chevron_left उद्योग पर्व अध्याय १५७
सञ्जय़ उवाच:
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु |
१ क
सञ्जय़ उवाच:
दुर्योधनो महाराज कर्णेन सह भारत ||
१ ख
सञ्जय़ उवाच:
सौवलेन च राजेन्द्र तथा दुःशासनेन च |
२ क
सञ्जय़ उवाच:
आहूय़ोपह्वरे राजन्नुलूकमिदमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् |
३ क
सञ्जय़ उवाच:
गत्वा मम वचो व्रूहि वासुदेवस्य शृण्वतः ||
३ ख
सञ्जय़ उवाच:
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् |
४ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च युद्धं लोकभय़ङ्करम् ||
४ ख
सञ्जय़ उवाच:
यदेतत्कत्थनावाक्यं सञ्जय़ो महदव्रवीत् |
५ क
सञ्जय़ उवाच:
मध्ये कुरूणां कौन्तेय़ तस्य कालोऽय़मागतः |
५ ख
सञ्जय़ उवाच:
यथा वः सम्प्रतिज्ञातं तत्सर्वं क्रिय़तामिति ||
५ ग
सञ्जय़ उवाच:
अमर्षं राज्यहरणं वनवासं च पाण्डव |
६ क
सञ्जय़ उवाच:
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||
६ ख
सञ्जय़ उवाच:
यदर्थं क्षत्रिय़ा सूते गर्भं तदिदमागतम् |
७ क
सञ्जय़ उवाच:
वलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् |
७ ख
सञ्जय़ उवाच:
पौरुषं दर्शय़न्युद्धे कोपस्य कुरु निष्कृतिम् ||
७ ग
सञ्जय़ उवाच:
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च |
८ क
सञ्जय़ उवाच:
न स्फुटेद्धृदय़ं कस्य ऐश्वर्याद्भ्रंशितस्य च ||
८ ख
सञ्जय़ उवाच:
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः |
९ क
सञ्जय़ उवाच:
आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपय़ेत् ||
९ ख
सञ्जय़ उवाच:
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् |
१० क
सञ्जय़ उवाच:
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ||
१० ख
सञ्जय़ उवाच:
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः |
११ क
सञ्जय़ उवाच:
द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ||
११ ख
सञ्जय़ उवाच:
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |
१२ क
सञ्जय़ उवाच:
अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि ||
१२ ख
सञ्जय़ उवाच:
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव |
१३ क
सञ्जय़ उवाच:
कृष्णाय़ाश्च परिक्लेशं संस्मरन्पुरुषो भव ||
१३ ख
सञ्जय़ उवाच:
अप्रिय़ाणां च वचने प्रव्रजत्सु पुनः पुनः |
१४ क
सञ्जय़ उवाच:
अमर्षं दर्शय़ाद्य त्वममर्षो ह्येव पौरुषम् ||
१४ ख
सञ्जय़ उवाच:
क्रोधो वलं तथा वीर्यं ज्ञानय़ोगोऽस्त्रलाघवम् |
१५ क
सञ्जय़ उवाच:
इह ते पार्थ दृश्यन्तां सङ्ग्रामे पुरुषो भव ||
१५ ख
सञ्जय़ उवाच:
तं च तूवरकं मूढं वह्वाशिनमविद्यकम् |
१६ क
सञ्जय़ उवाच:
उलूक मद्वचो व्रूय़ा असकृद्भीमसेनकम् ||
१६ ख
सञ्जय़ उवाच:
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर |
१७ क
सञ्जय़ उवाच:
दुःशासनस्य रुधिरं पीय़तां यदि शक्यते ||
१७ ख
सञ्जय़ उवाच:
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |
१८ क
सञ्जय़ उवाच:
पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः ||
१८ ख