जनमेजय़ उवाच:
सभाय़ां वसतोस्तस्यां निहत्यारीन्महात्मनोः |
१ क
जनमेजय़ उवाच:
केशवार्जुनय़ोः का नु कथा समभवद्द्विज ||
१ ख
वैशम्पाय़न उवाच:
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् |
२ क
वैशम्पाय़न उवाच:
तस्यां सभाय़ां रम्याय़ां विजहार मुदा युतः ||
२ ख
वैशम्पाय़न उवाच:
ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप |
३ क
वैशम्पाय़न उवाच:
यदृच्छय़ा तौ मुदितौ जग्मतुः स्वजनावृतौ ||
३ ख
वैशम्पाय़न उवाच:
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः |
४ क
वैशम्पाय़न उवाच:
निरीक्ष्य तां सभां रम्यामिदं वचनमव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
विदितं ते महावाहो सङ्ग्रामे समुपस्थिते |
५ क
वैशम्पाय़न उवाच:
माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ||
५ ख
वैशम्पाय़न उवाच:
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् |
६ क
वैशम्पाय़न उवाच:
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ||
६ ख
वैशम्पाय़न उवाच:
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो |
७ क
वैशम्पाय़न उवाच:
भवांश्च द्वारकां गन्ता नचिरादिव माधव ||
७ ख
वैशम्पाय़न उवाच:
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत |
८ क
वैशम्पाय़न उवाच:
परिष्वज्य महातेजा वचनं वदतां वरः ||
८ ख
वैशम्पाय़न उवाच:
श्रावितस्त्वं मय़ा गुह्यं ज्ञापितश्च सनातनम् |
९ क
वैशम्पाय़न उवाच:
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ||
९ ख
वैशम्पाय़न उवाच:
अवुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रिय़म् |
१० क
वैशम्पाय़न उवाच:
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ||
१० ख
वैशम्पाय़न उवाच:
स हि धर्मः सुपर्याप्तो व्रह्मणः पदवेदने |
११ क
वैशम्पाय़न उवाच:
न शक्यं तन्मय़ा भूय़स्तथा वक्तुमशेषतः ||
११ ख
वैशम्पाय़न उवाच:
परं हि व्रह्म कथितं योगय़ुक्तेन तन्मय़ा |
१२ क
वैशम्पाय़न उवाच:
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ||
१२ ख
वैशम्पाय़न उवाच:
यथा तां वुद्धिमास्थाय़ गतिमग्र्यां गमिष्यसि |
१३ क
वैशम्पाय़न उवाच:
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ||
१३ ख
वैशम्पाय़न उवाच:
आगच्छद्व्राह्मणः कश्चित्स्वर्गलोकादरिन्दम |
१४ क
वैशम्पाय़न उवाच:
व्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ||
१४ ख
वैशम्पाय़न उवाच:
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ |
१५ क
वैशम्पाय़न उवाच:
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारय़न् ||
१५ ख
व्राह्मण उवाच:
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि |
१६ क
व्राह्मण उवाच:
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ||
१६ ख
व्राह्मण उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन |
१७ क
व्राह्मण उवाच:
शृणुष्वावहितो भूत्वा गदतो मम माधव ||
१७ ख
व्राह्मण उवाच:
कश्चिद्विप्रस्तपोय़ुक्तः काश्यपो धर्मवित्तमः |
१८ क
व्राह्मण उवाच:
आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ||
१८ ख
व्राह्मण उवाच:
गतागते सुवहुशो ज्ञानविज्ञानपारगम् |
१९ क
व्राह्मण उवाच:
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखय़ोः ||
१९ ख
व्राह्मण उवाच:
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापय़ोः |
२० क
व्राह्मण उवाच:
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ||
२० ख
व्राह्मण उवाच:
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संय़तेन्द्रिय़म् |
२१ क
व्राह्मण उवाच:
दीप्यमानं श्रिय़ा व्राह्म्या क्रममाणं च सर्वशः ||
२१ ख
व्राह्मण उवाच:
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः |
२२ क
व्राह्मण उवाच:
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ||
२२ ख
व्राह्मण उवाच:
सम्भाषमाणमेकान्ते समासीनं च तैः सह |
२३ क
व्राह्मण उवाच:
यदृच्छय़ा च गच्छन्तमसक्तं पवनं यथा ||
२३ ख
व्राह्मण उवाच:
तं समासाद्य मेधावी स तदा द्विजसत्तमः |
२४ क
व्राह्मण उवाच:
चरणौ धर्मकामो वै तपस्वी सुसमाहितः |
२४ ख
व्राह्मण उवाच:
प्रतिपेदे यथान्याय़ं भक्त्या परमय़ा युतः ||
२४ ग
व्राह्मण उवाच:
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् |
२५ क
व्राह्मण उवाच:
परिचारेण महता गुरुं वैद्यमतोषय़त् ||
२५ ख
व्राह्मण उवाच:
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंय़ुतः |
२६ क
व्राह्मण उवाच:
भावेन तोषय़च्चैनं गुरुवृत्त्या परन्तपः ||
२६ ख
व्राह्मण उवाच:
तस्मै तुष्टः स शिष्याय़ प्रसन्नोऽथाव्रवीद्गुरुः |
२७ क
व्राह्मण उवाच:
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ||
२७ ख
व्राह्मण उवाच:
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः |
२८ क
व्राह्मण उवाच:
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ||
२८ ख
व्राह्मण उवाच:
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः |
२९ क
व्राह्मण उवाच:
स्थानाच्च महतो भ्रंशो दुःखलव्धात्पुनः पुनः ||
२९ ख
व्राह्मण उवाच:
अशुभा गतय़ः प्राप्ताः कष्टा मे पापसेवनात् |
३० क
व्राह्मण उवाच:
काममन्युपरीतेन तृष्णय़ा मोहितेन च ||
३० ख
व्राह्मण उवाच:
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः |
३१ क
व्राह्मण उवाच:
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ||
३१ ख
व्राह्मण उवाच:
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः |
३२ क
व्राह्मण उवाच:
सुखानि च विचित्राणि दुःखानि च मय़ानघ ||
३२ ख
व्राह्मण उवाच:
प्रिय़ैर्विवासो वहुशः संवासश्चाप्रिय़ैः सह |
३३ क
व्राह्मण उवाच:
धननाशश्च सम्प्राप्तो लव्ध्वा दुःखेन तद्धनम् ||
३३ ख
व्राह्मण उवाच:
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा |
३४ क
व्राह्मण उवाच:
शारीरा मानसाश्चापि वेदना भृशदारुणाः ||
३४ ख
व्राह्मण उवाच:
प्राप्ता विमाननाश्चोग्रा वधवन्धाश्च दारुणाः |
३५ क
व्राह्मण उवाच:
पतनं निरय़े चैव यातनाश्च यमक्षय़े ||
३५ ख
व्राह्मण उवाच:
जरा रोगाश्च सततं वासनानि च भूरिशः |
३६ क
व्राह्मण उवाच:
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मय़ा ||
३६ ख
व्राह्मण उवाच:
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च |
३७ क
व्राह्मण उवाच:
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मय़ा |
३७ ख
व्राह्मण उवाच:
ततः सिद्धिरिय़ं प्राप्ता प्रसादादात्मनो मय़ा ||
३७ ग
व्राह्मण उवाच:
नाहं पुनरिहागन्ता लोकानालोकय़ाम्यहम् |
३८ क
व्राह्मण उवाच:
आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ||
३८ ख
व्राह्मण उवाच:
उपलव्धा द्विजश्रेष्ठ तथेय़ं सिद्धिरुत्तमा |
३९ क
व्राह्मण उवाच:
इतः परं गमिष्यामि ततः परतरं पुनः |
३९ ख
व्राह्मण उवाच:
व्रह्मणः पदमव्यग्रं मा ते भूदत्र संशय़ः ||
३९ ग
व्राह्मण उवाच:
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप |
४० क
व्राह्मण उवाच:
प्रीतोऽस्मि ते महाप्राज्ञ व्रूहि किं करवाणि ते ||
४० ख
व्राह्मण उवाच:
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽय़मागतः |
४१ क
व्राह्मण उवाच:
अभिजाने च तदहं यदर्थं मा त्वमागतः |
४१ ख
व्राह्मण उवाच:
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ||
४१ ग
व्राह्मण उवाच:
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण |
४२ क
व्राह्मण उवाच:
परिपृच्छ यावद्भवते भाषेय़ं यत्तवेप्सितम् ||
४२ ख
व्राह्मण उवाच:
वहु मन्ये च ते वुद्धिं भृशं सम्पूजय़ामि च |
४३ क
व्राह्मण उवाच:
येनाहं भवता वुद्धो मेधावी ह्यसि काश्यप ||
४३ ख