धृतराष्ट्र उवाच:
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा |
१ क
धृतराष्ट्र उवाच:
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ||
१ ख
धृतराष्ट्र उवाच:
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जय़ाः |
२ क
धृतराष्ट्र उवाच:
एकवीरवधे कस्मान्न युद्धे जय़मादधत् ||
२ ख
धृतराष्ट्र उवाच:
आहूतो न निवर्तेय़मिति तस्य महाव्रतम् |
३ क
धृतराष्ट्र उवाच:
स्वय़माह्वय़ितव्यः स सूतपुत्रेण फल्गुनः ||
३ ख
धृतराष्ट्र उवाच:
ततो द्वैरथमानीय़ फल्गुनं शक्रदत्तय़ा |
४ क
धृतराष्ट्र उवाच:
न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय़ ||
४ ख
धृतराष्ट्र उवाच:
नूनं वुद्धिविहीनश्चाप्यसहाय़श्च मे सुतः |
५ क
धृतराष्ट्र उवाच:
शत्रुभिर्व्यंसितोपाय़ः कथं नु स जय़ेदरीन् ||
५ ख
धृतराष्ट्र उवाच:
या ह्यस्य परमा शक्तिर्जय़स्य च पराय़णम् |
६ क
धृतराष्ट्र उवाच:
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ||
६ ख
धृतराष्ट्र उवाच:
कुणेर्यथा हस्तगतं ह्रिय़ेद्विल्वं वलीय़सा |
७ क
धृतराष्ट्र उवाच:
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ||
७ ख
धृतराष्ट्र उवाच:
यथा वराहस्य शुनश्च युध्यतो; स्तय़ोरभावे श्वपचस्य लाभः |
८ क
धृतराष्ट्र उवाच:
मन्ये विद्वन्वासुदेवस्य तद्व; द्युद्धे लाभः कर्णहैडिम्वय़ोर्वै ||
८ ख
धृतराष्ट्र उवाच:
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम् |
९ क
धृतराष्ट्र उवाच:
वैकर्तनो वा यदि तं निहन्या; त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ||
९ ख
धृतराष्ट्र उवाच:
इति प्राज्ञः प्रज्ञय़ैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे |
१० क
धृतराष्ट्र उवाच:
अय़ोधय़द्वासुदेवो नृसिंहः; प्रिय़ं कुर्वन्पाण्डवानां हितं च ||
१० ख
सञ्जय़ उवाच:
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप |
११ क
सञ्जय़ उवाच:
निय़ोजय़ामास तदा द्वैरथे राक्षसेश्वरम् ||
११ ख
सञ्जय़ उवाच:
घटोत्कचं महावीर्यं महावुद्धिर्जनार्दनः |
१२ क
सञ्जय़ उवाच:
अमोघाय़ा विघातार्थं राजन्दुर्मन्त्रिते तव ||
१२ ख
सञ्जय़ उवाच:
तदैव कृतकार्या हि वय़ं स्याम कुरूद्वह |
१३ क
सञ्जय़ उवाच:
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ||
१३ ख
सञ्जय़ उवाच:
साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि |
१४ क
सञ्जय़ उवाच:
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ||
१४ ख
सञ्जय़ उवाच:
तैस्तैरुपाय़ैर्वहुभी रक्ष्यमाणः स पार्थिव |
१५ क
सञ्जय़ उवाच:
जय़त्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ||
१५ ख
सञ्जय़ उवाच:
सविशेषं त्वमोघाय़ाः कृष्णोऽरक्षत पाण्डवम् |
१६ क
सञ्जय़ उवाच:
हन्यात्क्षिप्ता हि कौन्तेय़ं शक्तिर्वृक्षमिवाशनिः ||
१६ ख
धृतराष्ट्र उवाच:
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः |
१७ क
धृतराष्ट्र उवाच:
यस्यैष समतिक्रान्तो वधोपाय़ो जय़ं प्रति ||
१७ ख
धृतराष्ट्र उवाच:
तवापि समतिक्रान्तमेतद्गावल्गणे कथम् |
१८ क
धृतराष्ट्र उवाच:
एतमर्थं महावुद्धे यत्त्वय़ा नाववोधितः ||
१८ ख
सञ्जय़ उवाच:
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च |
१९ क
सञ्जय़ उवाच:
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ||
१९ ख
सञ्जय़ उवाच:
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जय़म् |
२० क
सञ्जय़ उवाच:
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ||
२० ख
सञ्जय़ उवाच:
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः |
२१ क
सञ्जय़ उवाच:
स्थापय़ेद्युधि वार्ष्णेय़स्तस्मात्कृष्णो निपात्यताम् ||
२१ ख
सञ्जय़ उवाच:
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः |
२२ क
सञ्जय़ उवाच:
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ||
२२ ख
सञ्जय़ उवाच:
कृष्णाश्रय़ाः कृष्णवलाः कृष्णनाथाश्च पाण्डवाः |
२३ क
सञ्जय़ उवाच:
कृष्णः पराय़णं चैषां ज्योतिषामिव चन्द्रमाः ||
२३ ख
सञ्जय़ उवाच:
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज |
२४ क
सञ्जय़ उवाच:
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ||
२४ ख
सञ्जय़ उवाच:
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् |
२५ क
सञ्जय़ उवाच:
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशय़ः ||
२५ ख
सञ्जय़ उवाच:
यदि हि स निहतः शय़ीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा |
२६ क
सञ्जय़ उवाच:
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ||
२६ ख
सञ्जय़ उवाच:
सा तु वुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे |
२७ क
सञ्जय़ उवाच:
अप्रमेय़े हृषीकेशे युद्धकाले व्यमुह्यत ||
२७ ख
सञ्जय़ उवाच:
अर्जुनं चापि कौन्तेय़ं सदा रक्षति केशवः |
२८ क
सञ्जय़ उवाच:
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापय़ितुं रणे ||
२८ ख
सञ्जय़ उवाच:
अन्यांश्चास्मै रथोदारानुपस्थापय़दच्युतः |
२९ क
सञ्जय़ उवाच:
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ||
२९ ख
सञ्जय़ उवाच:
ततः कृष्णं महावाहुः सात्यकिः सत्यविक्रमः |
३० क
सञ्जय़ उवाच:
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ||
३० ख
सञ्जय़ उवाच:
अय़ं च प्रत्ययः कर्णे शक्त्या चामितविक्रम |
३१ क
सञ्जय़ उवाच:
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ||
३१ ख
वासुदेव उवाच:
दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः |
३२ क
वासुदेव उवाच:
सततं मन्त्रय़न्ति स्म दुर्योधनपुरोगमाः ||
३२ ख
वासुदेव उवाच:
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम |
३३ क
वासुदेव उवाच:
नान्यस्य शक्तिरेषा ते मोक्तव्या जय़तां वर ||
३३ ख
वासुदेव उवाच:
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जय़ात् |
३४ क
वासुदेव उवाच:
स हि तेषामतिय़शा देवानामिव वासवः ||
३४ ख
वासुदेव उवाच:
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जय़ैः सह |
३५ क
वासुदेव उवाच:
भविष्यन्ति गतात्मानः सुरा इव निरग्नय़ः ||
३५ ख
वासुदेव उवाच:
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव |
३६ क
वासुदेव उवाच:
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ||
३६ ख
वासुदेव उवाच:
अहमेव तु राधेय़ं मोहय़ामि युधां वर |
३७ क
वासुदेव उवाच:
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ||
३७ ख
वासुदेव उवाच:
फल्गुनस्य हि तां मृत्युमवगम्य युय़ुत्सतः |
३८ क
वासुदेव उवाच:
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ||
३८ ख
वासुदेव उवाच:
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव |
३९ क
वासुदेव उवाच:
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जय़म् ||
३९ ख
वासुदेव उवाच:
न पिता न च मे माता न यूय़ं भ्रातरस्तथा |
४० क
वासुदेव उवाच:
न च प्राणास्तथा रक्ष्या यथा वीभत्सुराहवे ||
४० ख
वासुदेव उवाच:
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् |
४१ क
वासुदेव उवाच:
नेच्छेय़ं सात्वताहं तद्विना पार्थं धनञ्जय़म् ||
४१ ख
वासुदेव उवाच:
अतः प्रहर्षः सुमहान्युय़ुधानाद्य मेऽभवत् |
४२ क
वासुदेव उवाच:
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जय़म् ||
४२ ख
वासुदेव उवाच:
अतश्च प्रहितो युद्धे मय़ा कर्णाय़ राक्षसः |
४३ क
वासुदेव उवाच:
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रवाधितुम् ||
४३ ख
सञ्जय़ उवाच:
इति सात्यकय़े प्राह तदा देवकिनन्दनः |
४४ क
सञ्जय़ उवाच:
धनञ्जय़हिते युक्तस्तत्प्रिय़े सततं रतः ||
४४ ख