chevron_left आदि पर्व अध्याय १५९
अर्जुन उवाच:
कारणं व्रूहि गन्धर्व किं तद्येन स्म धर्षिताः |
१ क
अर्जुन उवाच:
यान्तो व्रह्मविदः सन्तः सर्वे रात्रावरिन्दम ||
१ ख
गन्धर्व उवाच:
अनग्नय़ोऽनाहुतय़ो न च विप्रपुरस्कृताः |
२ क
गन्धर्व उवाच:
यूय़ं ततो धर्षिताः स्थ मय़ा पाण्डवनन्दन ||
२ ख
गन्धर्व उवाच:
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः |
३ क
गन्धर्व उवाच:
विस्तरं कुरुवंशस्य श्रीमतः कथय़न्ति ते ||
३ ख
गन्धर्व उवाच:
नारदप्रभृतीनां च देवर्षीणां मय़ा श्रुतम् |
४ क
गन्धर्व उवाच:
गुणान्कथय़तां वीर पूर्वेषां तव धीमताम् ||
४ ख
गन्धर्व उवाच:
स्वय़ं चापि मय़ा दृष्टश्चरता सागराम्वराम् |
५ क
गन्धर्व उवाच:
इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ||
५ ख
गन्धर्व उवाच:
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन |
६ क
गन्धर्व उवाच:
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ||
६ ख
गन्धर्व उवाच:
धर्मं वाय़ुं च शक्रं च विजानाम्यश्विनौ तथा |
७ क
गन्धर्व उवाच:
पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् |
७ ख
गन्धर्व उवाच:
पितृनेतानहं पार्थ देवमानुषसत्तमान् ||
७ ग
गन्धर्व उवाच:
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः |
८ क
गन्धर्व उवाच:
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ||
८ ख
गन्धर्व उवाच:
उत्तमां तु मनोवुद्धिं भवतां भावितात्मनाम् |
९ क
गन्धर्व उवाच:
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ||
९ ख
गन्धर्व उवाच:
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति |
१० क
गन्धर्व उवाच:
धर्षणामात्मनः पश्यन्वाहुद्रविणमाश्रितः ||
१० ख
गन्धर्व उवाच:
नक्तं च वलमस्माकं भूय़ एवाभिवर्धते |
११ क
गन्धर्व उवाच:
यतस्ततो मां कौन्तेय़ सदारं मन्युराविशत् ||
११ ख
गन्धर्व उवाच:
सोऽहं त्वय़ेह विजितः सङ्ख्ये तापत्यवर्धन |
१२ क
गन्धर्व उवाच:
येन तेनेह विधिना कीर्त्यमानं निवोध मे ||
१२ ख
गन्धर्व उवाच:
व्रह्मचर्यं परो धर्मः स चापि निय़तस्त्वय़ि |
१३ क
गन्धर्व उवाच:
यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वय़ा ||
१३ ख
गन्धर्व उवाच:
यस्तु स्यात्क्षत्रिय़ः कश्चित्कामवृत्तः परन्तप |
१४ क
गन्धर्व उवाच:
नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ||
१४ ख
गन्धर्व उवाच:
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे |
१५ क
गन्धर्व उवाच:
जय़ेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ||
१५ ख
गन्धर्व उवाच:
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय़ इहेप्सितम् |
१६ क
गन्धर्व उवाच:
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ||
१६ ख
गन्धर्व उवाच:
वेदे षडङ्गे निरताः शुचय़ः सत्यवादिनः |
१७ क
गन्धर्व उवाच:
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ||
१७ ख
गन्धर्व उवाच:
जय़श्च निय़तो राज्ञः स्वर्गश्च स्यादनन्तरम् |
१८ क
गन्धर्व उवाच:
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ||
१८ ख
गन्धर्व उवाच:
लाभं लव्धुमलव्धं हि लव्धं च परिरक्षितुम् |
१९ क
गन्धर्व उवाच:
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ||
१९ ख
गन्धर्व उवाच:
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः |
२० क
गन्धर्व उवाच:
प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्वराम् ||
२० ख
गन्धर्व उवाच:
न हि केवलशौर्येण तापत्याभिजनेन च |
२१ क
गन्धर्व उवाच:
जय़ेदव्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ||
२१ ख
गन्धर्व उवाच:
तस्मादेवं विजानीहि कुरूणां वंशवर्धन |
२२ क
गन्धर्व उवाच:
व्राह्मणप्रमुखं राज्यं शक्यं पालय़ितुं चिरम् ||
२२ ख