वैशम्पाय़न उवाच:
एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् |
१ क
वैशम्पाय़न उवाच:
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ||
१ ख
वैशम्पाय़न उवाच:
पतिव्रता महाभागा समानव्रतचारिणी |
२ क
वैशम्पाय़न उवाच:
उग्रेण तपसा युक्ता सततं सत्यवादिनी ||
२ ख
वैशम्पाय़न उवाच:
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः |
३ क
वैशम्पाय़न उवाच:
दिव्यज्ञानवलोपेता विविधं पर्यदेवय़त् ||
३ ख
वैशम्पाय़न उवाच:
ददर्श सा वुद्धिमती दूरादपि यथान्तिके |
४ क
वैशम्पाय़न उवाच:
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ||
४ ख
वैशम्पाय़न उवाच:
अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् |
५ क
वैशम्पाय़न उवाच:
शरीरैर्वहुसाहस्रैर्विनिकीर्णं समन्ततः ||
५ ख
वैशम्पाय़न उवाच:
गजाश्वरथय़ोधानामावृतं रुधिराविलैः |
६ क
वैशम्पाय़न उवाच:
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ||
६ ख
वैशम्पाय़न उवाच:
गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् |
७ क
वैशम्पाय़न उवाच:
सृगालवडकाकोलकङ्ककाकनिषेवितम् ||
७ ख
वैशम्पाय़न उवाच:
रक्षसां पुरुषादानां मोदनं कुरराकुलम् |
८ क
वैशम्पाय़न उवाच:
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ||
८ ख
वैशम्पाय़न उवाच:
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः |
९ क
वैशम्पाय़न उवाच:
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ||
९ ख
वैशम्पाय़न उवाच:
वासुदेवं पुरस्कृत्य हतवन्धुं च पार्थिवम् |
१० क
वैशम्पाय़न उवाच:
कुरुस्त्रिय़ः समासाद्य जग्मुराय़ोधनं प्रति ||
१० ख
वैशम्पाय़न उवाच:
समासाद्य कुरुक्षेत्रं ताः स्त्रिय़ो निहतेश्वराः |
११ क
वैशम्पाय़न उवाच:
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ||
११ ख
वैशम्पाय़न उवाच:
क्रव्यादैर्भक्ष्यमाणान्वै गोमाय़ुवडवाय़सैः |
१२ क
वैशम्पाय़न उवाच:
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ||
१२ ख
वैशम्पाय़न उवाच:
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रिय़ः |
१३ क
वैशम्पाय़न उवाच:
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ||
१३ ख
वैशम्पाय़न उवाच:
अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रिय़ः |
१४ क
वैशम्पाय़न उवाच:
शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ||
१४ ख
वैशम्पाय़न उवाच:
श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना |
१५ क
वैशम्पाय़न उवाच:
पाञ्चालकुरुय़ोषाणां कृपणं तदभून्महत् ||
१५ ख
वैशम्पाय़न उवाच:
दुःखोपहतचित्ताभिः समन्तादनुनादितम् |
१६ क
वैशम्पाय़न उवाच:
दृष्ट्वाय़ोधनमत्युग्रं धर्मज्ञा सुवलात्मजा ||
१६ ख
वैशम्पाय़न उवाच:
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् |
१७ क
वैशम्पाय़न उवाच:
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमव्रवीत् ||
१७ ख
वैशम्पाय़न उवाच:
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः |
१८ क
वैशम्पाय़न उवाच:
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ||
१८ ख
वैशम्पाय़न उवाच:
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् |
१९ क
वैशम्पाय़न उवाच:
पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ||
१९ ख
वैशम्पाय़न उवाच:
वीरसूभिर्महावाहो हतपुत्राभिरावृतम् |
२० क
वैशम्पाय़न उवाच:
क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ||
२० ख
वैशम्पाय़न उवाच:
शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः |
२१ क
वैशम्पाय़न उवाच:
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ||
२१ ख
वैशम्पाय़न उवाच:
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् |
२२ क
वैशम्पाय़न उवाच:
अङ्गदैर्हस्तकेय़ूरैः स्रग्भिश्च समलङ्कृतम् ||
२२ ख
वैशम्पाय़न उवाच:
वीरवाहुविसृष्टाभिः शक्तिभिः परिघैरपि |
२३ क
वैशम्पाय़न उवाच:
खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः ||
२३ ख
वैशम्पाय़न उवाच:
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् |
२४ क
वैशम्पाय़न उवाच:
क्वचिदाक्रीडमानैश्च शय़ानैरपरैः क्वचित् ||
२४ ख
वैशम्पाय़न उवाच:
एतदेवंविधं वीर सम्पश्याय़ोधनं विभो |
२५ क
वैशम्पाय़न उवाच:
पश्यमाना च दह्यामि शोकेनाहं जनार्दन ||
२५ ख
वैशम्पाय़न उवाच:
पाञ्चालानां कुरूणां च विनाशं मधुसूदन |
२६ क
वैशम्पाय़न उवाच:
पञ्चानामिव भूतानां नाहं वधमचिन्तय़म् ||
२६ ख
वैशम्पाय़न उवाच:
तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् |
२७ क
वैशम्पाय़न उवाच:
निगृह्य कवचेषूग्रा भक्षय़न्ति सहस्रशः ||
२७ ख
वैशम्पाय़न उवाच:
जय़द्रथस्य कर्णस्य तथैव द्रोणभीष्मय़ोः |
२८ क
वैशम्पाय़न उवाच:
अभिमन्योर्विनाशं च कश्चिन्तय़ितुमर्हति ||
२८ ख
वैशम्पाय़न उवाच:
अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन |
२९ क
वैशम्पाय़न उवाच:
गृध्रकङ्कवडश्येनश्वसृगालादनीकृतान् ||
२९ ख
वैशम्पाय़न उवाच:
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् |
३० क
वैशम्पाय़न उवाच:
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ||
३० ख
वैशम्पाय़न उवाच:
शय़नान्युचिताः सर्वे मृदूनि विमलानि च |
३१ क
वैशम्पाय़न उवाच:
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ||
३१ ख
वैशम्पाय़न उवाच:
वन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः |
३२ क
वैशम्पाय़न उवाच:
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ||
३२ ख
वैशम्पाय़न उवाच:
ये पुरा शेरते वीराः शय़नेषु यशस्विनः |
३३ क
वैशम्पाय़न उवाच:
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ||
३३ ख
वैशम्पाय़न उवाच:
तेषामाभरणान्येते गृध्रगोमाय़ुवाय़साः |
३४ क
वैशम्पाय़न उवाच:
आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ||
३४ ख
वैशम्पाय़न उवाच:
चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः |
३५ क
वैशम्पाय़न उवाच:
युद्धाभिमानिनः प्रीता जीवन्त इव विभ्रति ||
३५ ख
वैशम्पाय़न उवाच:
सुरूपवर्णा वहवः क्रव्यादैरवघट्टिताः |
३६ क
वैशम्पाय़न उवाच:
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ||
३६ ख
वैशम्पाय़न उवाच:
अपरे पुनरालिङ्ग्य गदाः परिघवाहवः |
३७ क
वैशम्पाय़न उवाच:
शेरतेऽभिमुखाः शूरा दय़िता इव योषितः ||
३७ ख
वैशम्पाय़न उवाच:
विभ्रतः कवचान्यन्ये विमलान्याय़ुधानि च |
३८ क
वैशम्पाय़न उवाच:
न धर्षय़न्ति क्रव्यादा जीवन्तीति जनार्दन ||
३८ ख
वैशम्पाय़न उवाच:
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् |
३९ क
वैशम्पाय़न उवाच:
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ||
३९ ख
वैशम्पाय़न उवाच:
एते गोमाय़वो भीमा निहतानां यशस्विनाम् |
४० क
वैशम्पाय़न उवाच:
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ||
४० ख
वैशम्पाय़न उवाच:
सर्वेष्वपररात्रेषु याननन्दन्त वन्दिनः |
४१ क
वैशम्पाय़न उवाच:
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ||
४१ ख
वैशम्पाय़न उवाच:
तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः |
४२ क
वैशम्पाय़न उवाच:
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ||
४२ ख
वैशम्पाय़न उवाच:
रक्तोत्पलवनानीव विभान्ति रुचिराणि वै |
४३ क
वैशम्पाय़न उवाच:
मुखानि परमस्त्रीणां परिशुष्काणि केशव ||
४३ ख
वैशम्पाय़न उवाच:
रुदितोपरता ह्येता ध्याय़न्त्यः सम्परिप्लुताः |
४४ क
वैशम्पाय़न उवाच:
कुरुस्त्रिय़ोऽभिगच्छन्ति तेन तेनैव दुःखिताः ||
४४ ख
वैशम्पाय़न उवाच:
एतान्यादित्यवर्णानि तपनीय़निभानि च |
४५ क
वैशम्पाय़न उवाच:
रोषरोदनताम्राणि वक्त्राणि कुरुय़ोषिताम् ||
४५ ख
वैशम्पाय़न उवाच:
आसामपरिपूर्णार्थं निशम्य परिदेवितम् |
४६ क
वैशम्पाय़न उवाच:
इतरेतरसङ्क्रन्दान्न विजानन्ति योषितः ||
४६ ख
वैशम्पाय़न उवाच:
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च |
४७ क
वैशम्पाय़न उवाच:
विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ||
४७ ख
वैशम्पाय़न उवाच:
वह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च |
४८ क
वैशम्पाय़न उवाच:
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणय़ः ||
४८ ख
वैशम्पाय़न उवाच:
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः |
४९ क
वैशम्पाय़न उवाच:
इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी ||
४९ ख
वैशम्पाय़न उवाच:
विशिरस्कानथो काय़ान्दृष्ट्वा घोराभिनन्दिनः |
५० क
वैशम्पाय़न उवाच:
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ||
५० ख