chevron_left आदि पर्व अध्याय १५७
वैशम्पाय़न उवाच:
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु |
१ क
वैशम्पाय़न उवाच:
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ||
१ ख
वैशम्पाय़न उवाच:
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः |
२ क
वैशम्पाय़न उवाच:
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलय़स्तदा ||
२ ख
वैशम्पाय़न उवाच:
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरव्रवीत् |
३ क
वैशम्पाय़न उवाच:
प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ||
३ ख
वैशम्पाय़न उवाच:
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः |
४ क
वैशम्पाय़न उवाच:
अपि विप्रेषु वः पूजा पूजार्हेषु न हीय़ते ||
४ ख
वैशम्पाय़न उवाच:
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः |
५ क
वैशम्पाय़न उवाच:
विचित्राश्च कथास्तास्ताः पुनरेवेदमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
आसीत्तपोवने काचिदृषेः कन्या महात्मनः |
६ क
वैशम्पाय़न उवाच:
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ||
६ ख
वैशम्पाय़न उवाच:
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत |
७ क
वैशम्पाय़न उवाच:
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||
७ ख
वैशम्पाय़न उवाच:
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः |
८ क
वैशम्पाय़न उवाच:
तोषय़ामास तपसा सा किलोग्रेण शङ्करम् ||
८ ख
वैशम्पाय़न उवाच:
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् |
९ क
वैशम्पाय़न उवाच:
वरं वरय़ भद्रं ते वरदोऽस्मीति भामिनि ||
९ ख
वैशम्पाय़न उवाच:
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् |
१० क
वैशम्पाय़न उवाच:
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||
१० ख
वैशम्पाय़न उवाच:
तामथ प्रत्युवाचेदमीशानो वदतां वरः |
११ क
वैशम्पाय़न उवाच:
पञ्च ते पतय़ो भद्रे भविष्यन्तीति शङ्करः ||
११ ख
वैशम्पाय़न उवाच:
प्रतिव्रुवन्तीमेकं मे पतिं देहीति शङ्करम् |
१२ क
वैशम्पाय़न उवाच:
पुनरेवाव्रवीद्देव इदं वचनमुत्तमम् ||
१२ ख
वैशम्पाय़न उवाच:
पञ्चकृत्वस्त्वय़ा उक्तः पतिं देहीत्यहं पुनः |
१३ क
वैशम्पाय़न उवाच:
देहमन्यं गताय़ास्ते यथोक्तं तद्भविष्यति ||
१३ ख
वैशम्पाय़न उवाच:
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी |
१४ क
वैशम्पाय़न उवाच:
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ||
१४ ख
वैशम्पाय़न उवाच:
पाञ्चालनगरं तस्मात्प्रविशध्वं महावलाः |
१५ क
वैशम्पाय़न उवाच:
सुखिनस्तामनुप्राप्य भविष्यथ न संशय़ः ||
१५ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा महाभागः पाण्डवानां पितामहः |
१६ क
वैशम्पाय़न उवाच:
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ||
१६ ख