chevron_left सभा पर्व अध्याय १६
वासुदेव उवाच:
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च |
१ क
वासुदेव उवाच:
या वै युक्ता मतिः सेय़मर्जुनेन प्रदर्शिता ||
१ ख
वासुदेव उवाच:
न मृत्योः समय़ं विद्म रात्रौ वा यदि वा दिवा |
२ क
वासुदेव उवाच:
न चापि कञ्चिदमरमय़ुद्धेनापि शुश्रुमः ||
२ ख
वासुदेव उवाच:
एतावदेव पुरुषैः कार्यं हृदय़तोषणम् |
३ क
वासुदेव उवाच:
नय़ेन विधिदृष्टेन यदुपक्रमते परान् ||
३ ख
वासुदेव उवाच:
सुनय़स्यानपाय़स्य संय़ुगे परमः क्रमः |
४ क
वासुदेव उवाच:
संशय़ो जाय़ते साम्ये साम्यं च न भवेद्द्वय़ोः ||
४ ख
वासुदेव उवाच:
ते वय़ं नय़मास्थाय़ शत्रुदेहसमीपगाः |
५ क
वासुदेव उवाच:
कथमन्तं न गच्छेम वृक्षस्येव नदीरय़ाः |
५ ख
वासुदेव उवाच:
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ||
५ ग
वासुदेव उवाच:
व्यूढानीकैरनुवलैर्नोपेय़ाद्वलवत्तरम् |
६ क
वासुदेव उवाच:
इति वुद्धिमतां नीतिस्तन्ममापीह रोचते ||
६ ख
वासुदेव उवाच:
अनवद्या ह्यसम्वुद्धाः प्रविष्टाः शत्रुसद्म तत् |
७ क
वासुदेव उवाच:
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुय़ामहे ||
७ ख
वासुदेव उवाच:
एको ह्येव श्रिय़ं नित्यं विभर्ति पुरुषर्षभ |
८ क
वासुदेव उवाच:
अन्तरात्मेव भूतानां तत्क्षय़े वै वलक्षय़ः ||
८ ख
वासुदेव उवाच:
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः |
९ क
वासुदेव उवाच:
प्राप्नुय़ाम ततः स्वर्गं ज्ञातित्राणपराय़णाः ||
९ ख
युधिष्ठिर उवाच:
कृष्ण कोऽय़ं जरासन्धः किंवीर्यः किम्पराक्रमः |
१० क
युधिष्ठिर उवाच:
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ||
१० ख
कृष्ण उवाच:
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः |
११ क
कृष्ण उवाच:
यथा चोपेक्षितोऽस्माभिर्वहुशः कृतविप्रिय़ः ||
११ ख
कृष्ण उवाच:
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः |
१२ क
कृष्ण उवाच:
राजा वृहद्रथो नाम मगधाधिपतिः पतिः ||
१२ ख
कृष्ण उवाच:
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः |
१३ क
कृष्ण उवाच:
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ||
१३ ख
कृष्ण उवाच:
तेजसा सूर्यसदृशः क्षमय़ा पृथिवीसमः |
१४ क
कृष्ण उवाच:
यमान्तकसमः कोपे श्रिय़ा वैश्रवणोपमः ||
१४ ख
कृष्ण उवाच:
तस्याभिजनसंय़ुक्तैर्गुणैर्भरतसत्तम |
१५ क
कृष्ण उवाच:
व्याप्तेय़ं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ||
१५ ख
कृष्ण उवाच:
स काशिराजस्य सुते यमजे भरतर्षभ |
१६ क
कृष्ण उवाच:
उपय़ेमे महावीर्यो रूपद्रविणसंमते ||
१६ ख
कृष्ण उवाच:
तय़ोश्चकार समय़ं मिथः स पुरुषर्षभः |
१७ क
कृष्ण उवाच:
नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ||
१७ ख
कृष्ण उवाच:
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप |
१८ क
कृष्ण उवाच:
प्रिय़ाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ||
१८ ख
कृष्ण उवाच:
तय़ोर्मध्यगतश्चापि रराज वसुधाधिपः |
१९ क
कृष्ण उवाच:
गङ्गाय़मुनय़ोर्मध्ये मूर्तिमानिव सागरः ||
१९ ख
कृष्ण उवाच:
विषय़ेषु निमग्नस्य तस्य यौवनमत्यगात् |
२० क
कृष्ण उवाच:
न च वंशकरः पुत्रस्तस्याजाय़त कश्चन ||
२० ख
कृष्ण उवाच:
मङ्गलैर्वहुभिर्होमैः पुत्रकामाभिरिष्टिभिः |
२१ क
कृष्ण उवाच:
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ||
२१ ख
कृष्ण उवाच:
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः |
२२ क
कृष्ण उवाच:
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ||
२२ ख
कृष्ण उवाच:
यदृच्छय़ागतं तं तु वृक्षमूलमुपाश्रितम् |
२३ क
कृष्ण उवाच:
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषय़त् ||
२३ ख
कृष्ण उवाच:
तमव्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः |
२४ क
कृष्ण उवाच:
परितुष्टोऽस्मि ते राजन्वरं वरय़ सुव्रत ||
२४ ख
कृष्ण उवाच:
ततः सभार्यः प्रणतस्तमुवाच वृहद्रथः |
२५ क
कृष्ण उवाच:
पुत्रदर्शननैराश्याद्वाष्पगद्गदय़ा गिरा ||
२५ ख
वृहद्रथ उवाच:
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् |
२६ क
वृहद्रथ उवाच:
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ||
२६ ख
कृष्ण उवाच:
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रिय़ः |
२७ क
कृष्ण उवाच:
तस्यैव चाम्रवृक्षस्य छाय़ाय़ां समुपाविशत् ||
२७ ख
कृष्ण उवाच:
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह |
२८ क
कृष्ण उवाच:
अवातमशुकादष्टमेकमाम्रफलं किल ||
२८ ख
कृष्ण उवाच:
तत्प्रगृह्य मुनिश्रेष्ठो हृदय़ेनाभिमन्त्र्य च |
२९ क
कृष्ण उवाच:
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् ||
२९ ख
कृष्ण उवाच:
उवाच च महाप्राज्ञस्तं राजानं महामुनिः |
३० क
कृष्ण उवाच:
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ||
३० ख
कृष्ण उवाच:
यथासमय़माज्ञाय़ तदा स नृपसत्तमः |
३१ क
कृष्ण उवाच:
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ||
३१ ख
कृष्ण उवाच:
ते तदाम्रं द्विधा कृत्वा भक्षय़ामासतुः शुभे |
३२ क
कृष्ण उवाच:
भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ||
३२ ख
कृष्ण उवाच:
तय़ोः समभवद्गर्भः फलप्राशनसम्भवः |
३३ क
कृष्ण उवाच:
ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ||
३३ ख
कृष्ण उवाच:
अथ काले महाप्राज्ञ यथासमय़मागते |
३४ क
कृष्ण उवाच:
प्रजाय़ेतामुभे राजञ्शरीरशकले तदा ||
३४ ख
कृष्ण उवाच:
एकाक्षिवाहुचरणे अर्धोदरमुखस्फिजे |
३५ क
कृष्ण उवाच:
दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ||
३५ ख
कृष्ण उवाच:
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदावले |
३६ क
कृष्ण उवाच:
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ||
३६ ख
कृष्ण उवाच:
तय़ोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे |
३७ क
कृष्ण उवाच:
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ||
३७ ख
कृष्ण उवाच:
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी |
३८ क
कृष्ण उवाच:
जग्राह मनुजव्याघ्र मांसशोणितभोजना ||
३८ ख
कृष्ण उवाच:
कर्तुकामा सुखवहे शकले सा तु राक्षसी |
३९ क
कृष्ण उवाच:
सङ्घट्टय़ामास तदा विधानवलचोदिता ||
३९ ख
कृष्ण उवाच:
ते समानीतमात्रे तु शकले पुरुषर्षभ |
४० क
कृष्ण उवाच:
एकमूर्तिकृते वीरः कुमारः समपद्यत ||
४० ख
कृष्ण उवाच:
ततः सा राक्षसी राजन्विस्मय़ोत्फुल्ललोचना |
४१ क
कृष्ण उवाच:
न शशाक समुद्वोढुं वज्रसारमय़ं शिशुम् ||
४१ ख
कृष्ण उवाच:
वालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय़ सः |
४२ क
कृष्ण उवाच:
प्राक्रोशदतिसंरम्भात्सतोय़ इव तोय़दः ||
४२ ख
कृष्ण उवाच:
तेन शव्देन सम्भ्रान्तः सहसान्तःपुरे जनः |
४३ क
कृष्ण उवाच:
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ||
४३ ख
कृष्ण उवाच:
ते चावले परिग्लाने पय़ःपूर्णपय़ोधरे |
४४ क
कृष्ण उवाच:
निराशे पुत्रलाभाय़ सहसैवाभ्यगच्छताम् ||
४४ ख
कृष्ण उवाच:
अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् |
४५ क
कृष्ण उवाच:
तं च वालं सुवलिनं चिन्तय़ामास राक्षसी ||
४५ ख
कृष्ण उवाच:
नार्हामि विषय़े राज्ञो वसन्ती पुत्रगृद्धिनः |
४६ क
कृष्ण उवाच:
वालं पुत्रमुपादातुं मेघलेखेव भास्करम् ||
४६ ख
कृष्ण उवाच:
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् |
४७ क
कृष्ण उवाच:
वृहद्रथ सुतस्तेऽय़ं मद्दत्तः प्रतिगृह्यताम् ||
४७ ख
कृष्ण उवाच:
तव पत्नीद्वय़े जातो द्विजातिवरशासनात् |
४८ क
कृष्ण उवाच:
धात्रीजनपरित्यक्तो मय़ाय़ं परिरक्षितः ||
४८ ख
कृष्ण उवाच:
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे |
४९ क
कृष्ण उवाच:
तं वालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ||
४९ ख
कृष्ण उवाच:
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च |
५० क