व्राह्मण उवाच:
न तद्दुर्योधनकृतं न च तद्भवता कृतम् |
१ क
व्राह्मण उवाच:
न कर्णसौवलाभ्यां च कुरवो यत्क्षय़ं गताः ||
१ ख
व्राह्मण उवाच:
दैवं तत्तु विजानीमो यन्न शक्यं प्रवाधितुम् |
२ क
व्राह्मण उवाच:
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||
२ ख
व्राह्मण उवाच:
अक्षौहिण्यो महाराज दशाष्टौ च समागताः |
३ क
व्राह्मण उवाच:
अष्टादशाहेन हता दशभिर्योधपुङ्गवैः ||
३ ख
व्राह्मण उवाच:
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना |
४ क
व्राह्मण उवाच:
युय़ुधानेन वीरेण धृष्टद्युम्नेन चैव ह ||
४ ख
व्राह्मण उवाच:
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनय़मैर्नृप |
५ क
व्राह्मण उवाच:
जनक्षय़ोऽय़ं नृपते कृतो दैववलात्कृतैः ||
५ ख
व्राह्मण उवाच:
अवश्यमेव सङ्ग्रामे क्षत्रिय़ेण विशेषतः |
६ क
व्राह्मण उवाच:
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रवन्धुना ||
६ ख
व्राह्मण उवाच:
तैरिय़ं पुरुषव्याघ्रैर्विद्यावाहुवलान्वितैः |
७ क
व्राह्मण उवाच:
पृथिवी निहता सर्वा सहय़ा सरथद्विपा ||
७ ख
व्राह्मण उवाच:
न स राजापराध्नोति पुत्रस्तव महामनाः |
८ क
व्राह्मण उवाच:
न भवान्न च ते भृत्या न कर्णो न च सौवलः ||
८ ख
व्राह्मण उवाच:
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः |
९ क
व्राह्मण उवाच:
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ||
९ ख
व्राह्मण उवाच:
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः |
१० क
व्राह्मण उवाच:
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ||
१० ख
व्राह्मण उवाच:
लभतां वीरलोकान्स ससहाय़ो नराधिपः |
११ क
व्राह्मण उवाच:
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ||
११ ख
व्राह्मण उवाच:
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् |
१२ क
व्राह्मण उवाच:
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ||
१२ ख
व्राह्मण उवाच:
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः |
१३ क
व्राह्मण उवाच:
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ||
१३ ख
व्राह्मण उवाच:
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च |
१४ क
व्राह्मण उवाच:
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ||
१४ ख
व्राह्मण उवाच:
व्रह्मदेय़ाग्रहारांश्च परिहारांश्च पार्थिव |
१५ क
व्राह्मण उवाच:
पूर्वराजातिसर्गांश्च पालय़त्येव पाण्डवः ||
१५ ख
व्राह्मण उवाच:
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा |
१६ क
व्राह्मण उवाच:
अक्षुद्रसचिवश्चाय़ं कुन्तीपुत्रो महामनाः ||
१६ ख
व्राह्मण उवाच:
अप्यमित्रे दय़ावांश्च शुचिश्च भरतर्षभ |
१७ क
व्राह्मण उवाच:
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ||
१७ ख
व्राह्मण उवाच:
विप्रिय़ं च जनस्यास्य संसर्गाद्धर्मजस्य वै |
१८ क
व्राह्मण उवाच:
न करिष्यन्ति राजर्षे तथा भीमार्जुनादय़ः ||
१८ ख
व्राह्मण उवाच:
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः |
१९ क
व्राह्मण उवाच:
वीर्यवन्तो महात्मानः पौराणां च हिते रताः ||
१९ ख
व्राह्मण उवाच:
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती |
२० क
व्राह्मण उवाच:
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ||
२० ख
व्राह्मण उवाच:
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् |
२१ क
व्राह्मण उवाच:
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ||
२१ ख
व्राह्मण उवाच:
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः |
२२ क
व्राह्मण उवाच:
मानवान्पालय़िष्यन्ति भूत्वा धर्मपराय़णाः ||
२२ ख
व्राह्मण उवाच:
स राजन्मानसं दुःखमपनीय़ युधिष्ठिरात् |
२३ क
व्राह्मण उवाच:
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ ||
२३ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं धर्म्यमनुवन्धगुणोत्तरम् |
२४ क
वैशम्पाय़न उवाच:
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ||
२४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः |
२५ क
वैशम्पाय़न उवाच:
विसर्जय़ामास तदा सर्वास्तु प्रकृतीः शनैः ||
२५ ख
वैशम्पाय़न उवाच:
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा |
२६ क
वैशम्पाय़न उवाच:
प्राञ्जलिः पूजय़ामास तं जनं भरतर्षभ ||
२६ ख
वैशम्पाय़न उवाच:
ततो विवेश भुवनं गान्धार्या सहितो नृपः |
२७ क
वैशम्पाय़न उवाच:
व्युष्टाय़ां चैव शर्वर्यां यच्चकार निवोध तत् ||
२७ ख