chevron_left उद्योग पर्व अध्याय १५९
सञ्जय़ उवाच:
उलूकस्त्वर्जुनं भूय़ो यथोक्तं वाक्यमव्रवीत् |
१ क
सञ्जय़ उवाच:
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकय़ा ||
१ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् |
२ क
सञ्जय़ उवाच:
प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः ||
२ ख
सञ्जय़ उवाच:
नासनेष्ववतिष्ठन्त वाहूंश्चैव विचिक्षिपुः |
३ क
सञ्जय़ उवाच:
आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ||
३ ख
सञ्जय़ उवाच:
अवाक्षिरा भीमसेनः समुदैक्षत केशवम् |
४ क
सञ्जय़ उवाच:
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ||
४ ख
सञ्जय़ उवाच:
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् |
५ क
सञ्जय़ उवाच:
उत्स्मय़न्निव दाशार्हः कैतव्यं प्रत्यभाषत ||
५ ख
सञ्जय़ उवाच:
प्रय़ाहि शीघ्रं कैतव्य व्रूय़ाश्चैव सुय़ोधनम् |
६ क
सञ्जय़ उवाच:
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ||
६ ख
सञ्जय़ उवाच:
मद्वचश्चापि भूय़स्ते वक्तव्यः स सुय़ोधनः |
७ क
सञ्जय़ उवाच:
श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ||
७ ख
सञ्जय़ उवाच:
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः |
८ क
सञ्जय़ उवाच:
सारथ्येन वृतः पार्थैरिति त्वं न विभेषि च ||
८ ख
सञ्जय़ उवाच:
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् |
९ क
सञ्जय़ उवाच:
निर्दहेय़महं क्रोधात्तृणानीव हुताशनः ||
९ ख
सञ्जय़ उवाच:
युधिष्ठिरनिय़ोगात्तु फल्गुनस्य महात्मनः |
१० क
सञ्जय़ उवाच:
करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ||
१० ख
सञ्जय़ उवाच:
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् |
११ क
सञ्जय़ उवाच:
तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ||
११ ख
सञ्जय़ उवाच:
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् |
१२ क
सञ्जय़ उवाच:
दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ||
१२ ख
सञ्जय़ उवाच:
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः |
१३ क
सञ्जय़ उवाच:
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ||
१३ ख