chevron_left द्रोण पर्व अध्याय १५६
अर्जुन उवाच:
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन |
१ क
अर्जुन उवाच:
जरासन्धप्रभृतय़ो घातिताः पृथिवीष्वराः ||
१ ख
वासुदेव उवाच:
जरासन्धश्चेदिराजो नैषादिश्च महावलः |
२ क
वासुदेव उवाच:
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भय़ङ्कराः ||
२ ख
वासुदेव उवाच:
सुय़ोधनस्तानवश्यं वृणुय़ाद्रथसत्तमान् |
३ क
वासुदेव उवाच:
तेऽस्माभिर्नित्यसन्दुष्टाः संश्रय़ेय़ुश्च कौरवान् ||
३ ख
वासुदेव उवाच:
ते हि वीरा महात्मानः कृतास्त्रा दृढय़ोधिनः |
४ क
वासुदेव उवाच:
धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेय़ुरमरा इव ||
४ ख
वासुदेव उवाच:
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः |
५ क
वासुदेव उवाच:
सुय़ोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ||
५ ख
वासुदेव उवाच:
योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय़ |
६ क
वासुदेव उवाच:
अजय़्या हि विना योगैर्मृधे ते दैवतैरपि ||
६ ख
वासुदेव उवाच:
एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् |
७ क
वासुदेव उवाच:
योधय़ेत्समरे पार्थ लोकपालाभिरक्षिताम् ||
७ ख
वासुदेव उवाच:
जरासन्धो हि रुषितो रौहिणेय़प्रधर्षितः |
८ क
वासुदेव उवाच:
अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ||
८ ख
वासुदेव उवाच:
सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् |
९ क
वासुदेव उवाच:
व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ||
९ ख
वासुदेव उवाच:
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः |
१० क
वासुदेव उवाच:
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ||
१० ख
वासुदेव उवाच:
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि |
११ क
वासुदेव उवाच:
दारय़न्ती धरां देवीं कम्पय़न्तीव पर्वतान् ||
११ ख
वासुदेव उवाच:
तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा |
१२ क
वासुदेव उवाच:
सन्धय़ामास तं जातं जरासन्धमरिन्दमम् ||
१२ ख
वासुदेव उवाच:
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् |
१३ क
वासुदेव उवाच:
तय़ा स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ||
१३ ख
वासुदेव उवाच:
सा तु भूमिगता पार्थ हता ससुतवान्धवा |
१४ क
वासुदेव उवाच:
गदय़ा तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ||
१४ ख
वासुदेव उवाच:
विनाभूतः स गदय़ा जरासन्धो महामृधे |
१५ क
वासुदेव उवाच:
निहतो भीमसेनेन पश्यतस्ते धनञ्जय़ ||
१५ ख
वासुदेव उवाच:
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् |
१६ क
वासुदेव उवाच:
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ||
१६ ख
वासुदेव उवाच:
त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन विय़ोजितः |
१७ क
वासुदेव उवाच:
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ||
१७ ख
वासुदेव उवाच:
स तु वद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः |
१८ क
वासुदेव उवाच:
अस्यन्नेको वनचरो वभौ राम इवापरः ||
१८ ख
वासुदेव उवाच:
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः |
१९ क
वासुदेव उवाच:
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ||
१९ ख
वासुदेव उवाच:
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् |
२० क
वासुदेव उवाच:
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ||
२० ख
वासुदेव उवाच:
त्वद्धितार्थं तु स मय़ा हतः सङ्ग्राममूर्धनि |
२१ क
वासुदेव उवाच:
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ||
२१ ख
वासुदेव उवाच:
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः |
२२ क
वासुदेव उवाच:
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ||
२२ ख
वासुदेव उवाच:
त्वत्सहाय़ो नरव्याघ्र लोकानां हितकाम्यया |
२३ क
वासुदेव उवाच:
हिडिम्ववककिर्मीरा भीमसेनेन पातिताः |
२३ ख
वासुदेव उवाच:
रावणेन समप्राणा व्रह्मय़ज्ञविनाशनाः ||
२३ ग
वासुदेव उवाच:
हतस्तथैव माय़ावी हैडिम्वेनाप्यलाय़ुधः |
२४ क
वासुदेव उवाच:
हैडिम्वश्चाप्युपाय़ेन शक्त्या कर्णेन घातितः ||
२४ ख
वासुदेव उवाच:
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे |
२५ क
वासुदेव उवाच:
मय़ा वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ||
२५ ख
वासुदेव उवाच:
मय़ा न निहतः पूर्वमेष युष्मत्प्रिय़ेप्सय़ा |
२६ क
वासुदेव उवाच:
एष हि व्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ||
२६ ख
वासुदेव उवाच:
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः |
२७ क
वासुदेव उवाच:
व्यंसिता चाप्युपाय़ेन शक्रदत्ता मय़ानघ ||
२७ ख
वासुदेव उवाच:
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव |
२८ क
वासुदेव उवाच:
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ||
२८ ख
वासुदेव उवाच:
व्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा |
२९ क
वासुदेव उवाच:
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ||
२९ ख
वासुदेव उवाच:
न विषादस्त्वय़ा कार्यः कर्णं वैकर्तनं प्रति |
३० क
वासुदेव उवाच:
उपदेक्ष्याम्युपाय़ं ते येन तं प्रसहिष्यसि ||
३० ख
वासुदेव उवाच:
सुय़ोधनं चापि रणे हनिष्यति वृकोदरः |
३१ क
वासुदेव उवाच:
तस्य चापि वधोपाय़ं वक्ष्यामि तव पाण्डव ||
३१ ख
वासुदेव उवाच:
वर्धते तुमुलस्त्वेष शव्दः परचमूं प्रति |
३२ क
वासुदेव उवाच:
विद्रवन्ति च सैन्यानि त्वदीय़ानि दिशो दश ||
३२ ख
वासुदेव उवाच:
लव्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव |
३३ क
वासुदेव उवाच:
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ||
३३ ख