chevron_left वन पर्व अध्याय २२५
जनमेजय़ उवाच:
एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः |
१ क
जनमेजय़ उवाच:
सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ||
१ ख
वैशम्पाय़न उवाच:
सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय़ चैषाम् |
२ क
वैशम्पाय़न उवाच:
वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ||
२ ख
वैशम्पाय़न उवाच:
तथा वने तान्वसतः प्रवीरा; न्स्वाध्याय़वन्तश्च तपोधनाश्च |
३ क
वैशम्पाय़न उवाच:
अभ्याय़युर्वेदविदः पुराणा; स्तान्पूजय़ामासुरथो नराग्र्याः ||
३ ख
वैशम्पाय़न उवाच:
ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेय़ान् |
४ क
वैशम्पाय़न उवाच:
स तैः समेत्याथ यदृच्छय़ैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ||
४ ख
वैशम्पाय़न उवाच:
अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन |
५ क
वैशम्पाय़न उवाच:
प्रचोदितः सन्कथय़ां वभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ||
५ ख
वैशम्पाय़न उवाच:
कृशांश्च वातातपकर्शिताङ्गा; न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् |
६ क
वैशम्पाय़न उवाच:
तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ||
६ ख
वैशम्पाय़न उवाच:
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपय़ाभितप्तः |
७ क
वैशम्पाय़न उवाच:
वने स्थितान्पार्थिवपुत्रपौत्रा; ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ||
७ ख
वैशम्पाय़न उवाच:
प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासवाष्पोपहतः स पार्थान् |
८ क
वैशम्पाय़न उवाच:
वाचं कथञ्चित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ||
८ ख
वैशम्पाय़न उवाच:
कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः |
९ क
वैशम्पाय़न उवाच:
अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशाय़ी ||
९ ख
वैशम्पाय़न उवाच:
प्रवोध्यते मागधसूतपूगै; र्नित्यं स्तुवद्भिः स्वय़मिन्द्रकल्पः |
१० क
वैशम्पाय़न उवाच:
पतत्रिसङ्घैः स जघन्यरात्रे; प्रवोध्यते नूनमिडातलस्थः ||
१० ख
वैशम्पाय़न उवाच:
कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः |
११ क
वैशम्पाय़न उवाच:
शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ||
११ ख
वैशम्पाय़न उवाच:
तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः |
१२ क
वैशम्पाय़न उवाच:
विदूय़मानैरिव सर्वगात्रै; र्ध्रुवं न शेते वसतीरमर्षात् ||
१२ ख
वैशम्पाय़न उवाच:
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रय़ुक्तान् |
१३ क
वैशम्पाय़न उवाच:
विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ||
१३ ख
वैशम्पाय़न उवाच:
तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव |
१४ क
वैशम्पाय़न उवाच:
प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ||
१४ ख
वैशम्पाय़न उवाच:
समीरणेनापि समो वलेन; समीरणस्यैव सुतो वलीय़ान् |
१५ क
वैशम्पाय़न उवाच:
स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ||
१५ ख
वैशम्पाय़न उवाच:
स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः |
१६ क
वैशम्पाय़न उवाच:
सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ||
१६ ख
वैशम्पाय़न उवाच:
अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् |
१७ क
वैशम्पाय़न उवाच:
तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ||
१७ ख
वैशम्पाय़न उवाच:
न पापकं ध्यास्यति धर्मपुत्रो; धनञ्जय़श्चाप्यनुवर्तते तम् |
१८ क
वैशम्पाय़न उवाच:
अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ||
१८ ख
वैशम्पाय़न उवाच:
स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः |
१९ क
वैशम्पाय़न उवाच:
विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ||
१९ ख
वैशम्पाय़न उवाच:
गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ |
२० क
वैशम्पाय़न उवाच:
न शेषय़ेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ||
२० ख
वैशम्पाय़न उवाच:
दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः |
२१ क
वैशम्पाय़न उवाच:
मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनञ्जय़ं च ||
२१ ख
वैशम्पाय़न उवाच:
शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता |
२२ क
वैशम्पाय़न उवाच:
स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ||
२२ ख
वैशम्पाय़न उवाच:
क्षेत्रे सुकृष्टे ह्युपिते च वीजे; देवे च वर्षत्यृतुकालय़ुक्तम् |
२३ क
वैशम्पाय़न उवाच:
न स्यात्फलं तस्य कुतः प्रसिद्धि; रन्यत्र दैवादिति चिन्तय़ामि ||
२३ ख
वैशम्पाय़न उवाच:
कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन |
२४ क
वैशम्पाय़न उवाच:
मय़ा च दुष्पुत्रवशानुगेन; यथा कुरूणामय़मन्तकालः ||
२४ ख
वैशम्पाय़न उवाच:
ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या |
२५ क
वैशम्पाय़न उवाच:
ध्रुवं दिनादौ रजनीप्रणाश; स्तथा क्षपादौ च दिनप्रणाशः ||
२५ ख
वैशम्पाय़न उवाच:
क्रिय़ेत कस्मान्न परे च कुर्यु; र्वित्तं न दद्युः पुरुषाः कथञ्चित् |
२६ क
वैशम्पाय़न उवाच:
प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ||
२६ ख
वैशम्पाय़न उवाच:
कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् |
२७ क
वैशम्पाय़न उवाच:
अरक्ष्यमाणः शतधा विशीर्ये; द्ध्रुवं न नाशोऽस्ति कृतस्य लोके ||
२७ ख
वैशम्पाय़न उवाच:
गतो ह्यरण्यादपि शक्रलोकं; धनञ्जय़ः पश्यत वीर्यमस्य |
२८ क
वैशम्पाय़न उवाच:
अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ||
२८ ख
वैशम्पाय़न उवाच:
स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् |
२९ क
वैशम्पाय़न उवाच:
अन्यत्र कालोपहताननेका; न्समीक्षमाणस्तु कुरून्मुमूर्षून् ||
२९ ख
वैशम्पाय़न उवाच:
धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् |
३० क
वैशम्पाय़न उवाच:
अस्त्राणि दिव्यानि च तानि तस्य; त्रय़स्य तेजः प्रसहेत को नु ||
३० ख
वैशम्पाय़न उवाच:
निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौवलश्च |
३१ क
वैशम्पाय़न उवाच:
अवोधय़त्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ||
३१ ख