सञ्जय़ उवाच:
सेनानिवेशं सम्प्राप्य कैतव्यः पाण्डवस्य ह |
१ क
सञ्जय़ उवाच:
समागतः पाण्डवेय़ैर्युधिष्ठिरमभाषत ||
१ ख
सञ्जय़ उवाच:
अभिज्ञो दूतवाक्यानां यथोक्तं व्रुवतो मम |
२ क
सञ्जय़ उवाच:
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ||
२ ख
युधिष्ठिर उवाच:
उलूक न भय़ं तेऽस्ति व्रूहि त्वं विगतज्वरः |
३ क
युधिष्ठिर उवाच:
यन्मतं धार्तराष्ट्रस्य लुव्धस्यादीर्घदर्शिनः ||
३ ख
सञ्जय़ उवाच:
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् |
४ क
सञ्जय़ उवाच:
सृञ्जय़ानां च सर्वेषां कृष्णस्य च यशस्विनः ||
४ ख
सञ्जय़ उवाच:
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ |
५ क
सञ्जय़ उवाच:
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ||
५ ख
सञ्जय़ उवाच:
इदं त्वामव्रवीद्राजा धार्तराष्ट्रो महामनाः |
६ क
सञ्जय़ उवाच:
शृण्वतां कुरुवीराणां तन्निवोध नराधिप ||
६ ख
सञ्जय़ उवाच:
पराजितोऽसि द्यूतेन कृष्णा चानाय़िता सभाम् |
७ क
सञ्जय़ उवाच:
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ||
७ ख
सञ्जय़ उवाच:
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः |
८ क
सञ्जय़ उवाच:
संवत्सरं विराटस्य दास्यमास्थाय़ चोषिताः ||
८ ख
सञ्जय़ उवाच:
अमर्षं राज्यहरणं वनवासं च पाण्डव |
९ क
सञ्जय़ उवाच:
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||
९ ख
सञ्जय़ उवाच:
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव |
१० क
सञ्जय़ उवाच:
दुःशासनस्य रुधिरं पीय़तां यदि शक्यते ||
१० ख
सञ्जय़ उवाच:
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |
११ क
सञ्जय़ उवाच:
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ||
११ ख
सञ्जय़ उवाच:
असमागम्य भीष्मेण संय़ुगे किं विकत्थसे |
१२ क
सञ्जय़ उवाच:
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ||
१२ ख
सञ्जय़ उवाच:
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि |
१३ क
सञ्जय़ उवाच:
अजित्वा संय़ुगे पार्थ राज्यं कथमिहेच्छसि ||
१३ ख
सञ्जय़ उवाच:
व्राह्मे धनुषि चाचार्यं वेदय़ोरन्तरं द्वय़ोः |
१४ क
सञ्जय़ उवाच:
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ||
१४ ख
सञ्जय़ उवाच:
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा |
१५ क
सञ्जय़ उवाच:
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ||
१५ ख
सञ्जय़ उवाच:
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् |
१६ क
सञ्जय़ उवाच:
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ||
१६ ख
सञ्जय़ उवाच:
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् |
१७ क
सञ्जय़ उवाच:
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ||
१७ ख
सञ्जय़ उवाच:
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा |
१८ क
सञ्जय़ उवाच:
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ||
१८ ख
सञ्जय़ उवाच:
किं दर्दुरः कूपशय़ो यथेमां; न वुध्यसे राजचमूं समेताम् |
१९ क
सञ्जय़ उवाच:
दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ||
१९ ख
सञ्जय़ उवाच:
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै; रुदीच्यकाम्वोजशकैः खशैश्च |
२० क
सञ्जय़ उवाच:
शाल्वैः समत्स्यैः कुरुमध्यदेशै; र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ||
२० ख
सञ्जय़ उवाच:
नानाजनौघं युधि सम्प्रवृद्धं; गाङ्गं यथा वेगमवारणीय़म् |
२१ क
सञ्जय़ उवाच:
मां च स्थितं नागवलस्य मध्ये; युय़ुत्ससे मन्द किमल्पवुद्धे ||
२१ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् |
२२ क
सञ्जय़ उवाच:
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ||
२२ ख
सञ्जय़ उवाच:
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं वहु |
२३ क
सञ्जय़ उवाच:
पर्याय़ात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ||
२३ ख
सञ्जय़ उवाच:
यदीदं कत्थनात्सिध्येत्कर्म लोके धनञ्जय़ |
२४ क
सञ्जय़ उवाच:
सर्वे भवेय़ुः सिद्धार्था वहु कत्थेत दुर्गतः ||
२४ ख
सञ्जय़ उवाच:
जानामि ते वासुदेवं सहाय़ं; जानामि ते गाण्डिवं तालमात्रम् |
२५ क
सञ्जय़ उवाच:
जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि ||
२५ ख
सञ्जय़ उवाच:
न तु पर्याय़धर्मेण सिद्धिं प्राप्नोति भूय़सीम् |
२६ क
सञ्जय़ उवाच:
मनसैव हि भूतानि धाता प्रकुरुते वशे ||
२६ ख
सञ्जय़ उवाच:
त्रय़ोदश समा भुक्तं राज्यं विलपतस्तव |
२७ क
सञ्जय़ उवाच:
भूय़श्चैव प्रशासिष्ये निहत्य त्वां सवान्धवम् ||
२७ ख
सञ्जय़ उवाच:
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः |
२८ क
सञ्जय़ उवाच:
क्व तदा भीमसेनस्य वलमासीच्च फल्गुन ||
२८ ख
सञ्जय़ उवाच:
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् |
२९ क
सञ्जय़ उवाच:
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ||
२९ ख
सञ्जय़ उवाच:
सा वो दास्यं समापन्नान्मोक्षय़ामास भामिनी |
३० क
सञ्जय़ उवाच:
अमानुष्यसमाय़ुक्तान्दास्यकर्मण्यवस्थितान् ||
३० ख
सञ्जय़ उवाच:
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् |
३१ क
सञ्जय़ उवाच:
धृता हि वेणी पार्थेन विराटनगरे तदा ||
३१ ख
सञ्जय़ उवाच:
सूदकर्मणि च श्रान्तं विराटस्य महानसे |
३२ क
सञ्जय़ उवाच:
भीमसेनेन कौन्तेय़ यच्च तन्मम पौरुषम् ||
३२ ख
सञ्जय़ उवाच:
एवमेव सदा दण्डं क्षत्रिय़ाः क्षत्रिय़े दधुः |
३३ क
सञ्जय़ उवाच:
श्रेण्यां कक्ष्यां च वेण्यां च संय़ुगे यः पलाय़ते ||
३३ ख
सञ्जय़ उवाच:
न भय़ाद्वासुदेवस्य न चापि तव फल्गुन |
३४ क
सञ्जय़ उवाच:
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ||
३४ ख
सञ्जय़ उवाच:
न माय़ा हीन्द्रजालं वा कुहका वा विभीषणी |
३५ क
सञ्जय़ उवाच:
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ||
३५ ख
सञ्जय़ उवाच:
वासुदेवसहस्रं वा फल्गुनानां शतानि वा |
३६ क
सञ्जय़ उवाच:
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ||
३६ ख
सञ्जय़ उवाच:
संय़ुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् |
३७ क
सञ्जय़ उवाच:
प्रतरेमं महागाधं वाहुभ्यां पुरुषोदधिम् ||
३७ ख
सञ्जय़ उवाच:
शारद्वतमहीमानं विविंशतिझषाकुलम् |
३८ क
सञ्जय़ उवाच:
वृहद्वलसमुच्चालं सौमदत्तितिमिङ्गिलम् ||
३८ ख
सञ्जय़ उवाच:
दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्राय़ुधनागनक्रम् |
३९ क
सञ्जय़ उवाच:
जय़द्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् ||
३९ ख
सञ्जय़ उवाच:
शस्त्रौघमक्षय़्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः |
४० क
सञ्जय़ उवाच:
भविष्यसि त्वं हतसर्ववान्धव; स्तदा मनस्ते परितापमेष्यति ||
४० ख
सञ्जय़ उवाच:
तदा मनस्ते त्रिदिवादिवाशुचे; र्निवर्ततां पार्थ महीप्रशासनात् |
४१ क
सञ्जय़ उवाच:
राज्यं प्रशास्तुं हि सुदुर्लभं त्वय़ा; वुभूषता स्वर्ग इवातपस्विना ||
४१ ख