वैशम्पाय़न उवाच:
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |
१ क
वैशम्पाय़न उवाच:
धैर्यमास्थाय़ तेजस्वी ज्येष्ठं भ्रातरमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि |
२ क
वैशम्पाय़न उवाच:
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ||
२ ख
वैशम्पाय़न उवाच:
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् |
३ क
वैशम्पाय़न उवाच:
अतिदुःखात्तु वक्ष्यामि तन्निवोध जनाधिप ||
३ ख
वैशम्पाय़न उवाच:
भवतस्तु प्रमोहेन सर्वं संशय़ितं कृतम् |
४ क
वैशम्पाय़न उवाच:
विक्लवत्वं च नः प्राप्तमवलत्वं तथैव च ||
४ ख
वैशम्पाय़न उवाच:
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः |
५ क
वैशम्पाय़न उवाच:
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ||
५ ख
वैशम्पाय़न उवाच:
आगतिश्च गतिश्चैव लोकस्य विदिता तव |
६ क
वैशम्पाय़न उवाच:
आय़त्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ||
६ ख
वैशम्पाय़न उवाच:
एवं गते महाराज राज्यं प्रति जनाधिप |
७ क
वैशम्पाय़न उवाच:
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ||
७ ख
वैशम्पाय़न उवाच:
द्विविधो जाय़ते व्याधिः शारीरो मानसस्तथा |
८ क
वैशम्पाय़न उवाच:
परस्परं तय़ोर्जन्म निर्द्वन्द्वं नोपलभ्यते ||
८ ख
वैशम्पाय़न उवाच:
शारीराज्जाय़ते व्याधिर्मानसो नात्र संशय़ः |
९ क
वैशम्पाय़न उवाच:
मानसाज्जाय़ते व्याधिः शारीर इति निश्चय़ः ||
९ ख
वैशम्पाय़न उवाच:
शारीरमानसे दुःखे योऽतीते अनुशोचति |
१० क
वैशम्पाय़न उवाच:
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||
१० ख
वैशम्पाय़न उवाच:
शीतोष्णे चैव वाय़ुश्च त्रय़ः शारीरजा गुणाः |
११ क
वैशम्पाय़न उवाच:
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ||
११ ख
वैशम्पाय़न उवाच:
तेषामन्यतमोत्सेके विधानमुपदिष्यते |
१२ क
वैशम्पाय़न उवाच:
उष्णेन वाध्यते शीतं शीतेनोष्णं प्रवाध्यते ||
१२ ख
वैशम्पाय़न उवाच:
सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रय़ो गुणाः |
१३ क
वैशम्पाय़न उवाच:
हर्षेण वाध्यते शोको हर्षः शोकेन वाध्यते ||
१३ ख
वैशम्पाय़न उवाच:
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति |
१४ क
वैशम्पाय़न उवाच:
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||
१४ ख
वैशम्पाय़न उवाच:
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च |
१५ क
वैशम्पाय़न उवाच:
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ||
१५ ख
वैशम्पाय़न उवाच:
स्मर्तुमर्हसि कौरव्य दिष्टं तु वलवत्तरम् |
१६ क
वैशम्पाय़न उवाच:
अथ वा ते स्वभावोऽय़ं येन पार्थिव कृष्यसे ||
१६ ख
वैशम्पाय़न उवाच:
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् |
१७ क
वैशम्पाय़न उवाच:
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ||
१७ ख
वैशम्पाय़न उवाच:
प्रव्राजनं च नगरादजिनैश्च निवासनम् |
१८ क
वैशम्पाय़न उवाच:
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ||
१८ ख
वैशम्पाय़न उवाच:
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् |
१९ क
वैशम्पाय़न उवाच:
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि |
१९ ख
वैशम्पाय़न उवाच:
पुनरज्ञातचर्याय़ां कीचकेन पदा वधम् ||
१९ ग
वैशम्पाय़न उवाच:
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम |
२० क
वैशम्पाय़न उवाच:
मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ||
२० ख
वैशम्पाय़न उवाच:
यत्र नास्ति शरैः कार्यं न मित्रैर्न च वन्धुभिः |
२१ क
वैशम्पाय़न उवाच:
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||
२१ ख
वैशम्पाय़न उवाच:
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे |
२२ क
वैशम्पाय़न उवाच:
अन्यं देहं समास्थाय़ पुनस्तेनैव योत्स्यसे ||
२२ ख
वैशम्पाय़न उवाच:
तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ |
२३ क
वैशम्पाय़न उवाच:
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ||
२३ ख
वैशम्पाय़न उवाच:
एतां वुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |
२४ क
वैशम्पाय़न उवाच:
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||
२४ ख
वैशम्पाय़न उवाच:
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि |
२५ क
वैशम्पाय़न उवाच:
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ||
२५ ख
वैशम्पाय़न उवाच:
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
२६ क
वैशम्पाय़न उवाच:
वय़ं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ||
२६ ख