गन्धर्व उवाच:
कामवर्णाः कामजवाः कामतः समुपस्थिताः |
५१ क
गन्धर्व उवाच:
इमे गन्धर्वजाः कामं पूरय़िष्यन्ति ते हय़ाः ||
५१ ख
अर्जुन उवाच:
यदि प्रीतेन वा दत्तं संशय़े जीवितस्य वा |
५२ क
अर्जुन उवाच:
विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामय़े ||
५२ ख
गन्धर्व उवाच:
संय़ोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते |
५३ क
गन्धर्व उवाच:
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ||
५३ ख
गन्धर्व उवाच:
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेय़मुत्तमम् |
५४ क
गन्धर्व उवाच:
तथैव सख्यं वीभत्सो चिराय़ भरतर्षभ ||
५४ ख
अर्जुन उवाच:
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संय़ोगः शाश्वतोऽस्तु नौ |
५५ क
अर्जुन उवाच:
सखे तद्व्रूहि गन्धर्व युष्मभ्यो यद्भय़ं त्यजेत् ||
५५ ख