धृतराष्ट्र उवाच:
कर्णदुर्योधनादीनां शकुनेः सौवलस्य च |
१ क
धृतराष्ट्र उवाच:
अपनीतं महत्तात तव चैव विशेषतः ||
१ ख
धृतराष्ट्र उवाच:
यदाजानीत तां शक्तिमेकघ्नीं सततं रणे |
२ क
धृतराष्ट्र उवाच:
अनिवार्यामसह्यां च देवैरपि सवासवैः ||
२ ख
धृतराष्ट्र उवाच:
सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा |
३ क
धृतराष्ट्र उवाच:
न देवकीसुते मुक्ता फल्गुने वापि सञ्जय़ ||
३ ख
सञ्जय़ उवाच:
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते |
४ क
सञ्जय़ उवाच:
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽय़ं समजाय़त ||
४ ख
सञ्जय़ उवाच:
प्रभातमात्रे श्वोभूते केशवाय़ार्जुनाय़ वा |
५ क
सञ्जय़ उवाच:
शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ||
५ ख
सञ्जय़ उवाच:
ततः प्रभातसमय़े राजन्कर्णस्य दैवतैः |
६ क
सञ्जय़ उवाच:
अन्येषां चैव योधानां सा वुद्धिर्नश्यते पुनः ||
६ ख
सञ्जय़ उवाच:
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थय़ा |
७ क
सञ्जय़ उवाच:
न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ||
७ ख
सञ्जय़ उवाच:
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता |
८ क
सञ्जय़ उवाच:
दैवोपहतवुद्धित्वान्न तां कर्णो विमुक्तवान् ||
८ ख
सञ्जय़ उवाच:
कृष्णे वा देवकीपुत्रे मोहितो देवमाय़या |
९ क
सञ्जय़ उवाच:
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ||
९ ख
धृतराष्ट्र उवाच:
दैवेनैव हता यूय़ं स्ववुद्ध्या केशवस्य च |
१० क
धृतराष्ट्र उवाच:
गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ||
१० ख
धृतराष्ट्र उवाच:
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः |
११ क
धृतराष्ट्र उवाच:
अनेन दुष्प्रणीतेन गता वैवस्वतक्षय़म् ||
११ ख
धृतराष्ट्र उवाच:
भूय़ एव तु मे शंस यथा युद्धमवर्तत |
१२ क
धृतराष्ट्र उवाच:
कुरूणां पाण्डवानां च हैडिम्वे निहते तदा ||
१२ ख
धृतराष्ट्र उवाच:
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः |
१३ क
धृतराष्ट्र उवाच:
सृञ्जय़ाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ||
१३ ख
धृतराष्ट्र उवाच:
सौमदत्तेर्वधाद्द्रोणमाय़स्तं सैन्धवस्य च |
१४ क
धृतराष्ट्र उवाच:
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ||
१४ ख
धृतराष्ट्र उवाच:
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् |
१५ क
धृतराष्ट्र उवाच:
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जय़ाः ||
१५ ख
धृतराष्ट्र उवाच:
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः |
१६ क
धृतराष्ट्र उवाच:
द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ||
१६ ख
धृतराष्ट्र उवाच:
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ |
१७ क
धृतराष्ट्र उवाच:
समार्छन्मामका युद्धे कथं सञ्जय़ शंस मे ||
१७ ख
धृतराष्ट्र उवाच:
सिन्धुराजवधेनेमे घटोत्कचवधेन ते |
१८ क
धृतराष्ट्र उवाच:
अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ||
१८ ख
सञ्जय़ उवाच:
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे |
१९ क
सञ्जय़ उवाच:
प्रणदत्सु च हृष्टेषु तावकेषु युय़ुत्सुषु ||
१९ ख
सञ्जय़ उवाच:
आपतत्सु च वेगेन वध्यमाने वलेऽपि च |
२० क
सञ्जय़ उवाच:
विगाढाय़ां रजन्यां च राजा दैन्यं परं गतः ||
२० ख
सञ्जय़ उवाच:
अव्रवीच्च महावाहुर्भीमसेनं परन्तपः |
२१ क
सञ्जय़ उवाच:
आवारय़ महावाहो धार्तराष्ट्रस्य वाहिनीम् |
२१ ख
सञ्जय़ उवाच:
हैडिम्वस्याभिघातेन मोहो मामाविशन्महान् ||
२१ ग
सञ्जय़ उवाच:
एवं भीमं समादिश्य स्वरथे समुपाविशत् |
२२ क
सञ्जय़ उवाच:
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः |
२२ ख
सञ्जय़ उवाच:
कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ||
२२ ग
सञ्जय़ उवाच:
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमव्रवीत् |
२३ क
सञ्जय़ उवाच:
मा व्यथां कुरु कौन्तेय़ नैतत्त्वय़्युपपद्यते |
२३ ख
सञ्जय़ उवाच:
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ||
२३ ग
सञ्जय़ उवाच:
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो |
२४ क
सञ्जय़ उवाच:
त्वय़ि वैक्लव्यमापन्ने संशय़ो विजय़े भवेत् ||
२४ ख
सञ्जय़ उवाच:
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः |
२५ क
सञ्जय़ उवाच:
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमव्रवीत् ||
२५ ख
सञ्जय़ उवाच:
विदिता ते महावाहो धर्माणां परमा गतिः |
२६ क
सञ्जय़ उवाच:
व्रह्महत्याफलं तस्य यः कृतं नाववुध्यते ||
२६ ख
सञ्जय़ उवाच:
अस्माकं हि वनस्थानां हैडिम्वेन महात्मना |
२७ क
सञ्जय़ उवाच:
वालेनापि सता तेन कृतं साह्यं जनार्दन ||
२७ ख
सञ्जय़ उवाच:
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् |
२८ क
सञ्जय़ उवाच:
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः |
२८ ख
सञ्जय़ उवाच:
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जय़ः ||
२८ ग
सञ्जय़ उवाच:
गन्धमादनय़ात्राय़ां दुर्गेभ्यश्च स्म तारिताः |
२९ क
सञ्जय़ उवाच:
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ||
२९ ख
सञ्जय़ उवाच:
आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो |
३० क
सञ्जय़ उवाच:
मदर्थं दुष्करं कर्म कृतं तेन महात्मना ||
३० ख
सञ्जय़ उवाच:
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन |
३१ क
सञ्जय़ उवाच:
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ||
३१ ख
सञ्जय़ उवाच:
भक्तश्च मे महावाहुः प्रिय़ोऽस्याहं प्रिय़श्च मे |
३२ क
सञ्जय़ उवाच:
येन विन्दामि वार्ष्णेय़ कश्मलं शोकतापितः ||
३२ ख
सञ्जय़ उवाच:
पश्य सैन्यानि वार्ष्णेय़ द्राव्यमाणानि कौरवैः |
३३ क
सञ्जय़ उवाच:
द्रोणकर्णौ च संय़त्तौ पश्य युद्धे महारथौ ||
३३ ख
सञ्जय़ उवाच:
निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् |
३४ क
सञ्जय़ उवाच:
गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ||
३४ ख
सञ्जय़ उवाच:
अनादृत्य वलं वाह्वोर्भीमसेनस्य माधव |
३५ क
सञ्जय़ उवाच:
चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ||
३५ ख
सञ्जय़ उवाच:
एष द्रोणश्च कर्णश्च राजा चैव सुय़ोधनः |
३६ क
सञ्जय़ उवाच:
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संय़ुगे ||
३६ ख
सञ्जय़ उवाच:
कथमस्मासु जीवत्सु त्वय़ि चैव जनार्दन |
३७ क
सञ्जय़ उवाच:
हैडिम्वः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः ||
३७ ख
सञ्जय़ उवाच:
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः |
३८ क
सञ्जय़ उवाच:
निहतो राक्षसः कृष्ण भैमसेनिर्महावलः ||
३८ ख
सञ्जय़ उवाच:
यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः |
३९ क
सञ्जय़ उवाच:
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ||
३९ ख
सञ्जय़ उवाच:
निरुद्धाश्च वय़ं सर्वे सैन्धवेन दुरात्मना |
४० क
सञ्जय़ उवाच:
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ||
४० ख
सञ्जय़ उवाच:
उपदिष्टो वधोपाय़ः कर्णस्य गुरुणा स्वय़म् |
४१ क
सञ्जय़ उवाच:
व्याय़च्छतश्च खड्गेन द्विधा खड्गं चकार ह ||
४१ ख
सञ्जय़ उवाच:
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् |
४२ क
सञ्जय़ उवाच:
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी |
४२ ख
सञ्जय़ उवाच:
तथेतरे महेष्वासाः सौभद्रं युध्यपातय़न् ||
४२ ग
सञ्जय़ उवाच:
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना |
४३ क
सञ्जय़ उवाच:
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रिय़ं मम ||
४३ ख
सञ्जय़ उवाच:
यदि शत्रुवधे न्याय़्यो भवेत्कर्तुं च पाण्डवैः |
४४ क
सञ्जय़ उवाच:
द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ||
४४ ख
सञ्जय़ उवाच:
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ |
४५ क
सञ्जय़ उवाच:
एतौ रणे समासाद्य पराश्वस्तः सुय़ोधनः ||
४५ ख
सञ्जय़ उवाच:
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः |
४६ क
सञ्जय़ उवाच:
तत्रावधीन्महावाहुः सैन्धवं दूरवासिनम् ||
४६ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा कार्यः सूतपुत्रस्य निग्रहः |
४७ क
सञ्जय़ उवाच:
ततो यास्याम्यहं वीर स्वय़ं कर्णजिघांसय़ा |
४७ ख
सञ्जय़ उवाच:
भीमसेनो महावाहुर्द्रोणानीकेन सङ्गतः ||
४७ ग