chevron_left द्रोण पर्व अध्याय १५९
सञ्जय़ उवाच:
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् |
१ क
सञ्जय़ उवाच:
दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ||
१ ख
सञ्जय़ उवाच:
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव |
२ क
सञ्जय़ उवाच:
धृष्टद्युम्नमुवाचेदं कुम्भय़ोनिं निवारय़ ||
२ ख
सञ्जय़ उवाच:
त्वं हि द्रोणविनाशाय़ समुत्पन्नो हुताशनात् |
३ क
सञ्जय़ उवाच:
सशरः कवची खड्गी धन्वी च परतापनः |
३ ख
सञ्जय़ उवाच:
अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन ||
३ ग
सञ्जय़ उवाच:
जनमेजय़ः शिखण्डी च दौर्मुखिश्च यशोधनः |
४ क
सञ्जय़ उवाच:
अभिद्रवन्तु संहृष्टाः कुम्भय़ोनिं समन्ततः ||
४ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च द्रौपदेय़ाः प्रभद्रकाः |
५ क
सञ्जय़ उवाच:
द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ||
५ ख
सञ्जय़ उवाच:
सात्यकिः केकय़ाश्चैव पाण्डवश्च धनञ्जय़ः |
६ क
सञ्जय़ उवाच:
अभिद्रवन्तु वेगेन भारद्वाजवधेप्सय़ा ||
६ ख
सञ्जय़ उवाच:
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन |
७ क
सञ्जय़ उवाच:
पादाताश्च रणे द्रोणं प्रापय़न्तु महारथम् ||
७ ख
सञ्जय़ उवाच:
तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना |
८ क
सञ्जय़ उवाच:
अभ्यद्रवन्त वेगेन कुम्भय़ोनिं युय़ुत्सय़ा ||
८ ख
सञ्जय़ उवाच:
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् |
९ क
सञ्जय़ उवाच:
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ||
९ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् |
१० क
सञ्जय़ उवाच:
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ||
१० ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् |
११ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ||
११ ख
सञ्जय़ उवाच:
निद्रान्धास्ते महाराज परिश्रान्ताश्च संय़ुगे |
१२ क
सञ्जय़ उवाच:
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ||
१२ ख
सञ्जय़ उवाच:
त्रिय़ामा रजनी चैषा घोररूपा भय़ानका |
१३ क
सञ्जय़ उवाच:
सहस्रय़ामप्रतिमा वभूव प्राणहारिणी |
१३ ख
सञ्जय़ उवाच:
वध्यतां च तथा तेषां क्षतानां च विशेषतः ||
१३ ग
सञ्जय़ उवाच:
अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः |
१४ क
सञ्जय़ उवाच:
सर्वे ह्यासन्निरुत्साहाः क्षत्रिय़ा दीनचेतसः |
१४ ख
सञ्जय़ उवाच:
तव चैव परेषां च गतास्त्रा विगतेषवः ||
१४ ग
सञ्जय़ उवाच:
ते तथा पारय़न्तश्च ह्रीमन्तश्च विशेषतः |
१५ क
सञ्जय़ उवाच:
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ||
१५ ख
सञ्जय़ उवाच:
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः |
१६ क
सञ्जय़ उवाच:
गजेष्वन्ये रथेष्वन्ये हय़ेष्वन्ये च भारत ||
१६ ख
सञ्जय़ उवाच:
निद्रान्धा नो वुवुधिरे काञ्चिच्चेष्टां नराधिपाः |
१७ क
सञ्जय़ उवाच:
तेऽन्योन्यं समरे योधाः प्रेषय़न्त यमक्षय़म् ||
१७ ख
सञ्जय़ उवाच:
स्वप्नाय़मानास्त्वपरे परानिति विचेतसः |
१८ क
सञ्जय़ उवाच:
आत्मानं समरे जघ्नुः स्वानेव च परानपि ||
१८ ख
सञ्जय़ उवाच:
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे |
१९ क
सञ्जय़ उवाच:
योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ||
१९ ख
सञ्जय़ उवाच:
संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् |
२० क
सञ्जय़ उवाच:
जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ||
२० ख
सञ्जय़ उवाच:
हन्यमानं तथात्मानं परेभ्यो वहवो जनाः |
२१ क
सञ्जय़ उवाच:
नाभ्यजानन्त समरे निद्रय़ा मोहिता भृशम् ||
२१ ख
सञ्जय़ उवाच:
तेषामेतादृशीं चेष्टां विज्ञाय़ पुरुषर्षभः |
२२ क
सञ्जय़ उवाच:
उवाच वाक्यं वीभत्सुरुच्चैः संनादय़न्दिशः ||
२२ ख
सञ्जय़ उवाच:
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः |
२३ क
सञ्जय़ उवाच:
तमसा चावृते सैन्ये रजसा वहुलेन च ||
२३ ख
सञ्जय़ उवाच:
ते यूय़ं यदि मन्यध्वमुपारमत सैनिकाः |
२४ क
सञ्जय़ उवाच:
निमीलय़त चात्रैव रणभूमौ मुहूर्तकम् ||
२४ ख
सञ्जय़ उवाच:
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः |
२५ क
सञ्जय़ उवाच:
संसाधय़िष्यथान्योन्यं स्वर्गाय़ कुरुपाण्डवाः ||
२५ ख
सञ्जय़ उवाच:
तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते |
२६ क
सञ्जय़ उवाच:
अरोचय़न्त सैन्यानि तथा चान्योन्यमव्रुवन् ||
२६ ख
सञ्जय़ उवाच:
चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च |
२७ क
सञ्जय़ उवाच:
उपारमत पाण्डूनां विरता हि वरूथिनी ||
२७ ख
सञ्जय़ उवाच:
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः |
२८ क
सञ्जय़ उवाच:
उपारमत पाण्डूनां सेना तव च भारत ||
२८ ख
सञ्जय़ उवाच:
तामस्य वाचं देवाश्च ऋषय़श्च महात्मनः |
२९ क
सञ्जय़ उवाच:
सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजय़न् ||
२९ ख
सञ्जय़ उवाच:
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत |
३० क
सञ्जय़ उवाच:
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ||
३० ख
सञ्जय़ उवाच:
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत |
३१ क
सञ्जय़ उवाच:
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजय़त् ||
३१ ख
सञ्जय़ उवाच:
त्वय़ि वेदास्तथास्त्राणि त्वय़ि वुद्धिपराक्रमौ |
३२ क
सञ्जय़ उवाच:
धर्मस्त्वय़ि महावाहो दय़ा भूतेषु चानघ ||
३२ ख
सञ्जय़ उवाच:
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते |
३३ क
सञ्जय़ उवाच:
मनसश्च प्रिय़ानर्थान्वीर क्षिप्रमवाप्नुहि ||
३३ ख
सञ्जय़ उवाच:
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः |
३४ क
सञ्जय़ उवाच:
निद्रय़ा समवाक्षिप्तास्तूष्णीमासन्विशां पते ||
३४ ख
सञ्जय़ उवाच:
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे |
३५ क
सञ्जय़ उवाच:
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ||
३५ ख
सञ्जय़ उवाच:
साय़ुधाः सगदाश्चैव सखड्गाः सपरश्वधाः |
३६ क
सञ्जय़ उवाच:
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ||
३६ ख
सञ्जय़ उवाच:
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः |
३७ क
सञ्जय़ उवाच:
निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ||
३७ ख
सञ्जय़ उवाच:
गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले |
३८ क
सञ्जय़ उवाच:
विशीर्णा गिरय़ो यद्वन्निःश्वसद्भिर्महोरगैः ||
३८ ख
सञ्जय़ उवाच:
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् |
३९ क
सञ्जय़ उवाच:
हय़ाः काञ्चनय़ोक्त्राश्च केसरालम्विभिर्युगैः |
३९ ख
सञ्जय़ उवाच:
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ||
३९ ग
सञ्जय़ उवाच:
तत्तथा निद्रय़ा भग्नमवाचमस्वपद्वलम् |
४० क
सञ्जय़ उवाच:
कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ||
४० ख
सञ्जय़ उवाच:
ते क्षत्रिय़ाः कुण्डलिनो युवानः; परस्परं साय़कविक्षताङ्गाः |
४१ क
सञ्जय़ उवाच:
कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् ||
४१ ख
सञ्जय़ उवाच:
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना |
४२ क
सञ्जय़ उवाच:
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ||
४२ ख
सञ्जय़ उवाच:
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः |
४३ क
सञ्जय़ उवाच:
अरुणं दर्शय़ामास ग्रसञ्ज्योतिःप्रभं प्रभुः ||
४३ ख
सञ्जय़ उवाच:
अरुणस्य तु तस्यानु जातरूपसमप्रभम् |
४४ क
सञ्जय़ उवाच:
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ||
४४ ख
सञ्जय़ उवाच:
उत्सारय़न्तः प्रभय़ा तमस्ते चन्द्ररश्मय़ः |
४५ क
सञ्जय़ उवाच:
पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ||
४५ ख
सञ्जय़ उवाच:
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् |
४६ क
सञ्जय़ उवाच:
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ||
४६ ख
सञ्जय़ उवाच:
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे |
४७ क
सञ्जय़ उवाच:
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ||
४७ ख
सञ्जय़ उवाच:
वोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः |
४८ क
सञ्जय़ उवाच:
वुवुधे शतपत्राणां वनं महदिवाम्भसि ||
४८ ख