभं प्राज्ञं पूजय़ित्वा महातपाः |
५ क
वैशम्पाय़न उवाच:
सह भ्रातृभिरासीनं पर्यपृच्छदनामय़म् ||
५ ख
वैशम्पाय़न उवाच:
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे |
६ क
वैशम्पाय़न उवाच:
मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ||
६ ख
वैशम्पाय़न उवाच:
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः |
७ क
वैशम्पाय़न उवाच:
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ||
७ ख
वैशम्पाय़न उवाच:
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् |
८ क
वैशम्पाय़न उवाच:
यथान्याय़ं कुरुश्रेष्ठ जानासि न च कत्थसे ||
८ ख
वैशम्पाय़न उवाच:
यथार्हं मानिताः कच्चित्त्वय़ा नन्दन्ति साधवः |
९ क
वैशम्पाय़न उवाच:
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ||
९ ख
वैशम्पाय़न उवाच:
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते |
१० क
वैशम्पाय़न उवाच:
दानधर्मतपःशौचैरार्जवेन तितिक्षय़ा ||
१० ख
वैशम्पाय़न उवाच:
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे |
११ क
वैशम्पाय़न उवाच:
कच्चिद्राजर्षिय़ातेन पथा गच्छसि पाण्डव ||
११ ख
वैशम्पाय़न उवाच:
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः |
१२ क
वैशम्पाय़न उवाच:
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ||
१२ ख
वैशम्पाय़न उवाच:
किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति |
१३ क
वैशम्पाय़न उवाच:
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ||
१३ ख
वैशम्पाय़न उवाच:
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः |
१४ क
वैशम्पाय़न उवाच:
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ||
१४ ख
वैशम्पाय़न उवाच:
अव्भक्षा वाय़ुभक्षाश्च प्लवमाना विहाय़सा |
१५ क
वैशम्पाय़न उवाच:
जुषन्ते पर्वतश्रेष्ठमृषय़ः पर्वसन्धिषु ||
१५ ख
वैशम्पाय़न उवाच:
कामिनः सह कान्ताभिः परस्परमनुव्रताः |
१६ क
वैशम्पाय़न उवाच:
दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप ||
१६ ख
वैशम्पाय़न उवाच:
अरजांसि च वासांसि वसानाः कौशिकानि च |
१७ क
वैशम्पाय़न उवाच:
दृश्यन्ते वहवः पार्थ गन्धर्वाप्सरसां गणाः ||
१७ ख
वैशम्पाय़न उवाच:
विद्याधरगणाश्चैव स्रग्विणः प्रिय़दर्शनाः |
१८ क
वैशम्पाय़न उवाच:
महोरगगणाश्चैव सुपर्णाश्चोरगादय़ः ||
१८ ख
वैशम्पाय़न उवाच:
अस्य चोपरि शैलस्य श्रूय़ते पर्वसन्धिषु |
१९ क
वैशम्पाय़न उवाच:
भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ||
१९ ख
वैशम्पाय़न उवाच:
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः |
२० क
वैशम्पाय़न उवाच:
न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः ||
२० ख
वैशम्पाय़न उवाच:
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः |
२१ क
वैशम्पाय़न उवाच:
विहारो ह्यत्र देवानाममानुषगतिस्तु सा ||
२१ ख
वैशम्पाय़न उवाच:
ईषच्चपलकर्माणं मनुष्यमिह भारत |
२२ क
वैशम्पाय़न उवाच:
द्विषन्ति सर्वभूतानि ताडय़न्ति च राक्षसाः ||
२२ ख
वैशम्पाय़न उवाच:
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर |
२३ क
वैशम्पाय़न उवाच:
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ||
२३ ख
वैशम्पाय़न उवाच:
चापलादिह गच्छन्तं पार्थ यानमतः परम् |
२४ क
वैशम्पाय़न उवाच:
अय़ःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ||
२४ ख
वैशम्पाय़न उवाच:
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः |
२५ क
वैशम्पाय़न उवाच:
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ||
२५ ख
वैशम्पाय़न उवाच:
शिखरे तं समासीनमधिपं सर्वरक्षसाम् |
२६ क
वैशम्पाय़न उवाच:
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ||
२६ ख
वैशम्पाय़न उवाच:
देवदानवसिद्धानां तथा वैश्रवणस्य च |
२७ क
वैशम्पाय़न उवाच:
गिरेः शिखरमुद्यानमिदं भरतसत्तम ||
२७ ख
वैशम्पाय़न उवाच:
उपासीनस्य धनदं तुम्वुरोः पर्वसन्धिषु |
२८ क
वैशम्पाय़न उवाच:
गीतसामस्वनस्तात श्रूय़ते गन्धमादने ||
२८ ख
वैशम्पाय़न उवाच:
एतदेवंविधं चित्रमिह तात युधिष्ठिर |
२९ क
वैशम्पाय़न उवाच:
प्रेक्षन्ते सर्वभूतानि वहुशः पर्वसन्धिषु ||
२९ ख
वैशम्पाय़न उवाच:
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च |
३० क
वैशम्पाय़न उवाच:
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ||
३० ख
वैशम्पाय़न उवाच:
न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन |
३१ क
वैशम्पाय़न उवाच:
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च |
३१ ख
वैशम्पाय़न उवाच:
ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालय़िष्यसि ||
३१ ग