chevron_left शल्य पर्व अध्याय १६
सञ्जय़ उवाच:
संसिक्तगात्रो रुधिरेण सोऽभू; त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ||
५० ख
सञ्जय़ उवाच:
प्रसार्य वाहू स रथाद्गतो गां; सञ्छिन्नवर्मा कुरुनन्दनेन |
५१ क
सञ्जय़ उवाच:
महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य ||
५१ ख
सञ्जय़ उवाच:
वाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् |
५२ क
सञ्जय़ उवाच:
ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ||
५२ ख
सञ्जय़ उवाच:
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः |
५३ क
सञ्जय़ उवाच:
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ||
५३ ख
सञ्जय़ उवाच:
प्रिय़या कान्तय़ा कान्तः पतमान इवोरसि |
५४ क
सञ्जय़ उवाच:
चिरं भुक्त्वा वसुमतीं प्रिय़ां कान्तामिव प्रभुः |
५४ ख
सञ्जय़ उवाच:
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ||
५४ ग
सञ्जय़ उवाच:
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना |
५५ क
सञ्जय़ उवाच:
सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ||
५५ ख
सञ्जय़ उवाच:
शक्त्या विभिन्नहृदय़ं विप्रविद्धाय़ुधध्वजम् |
५६ क
सञ्जय़ उवाच:
संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ||
५६ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरश्चापमादाय़ेन्द्रधनुष्प्रभम् |
५७ क
सञ्जय़ उवाच:
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् |
५७ ख
सञ्जय़ उवाच:
देहासून्निशितैर्भल्लै रिपूणां नाशय़न्क्षणात् ||
५७ ग
सञ्जय़ उवाच:
ततः पार्थस्य वाणौघैरावृताः सैनिकास्तव |
५८ क
सञ्जय़ उवाच:
निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः |
५८ ख
सञ्जय़ उवाच:
संन्यस्तकवचा देहैर्विपत्राय़ुधजीविताः ||
५८ ग
सञ्जय़ उवाच:
ततः शल्ये निपतिते मद्रराजानुजो युवा |
५९ क
सञ्जय़ उवाच:
भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ||
५९ ख
सञ्जय़ उवाच:
विव्याध च नरश्रेष्ठो नाराचैर्वहुभिस्त्वरन् |
६० क
सञ्जय़ उवाच:
हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ||
६० ख
सञ्जय़ उवाच:
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव |
६१ क
सञ्जय़ उवाच:
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ||
६१ ख
सञ्जय़ उवाच:
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च |
६२ क
सञ्जय़ उवाच:
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ||
६२ ख
सञ्जय़ उवाच:
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् |
६३ क
सञ्जय़ उवाच:
पुण्यक्षय़मिव प्राप्य पतन्तं स्वर्गवासिनम् ||
६३ ख
सञ्जय़ उवाच:
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् |
६४ क
सञ्जय़ उवाच:
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ||
६४ ख
सञ्जय़ उवाच:
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे |
६५ क
सञ्जय़ उवाच:
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ||
६५ ख
सञ्जय़ उवाच:
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः |
६६ क
सञ्जय़ उवाच:
वित्रेसुः पाण्डवभय़ाद्रजोध्वस्तास्तथा भृशम् ||
६६ ख
सञ्जय़ उवाच:
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ |
६७ क
सञ्जय़ उवाच:
शिनेर्नप्ता किरन्वाणैरभ्यवर्तत सात्यकिः ||
६७ ख
सञ्जय़ उवाच:
तमाय़ान्तं महेष्वासमप्रसह्यं दुरासदम् |
६८ क
सञ्जय़ उवाच:
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ||
६८ ख
सञ्जय़ उवाच:
तौ समेतौ महात्मानौ वार्ष्णेय़ावपराजितौ |
६९ क
सञ्जय़ उवाच:
हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ||
६९ ख
सञ्जय़ उवाच:
इषुभिर्विमलाभासैश्छादय़न्तौ परस्परम् |
७० क
सञ्जय़ उवाच:
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ||
७० ख
सञ्जय़ उवाच:
चापमार्गवलोद्धूतान्मार्गणान्वृष्णिसिंहय़ोः |
७१ क
सञ्जय़ उवाच:
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ||
७१ ख
सञ्जय़ उवाच:
सात्यकिं दशभिर्विद्ध्वा हय़ांश्चास्य त्रिभिः शरैः |
७२ क
सञ्जय़ उवाच:
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ||
७२ ख
सञ्जय़ उवाच:
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः |
७३ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन वेगवत्तरमाय़ुधम् ||
७३ ख
सञ्जय़ उवाच:
तदादाय़ धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् |
७४ क
सञ्जय़ उवाच:
हार्दिक्यं दशभिर्वाणैः प्रत्यविध्यत्स्तनान्तरे ||
७४ ख
सञ्जय़ उवाच:
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंय़तैः |
७५ क
सञ्जय़ उवाच:
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ||
७५ ख
सञ्जय़ उवाच:
मद्रराजे हते राजन्विरथे कृतवर्मणि |
७६ क
सञ्जय़ उवाच:
दुर्योधनवलं सर्वं पुनरासीत्पराङ्मुखम् ||
७६ ख
सञ्जय़ उवाच:
तत्परे नाववुध्यन्त सैन्येन रजसा वृते |
७७ क
सञ्जय़ उवाच:
वलं तु हतभूय़िष्ठं तत्तदासीत्पराङ्मुखम् ||
७७ ख
सञ्जय़ उवाच:
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् |
७८ क
सञ्जय़ उवाच:
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ||
७८ ख
सञ्जय़ उवाच:
ततो दुर्योधनो दृष्ट्वा भग्नं स्ववलमन्तिकात् |
७९ क
सञ्जय़ उवाच:
जवेनापततः पार्थानेकः सर्वानवारय़त् ||
७९ ख
सञ्जय़ उवाच:
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् |
८० क
सञ्जय़ उवाच:
आनर्तं च दुराधर्षं शितैर्वाणैरवाकिरत् ||
८० ख
सञ्जय़ उवाच:
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् |
८१ क
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ हार्दिक्योऽपि न्यवर्तत ||
८१ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा त्वरमाणो महारथः |
८२ क
सञ्जय़ उवाच:
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः |
८२ ख
सञ्जय़ उवाच:
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ||
८२ ग
सञ्जय़ उवाच:
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् |
८३ क
सञ्जय़ उवाच:
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ||
८३ ख
सञ्जय़ उवाच:
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् |
८४ क
सञ्जय़ उवाच:
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ||
८४ ख
सञ्जय़ उवाच:
एवमेतन्महाराज युद्धशेषमवर्तत |
८५ क
सञ्जय़ उवाच:
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ||
८५ ख
सञ्जय़ उवाच:
तस्मिन्महेष्वासवरे विशस्ते; सङ्ग्राममध्ये कुरुपुङ्गवेन |
८६ क
सञ्जय़ उवाच:
पार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ||
८६ ख
सञ्जय़ उवाच:
युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम् |
८७ क
सञ्जय़ उवाच:
चक्रुश्च नानाविधवाद्यशव्दा; न्निनादय़न्तो वसुधां समन्तात् ||
८७ ख