chevron_left सौप्तिक पर्व अध्याय १६
वैशम्पाय़न उवाच:
तदाज्ञाय़ हृषीकेशो विसृष्टं पापकर्मणा |
१ क
वैशम्पाय़न उवाच:
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यव्रवीत्तदा ||
१ ख
वैशम्पाय़न उवाच:
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः |
२ क
वैशम्पाय़न उवाच:
उपप्लव्यगतां दृष्ट्वा व्रतवान्व्राह्मणोऽव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति |
३ क
वैशम्पाय़न उवाच:
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ||
३ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं साधोः सत्यमेव भविष्यति |
४ क
वैशम्पाय़न उवाच:
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ||
४ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणं गोविन्दं सात्वतप्रवरं तदा |
५ क
वैशम्पाय़न उवाच:
द्रौणिः परमसंरव्धः प्रत्युवाचेदमुत्तरम् ||
५ ख
वैशम्पाय़न उवाच:
नैतदेवं यथात्थ त्वं पक्षपातेन केशव |
६ क
वैशम्पाय़न उवाच:
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा ||
६ ख
वैशम्पाय़न उवाच:
पतिष्यत्येतदस्त्रं हि गर्भे तस्या मय़ोद्यतम् |
७ क
वैशम्पाय़न उवाच:
विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ||
७ ख
वासुदेव उवाच:
अमोघः परमास्त्रस्य पातस्तस्य भविष्यति |
८ क
वासुदेव उवाच:
स तु गर्भो मृतो जातो दीर्घमाय़ुरवाप्स्यति ||
८ ख
वासुदेव उवाच:
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः |
९ क
वासुदेव उवाच:
असकृत्पापकर्माणं वालजीवितघातकम् ||
९ ख
वासुदेव उवाच:
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि |
१० क
वासुदेव उवाच:
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् |
१० ख
वासुदेव उवाच:
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ||
१० ग
वासुदेव उवाच:
निर्जनानसहाय़स्त्वं देशान्प्रविचरिष्यसि |
११ क
वासुदेव उवाच:
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ||
११ ख
वासुदेव उवाच:
पूय़शोणितगन्धी च दुर्गकान्तारसंश्रय़ः |
१२ क
वासुदेव उवाच:
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ||
१२ ख
वासुदेव उवाच:
वय़ः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च |
१३ क
वासुदेव उवाच:
कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ||
१३ ख
वासुदेव उवाच:
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः |
१४ क
वासुदेव उवाच:
षष्टिं वर्षाणि धर्मात्मा वसुधां पालय़िष्यति ||
१४ ख
वासुदेव उवाच:
इतश्चोर्ध्वं महावाहुः कुरुराजो भविष्यति |
१५ क
वासुदेव उवाच:
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते |
१५ ख
वासुदेव उवाच:
पश्य मे तपसो वीर्यं सत्यस्य च नराधम ||
१५ ग
व्यास उवाच:
यस्मादनादृत्य कृतं त्वय़ास्मान्कर्म दारुणम् |
१६ क
व्यास उवाच:
व्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ||
१६ ख
व्यास उवाच:
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः |
१७ क
व्यास उवाच:
असंशय़ं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ||
१७ ख
अश्वत्थामो उवाच:
सहैव भवता व्रह्मन्स्थास्यामि पुरुषेष्वहम् |
१८ क
अश्वत्थामो उवाच:
सत्यवागस्तु भगवानय़ं च पुरुषोत्तमः ||
१८ ख
वैशम्पाय़न उवाच:
प्रदाय़ाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् |
१९ क
वैशम्पाय़न उवाच:
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ||
१९ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः |
२० क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नं चैव नारदं च महामुनिम् ||
२० ख
वैशम्पाय़न उवाच:
द्रोणपुत्रस्य सहजं मणिमादाय़ सत्वराः |
२१ क
वैशम्पाय़न उवाच:
द्रौपदीमभ्यधावन्त प्राय़ोपेतां मनस्विनीम् ||
२१ ख
वैशम्पाय़न उवाच:
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः |
२२ क
वैशम्पाय़न उवाच:
अभ्ययुः सहदाशार्हाः शिविरं पुनरेव ह ||
२२ ख
वैशम्पाय़न उवाच:
अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः |
२३ क
वैशम्पाय़न उवाच:
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वय़म् ||
२३ ख
वैशम्पाय़न उवाच:
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् |
२४ क
वैशम्पाय़न उवाच:
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ||
२४ ख
वैशम्पाय़न उवाच:
ततो राज्ञाभ्यनुज्ञातो भीमसेनो महावलः |
२५ क
वैशम्पाय़न उवाच:
प्रददौ तु मणिं दिव्यं वचनं चेदमव्रवीत् ||
२५ ख
वैशम्पाय़न उवाच:
अय़ं भद्रे तव मणिः पुत्रहन्ता जितः स ते |
२६ क
वैशम्पाय़न उवाच:
उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ||
२६ ख
वैशम्पाय़न उवाच:
प्रय़ाणे वासुदेवस्य शमार्थमसितेक्षणे |
२७ क
वैशम्पाय़न उवाच:
यान्युक्तानि त्वय़ा भीरु वाक्यानि मधुघातिनः ||
२७ ख
वैशम्पाय़न उवाच:
नैव मे पतय़ः सन्ति न पुत्रा भ्रातरो न च |
२८ क
वैशम्पाय़न उवाच:
नैव त्वमपि गोविन्द शममिच्छति राजनि ||
२८ ख
वैशम्पाय़न उवाच:
उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् |
२९ क
वैशम्पाय़न उवाच:
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ||
२९ ख
वैशम्पाय़न उवाच:
हतो दुर्योधनः पापो राज्यस्य परिपन्थकः |
३० क
वैशम्पाय़न उवाच:
दुःशासनस्य रुधिरं पीतं विस्फुरतो मय़ा ||
३० ख
वैशम्पाय़न उवाच:
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् |
३१ क
वैशम्पाय़न उवाच:
जित्वा मुक्तो द्रोणपुत्रो व्राह्मण्याद्गौरवेण च ||
३१ ख
वैशम्पाय़न उवाच:
यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् |
३२ क
वैशम्पाय़न उवाच:
विय़ोजितश्च मणिना न्यासितश्चाय़ुधं भुवि ||
३२ ख
द्रौपद्यु उवाच:
केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम |
३३ क
द्रौपद्यु उवाच:
शिरस्येतं मणिं राजा प्रतिवध्नातु भारत ||
३३ ख
वैशम्पाय़न उवाच:
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा |
३४ क
वैशम्पाय़न उवाच:
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ||
३४ ख
वैशम्पाय़न उवाच:
ततो दिव्यं मणिवरं शिरसा धारय़न्प्रभुः |
३५ क
वैशम्पाय़न उवाच:
शुशुभे स महाराजः सचन्द्र इव पर्वतः ||
३५ ख
वैशम्पाय़न उवाच:
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी |
३६ क
वैशम्पाय़न उवाच:
कृष्णं चापि महावाहुं पर्यपृच्छत धर्मराट् ||
३६ ख