कृष्ण उवाच:
मूर्ध्ना निपत्य निय़तस्तेजःसंनिचय़े ततः |
१ क
कृष्ण उवाच:
परमं हर्षमागम्य भगवन्तमथाव्रुवम् ||
१ ख
कृष्ण उवाच:
धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं वलं च |
२ क
कृष्ण उवाच:
योगप्रिय़त्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ||
२ ख
कृष्ण उवाच:
एवमस्त्विति तद्वाक्यं मय़ोक्तः प्राह शङ्करः |
४ क
कृष्ण उवाच:
ततो मां जगतो माता धरणी सर्वपावनी |
४ ख
कृष्ण उवाच:
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ||
४ ग
कृष्ण उवाच:
दत्तो भगवता पुत्रः साम्वो नाम तवानघ |
५ क
कृष्ण उवाच:
मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते |
५ ख
कृष्ण उवाच:
प्रणम्य शिरसा सा च मय़ोक्ता पाण्डुनन्दन ||
५ ग
कृष्ण उवाच:
द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च |
६ क
कृष्ण उवाच:
कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ||
६ ख
देव्यु उवाच:
एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् |
७ क
देव्यु उवाच:
भार्यासहस्राणि च षोडशैव; तासु प्रिय़त्वं च तथाक्षय़त्वम् ||
७ ख
देव्यु उवाच:
प्रीतिं चाग्र्यां वान्धवानां सकाशा; द्ददामि ते वपुषः काम्यतां च |
८ क
देव्यु उवाच:
भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् ||
८ ख
वासुदेव उवाच:
एवं दत्त्वा वरान्देवो मम देवी च भारत |
९ क
वासुदेव उवाच:
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ||
९ ख
वासुदेव उवाच:
एतदत्यद्भुतं सर्वं व्राह्मणाय़ातितेजसे |
१० क
वासुदेव उवाच:
उपमन्यवे मय़ा कृत्स्नमाख्यातं कौरवोत्तम ||
१० ख
वासुदेव उवाच:
नमस्कृत्वा तु स प्राह देवदेवाय़ सुव्रत |
११ क
वासुदेव उवाच:
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे |
११ ख
वासुदेव उवाच:
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ||
११ ग
वासुदेव उवाच:
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः |
१२ क
वासुदेव उवाच:
दश वर्षसहस्राणि तेन देवः समाधिना |
१२ ख
वासुदेव उवाच:
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय़ ||
१२ ग
वासुदेव उवाच:
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् |
१३ क
वासुदेव उवाच:
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर |
१३ ख
वासुदेव उवाच:
अत्युग्रं तेजसां तेजस्तपसां परमं तपः ||
१३ ग
वासुदेव उवाच:
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत |
१४ क
वासुदेव उवाच:
भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ||
१४ ख
वासुदेव उवाच:
जातीमरणभीरूणां यतीनां यततां विभो |
१५ क
वासुदेव उवाच:
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय़ ||
१५ ख
वासुदेव उवाच:
व्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षय़ः |
१६ क
वासुदेव उवाच:
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वय़म् ||
१६ ख
वासुदेव उवाच:
त्वत्तः प्रवर्तते कालस्त्वय़ि कालश्च लीय़ते |
१७ क
वासुदेव उवाच:
कालाख्यः पुरुषाख्यश्च व्रह्माख्यश्च त्वमेव हि ||
१७ ख
वासुदेव उवाच:
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः |
१८ क
वासुदेव उवाच:
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् |
१८ ख
वासुदेव उवाच:
अधिलोक्याधिविज्ञानमधिय़ज्ञस्त्वमेव हि ||
१८ ग
वासुदेव उवाच:
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि |
१९ क
वासुदेव उवाच:
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामय़म् ||
१९ ख
वासुदेव उवाच:
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः |
२० क
वासुदेव उवाच:
द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ||
२० ख
वासुदेव उवाच:
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि |
२१ क
वासुदेव उवाच:
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ||
२१ ख
वासुदेव उवाच:
व्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः |
२२ क
वासुदेव उवाच:
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ||
२२ ख
वासुदेव उवाच:
भूर्वाय़ुर्ज्योतिरापश्च वाग्वुद्धिस्त्वं मतिर्मनः |
२३ क
वासुदेव उवाच:
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ||
२३ ख
वासुदेव उवाच:
इन्द्रिय़ाणीन्द्रिय़ार्थाश्च तत्परं प्रकृतेर्ध्रुवम् |
२४ क
वासुदेव उवाच:
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ||
२४ ख
वासुदेव उवाच:
यच्चैतत्परमं व्रह्म यच्च तत्परमं पदम् |
२५ क
वासुदेव उवाच:
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशय़ः ||
२५ ख
वासुदेव उवाच:
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् |
२६ क
वासुदेव उवाच:
यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलवुद्धय़ः ||
२६ ख
वासुदेव उवाच:
अहो मूढाः स्म सुचिरमिमं कालमचेतसः |
२७ क
वासुदेव उवाच:
यन्न विद्मः परं देवं शाश्वतं यं विदुर्वुधाः ||
२७ ख
वासुदेव उवाच:
सोऽय़मासादितः साक्षाद्वहुभिर्जन्मभिर्मय़ा |
२८ क
वासुदेव उवाच:
भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ||
२८ ख
वासुदेव उवाच:
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् |
२९ क
वासुदेव उवाच:
गुहाय़ां निहितं व्रह्म दुर्विज्ञेय़ं सुरैरपि ||
२९ ख
वासुदेव उवाच:
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः |
३० क
वासुदेव उवाच:
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ||
३० ख
वासुदेव उवाच:
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः |
३१ क
वासुदेव उवाच:
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ||
३१ ख
वासुदेव उवाच:
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् |
३२ क
वासुदेव उवाच:
अपुनर्मारकामानां या गतिः सोऽय़मीश्वरः ||
३२ ख
वासुदेव उवाच:
अय़ं च सर्वभूतानां शुभाशुभगतिप्रदः |
३३ क
वासुदेव उवाच:
अय़ं च जन्ममरणे विदध्यात्सर्वजन्तुषु ||
३३ ख
वासुदेव उवाच:
अय़ं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः |
३४ क
वासुदेव उवाच:
अय़ं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ||
३४ ख
वासुदेव उवाच:
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः |
३५ क
वासुदेव उवाच:
विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ||
३५ ख
वासुदेव उवाच:
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् |
३६ क
वासुदेव उवाच:
अस्मिंश्च प्रलय़ं याति अय़मेकः सनातनः ||
३६ ख
वासुदेव उवाच:
अय़ं स सत्यकामानां सत्यलोकः परः सताम् |
३७ क
वासुदेव उवाच:
अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ||
३७ ख
वासुदेव उवाच:
अय़ं व्रह्मादिभिः सिद्धैर्गुहाय़ां गोपितः प्रभुः |
३८ क
वासुदेव उवाच:
देवासुरमनुष्याणां न प्रकाशो भवेदिति ||
३८ ख
वासुदेव उवाच:
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् |
३९ क
वासुदेव उवाच:
मोहिताः खल्वनेनैव हृच्छय़ेन प्रवेशिताः ||
३९ ख
वासुदेव उवाच:
ये चैनं सम्प्रपद्यन्ते भक्तिय़ोगेन भारत |
४० क
वासुदेव उवाच:
तेषामेवात्मनात्मानं दर्शय़त्येष हृच्छय़ः ||
४० ख
वासुदेव उवाच:
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते |
४१ क
वासुदेव उवाच:
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ||
४१ ख
वासुदेव उवाच:
यं लव्ध्वा परमं लाभं मन्यते नाधिकं पुनः |
४२ क
वासुदेव उवाच:
प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षय़ावहाम् ||
४२ ख
वासुदेव उवाच:
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः |
४३ क
वासुदेव उवाच:
सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति वन्धनैः ||
४३ ख
वासुदेव उवाच:
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् |
४४ क
वासुदेव उवाच:
प्राणाय़ामपरा नित्यं यं विशन्ति जपन्ति च ||
४४ ख
वासुदेव उवाच:
अय़ं स देवय़ानानामादित्यो द्वारमुच्यते |
४५ क
वासुदेव उवाच:
अय़ं च पितृय़ानानां चन्द्रमा द्वारमुच्यते ||
४५ ख
वासुदेव उवाच:
एष कालगतिश्चित्रा संवत्सरय़ुगादिषु |
४६ क
वासुदेव उवाच:
भावाभावौ तदात्वे च अय़ने दक्षिणोत्तरे ||
४६ ख
वासुदेव उवाच:
एवं प्रजापतिः पूर्वमाराध्य वहुभिः स्तवैः |
४७ क
वासुदेव उवाच:
वरय़ामास पुत्रत्वे नीललोहितसञ्ज्ञितम् ||
४७ ख
वासुदेव उवाच:
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि वह्वृचः |
४८ क
वासुदेव उवाच:
यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ||
४८ ख