chevron_left उद्योग पर्व अध्याय १५६
जनमेजय़ उवाच:
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ |
१ क
जनमेजय़ उवाच:
किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ||
१ ख
वैशम्पाय़न उवाच:
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ |
२ क
वैशम्पाय़न उवाच:
धृतराष्ट्रो महाराज सञ्जय़ं वाक्यमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
एहि सञ्जय़ मे सर्वमाचक्ष्वानवशेषतः |
३ क
वैशम्पाय़न उवाच:
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनय़ोः ||
३ ख
वैशम्पाय़न उवाच:
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् |
४ क
वैशम्पाय़न उवाच:
यदहं जानमानोऽपि युद्धदोषान्क्षय़ोदय़ान् ||
४ ख
वैशम्पाय़न उवाच:
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् |
५ क
वैशम्पाय़न उवाच:
न शक्नोमि निय़न्तुं वा कर्तुं वा हितमात्मनः ||
५ ख
वैशम्पाय़न उवाच:
भवत्येव हि मे सूत वुद्धिर्दोषानुदर्शिनी |
६ क
वैशम्पाय़न उवाच:
दुर्योधनं समासाद्य पुनः सा परिवर्तते ||
६ ख
वैशम्पाय़न उवाच:
एवं गते वै यद्भावि तद्भविष्यति सञ्जय़ |
७ क
वैशम्पाय़न उवाच:
क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ||
७ ख
सञ्जय़ उवाच:
त्वद्युक्तोऽय़मनुप्रश्नो महाराज यथार्हसि |
८ क
सञ्जय़ उवाच:
न तु दुर्योधने दोषमिममासक्तुमर्हसि |
८ ख
सञ्जय़ उवाच:
शृणुष्वानवशेषेण वदतो मम पार्थिव ||
८ ग
सञ्जय़ उवाच:
य आत्मनो दुश्चरितादशुभं प्राप्नुय़ान्नरः |
९ क
सञ्जय़ उवाच:
एनसा न स दैवं वा कालं वा गन्तुमर्हति ||
९ ख
सञ्जय़ उवाच:
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |
१० क
सञ्जय़ उवाच:
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||
१० ख
सञ्जय़ उवाच:
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षय़ा |
११ क
सञ्जय़ उवाच:
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ||
११ ख
सञ्जय़ उवाच:
हय़ानां च गजानां च राज्ञां चामिततेजसाम् |
१२ क
सञ्जय़ उवाच:
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ||
१२ ख
सञ्जय़ उवाच:
स्थिरो भूत्वा महाराज सर्वलोकक्षय़ोदय़म् |
१३ क
सञ्जय़ उवाच:
यथाभूतं महाय़ुद्धे श्रुत्वा मा विमना भव ||
१३ ख
सञ्जय़ उवाच:
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापय़ोः |
१४ क
सञ्जय़ उवाच:
अस्वतन्त्रो हि पुरुषः कार्यते दारुय़न्त्रवत् ||
१४ ख
सञ्जय़ उवाच:
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छय़ा |
१५ क
सञ्जय़ उवाच:
पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ||
१५ ख