chevron_left द्रोण पर्व अध्याय १५८
सञ्जय़ उवाच:
एवमुक्त्वा यय़ौ तूर्णं त्वरमाणो युधिष्ठिरः |
४८ क
सञ्जय़ उवाच:
स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ||
४८ ख
सञ्जय़ उवाच:
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः |
४९ क
सञ्जय़ उवाच:
वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः |
४९ ख
सञ्जय़ उवाच:
वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वय़ात् ||
४९ ग
सञ्जय़ उवाच:
ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः |
५० क
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ||
५० ख
सञ्जय़ उवाच:
ततोऽव्रवीन्महावाहुर्वासुदेवो धनञ्जय़म् |
५१ क
सञ्जय़ उवाच:
एष प्रय़ाति त्वरितो क्रोधाविष्टो युधिष्ठिरः |
५१ ख
सञ्जय़ उवाच:
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ||
५१ ग
सञ्जय़ उवाच:
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदय़त् |
५२ क
सञ्जय़ उवाच:
दूरं च यातं राजानमन्वगच्छज्जनार्दनः ||
५२ ख
सञ्जय़ उवाच:
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसय़ा |
५३ क
सञ्जय़ उवाच:
शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना |
५३ ख
सञ्जय़ उवाच:
अभिगम्याव्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ||
५३ ग
सञ्जय़ उवाच:
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः |
५४ क
सञ्जय़ उवाच:
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ||
५४ ख
सञ्जय़ उवाच:
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ |
५५ क
सञ्जय़ उवाच:
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ||
५५ ख
सञ्जय़ उवाच:
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः |
५६ क
सञ्जय़ उवाच:
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ||
५६ ख
सञ्जय़ उवाच:
ततो भवेत्ते व्यसनं घोरं भरतसत्तम |
५७ क
सञ्जय़ उवाच:
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ||
५७ ख
सञ्जय़ उवाच:
वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ |
५८ क
सञ्जय़ उवाच:
तवैव कारणाद्रक्षो निहतं तात संय़ुगे ||
५८ ख
सञ्जय़ उवाच:
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः |
५९ क
सञ्जय़ उवाच:
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ||
५९ ख
सञ्जय़ उवाच:
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः |
६० क
सञ्जय़ उवाच:
कौरवान्समरे राजन्नभिय़ुध्यस्व भारत |
६० ख
सञ्जय़ उवाच:
पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ||
६० ग
सञ्जय़ उवाच:
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय़ |
६१ क
सञ्जय़ उवाच:
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ||
६१ ख
सञ्जय़ उवाच:
सेवेथाः परमप्रीतो यतो धर्मस्ततो जय़ः |
६२ क
सञ्जय़ उवाच:
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीय़त ||
६२ ख